काठ्माण्डू

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(काट्मण्डू इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

काट्माण्डू(नेपालीभाषा - काठमांडौ - येँ देय्‌) नेपालदेशस्य राजधानी अस्ति । उपदशलक्षाः अत्र निवसन्ति । नेपालस्य महत्तमनगरेषु अन्यतमम् अस्ति । अस्मिन् महानगरे ललितपुर-भक्तपुरनामिके भगिनिनगरे स्तः । बहवः लघूनि नगराणि सन्ति । इदं नगरं नेपालस्य केन्द्रभागे १४०० मीटर्मिते कंसाकारिकायाम् उपत्यकायां शिवपुरि-फूल्चौक्-नागार्जुन-चन्द्रगिरिशिखराणां मध्ये विद्यते । काठ्माण्डूनगरं - काठ्माण्डू, ललितपुरम्, भक्तपुरम् इत्येतैः त्रिभिः मण्डलैः युक्तः अस्ति । देशे अत्यधिका जननिबिडता अत्रैव दृश्यते । पञ्चदशांशात्मिका जनसङ्ख्या विद्यते । काठ्मण्डू नेपालस्य राजधानीमात्रं न, इदं केन्द्रभागस्य (मध्यमाञ्चलस्य) प्रमुखकेन्द्रं वर्तते । केन्द्रभागः - भागमती, नारायणी, जनकपुरम् इत्येतैः त्रिभिः विभागैः युक्तः वर्तते । तस्मिन् काठ्मण्डू भागमतिविभागे अन्तर्भवति । जनाः हिन्दुधर्मस्य बौद्धमतस्य च अवलम्बिनः दृश्यन्ते अधिकतया । नेपालीभाषा बहुभिः उपयुज्यमाना भाषा । शिक्षितैः आङ्ग्लभाषा अवगम्यते । ९८% जनाः अक्षरज्ञाः सन्ति । 'युनेस्को'संस्थया काठ्मण्डु-उपत्यका (काठ्मण्डु-ललितपुर-भक्तपुरश्च) जागतिकपारम्परिकस्थलत्वेन परिगणिता अस्ति ।

नामनिष्पत्तिः[सम्पादयतु]

'काठ्मण्डु' इत्येतत् नाम 'काष्ठमण्डप' इत्यतः निष्पन्नम् । 'मरुसत्तल ' इत्यपि प्रसिद्धम् इदं विशिष्टं मन्दिरं राजा लक्ष्मीनरसिङ्गमल्लेन १५९६ तमे वर्षे निर्मितम् । अट्टद्वयात्मकम् इदं समग्रं मन्दिरं काष्ठेन एव निर्मितम् अस्ति । इदं नगरं 'कान्तिपुरम्' इत्यपि निर्दिश्यते स्म । 'कान्तिः' इत्येतत् लक्ष्माः अपरं नाम ।

काष्ठमण्डपम्

इतिहासः[सम्पादयतु]

पुरातत्त्वज्ञैः काठ्मण्डुप्रदेशे कृतेन गवेषणेन प्राचीनसंस्कृतेः अवशेषाः प्राप्ताः सन्ति । तेषु अन्यतमः अस्ति मालिगान्प्रदेशे दृष्टा क्रि श १८५ तमे वर्षे निर्मिता प्रतिमा । धण्डोचैत्ये कृतात् खननात् ब्राह्मीलिप्या युक्ता काचित् इष्टिका प्राप्ता अस्ति । इयं २००० वर्षप्राचीना इति विश्वस्यते पुरातत्त्वज्ञैः ।

मञ्जुश्री-बोधिसत्त्वः

प्राचीनेतिहासः[सम्पादयतु]

काठ्मण्डुनगरस्य प्राचीनेतिहासः पुराणसम्बद्धः । स्वयम्भूपुराणानुगुणम् इदं नगरं पूर्वं 'नागदहः' नामकः सरः आसीत् । इदं सरः मञ्जुश्री शुष्कीकृत्य तत्र मञ्जुपत्तनं निर्मितवती । तस्य राजा आसीत् धर्माकरः । नेपालीयानां वंशवृक्षस्य अध्येता गोपालराज् वन्सवली वदति यत् लिचचाविनां शासनात् पूर्वं इदं मण्डलं गोपालः, महिष्पालाः, आभिराः, किराताश्च अशासन् इति । प्राचीनोल्लेखाः अत्यल्पाः उपलभ्यन्ते ।

मध्यकालीनेतिहासः[सम्पादयतु]

अस्मिन् समये काठ्मण्डुनगरस्य शासकाः आसन् लिच्छविजनाः मल्लाश्च । नगरस्य वर्धनम् अस्मिन् काले एव अधिकतया जातम् । बहवः ऐतिहासिकानि मन्दिराणि, आश्रमाः भवनानि च अस्मिन् एव काले निर्मितानि । इदं नगरं भारत-चीनदेशयोः वाणिज्यस्य केन्द्रभूतम् आसीत् । लिच्छवियुगे इदं नगरं द्विधा विभक्तम् आसीत् - कोलिग्राम् (यम्बु/थःने) दक्षिण-कोलिग्राम् (येङ्गाल्/क्वःने) च इति । अग्रे गुणकमदेव एतद्वयं संयोज्य मञ्जुश्रीस्य खड्गाकारकं नगरं निर्मितवान् । नगरं परितः अष्ट मातृका सहितं सेनावासाः रचिताः आसन् । अजिमाः एतेषां नायकाः आसन् । नगरं सम्पदः देव्याः कान्ते नाम्ना कान्तिपुरम् इति नामाङ्कितम् आसीत् । मानगृह-कैलासकूटभवन-भद्रादिवासभवन-इत्यादीनां भवनानाम् उल्लेखः कृताः दृश्यन्ते तदानीन्तनैः यात्रिकैः संन्यासिभिश्च । सप्तमशतकस्य लिच्छविराजस्य अंशुवर्मणः प्रासादस्य कैलासकूटभवनस्य उल्लेखः प्रसिद्धेन चैनीयात्रिकेण झुवाङ्ग्जाङ्गेन कृतः दृश्यते ।

अग्रे मल्लयुगः आरब्धः । तदा काठ्मण्डु - कान्तिपुर-ललितपुर-भक्तपुर-कीर्तिपुरनामकैः चतुर्भिः नगरैः युक्तम् आसीत् । एतेषां मण्डलानां मध्ये कला-शिल्प-वाणिज्यादिषु विषयेषु महती स्पर्धा भवति स्म इत्यनेन सर्वत्र महती प्रगतिः दृष्टा । विविधाः कलाविदः कलाप्रचाराय देशे विदेशे च बहु अटन्ति स्म । एषियाखण्डस्य बहुत्र तैः कलाप्रचारः कृतः । सार्वजनिकभवनानां, मन्दिराणां निर्माणे, नीतिसंहितायाः सज्जीकरणे, नाटकादीनां लेखने, जनसम्मर्दप्रदेशेषु तस्य प्रदर्शने च स्वयं राजानः एव आसक्तिं प्रदर्शयन्ति स्म । राज्ञः प्रतापमल्लस्य शिलालेखेषु भारत-टिबेट्-चैना-पर्शिया-युरोप्-इत्यादिभ्यः देशेभ्यः प्राप्तानि चिन्तनानि उल्लिखितानि दृश्यन्ते । तन्त्राख्यान, हरमेखला (वैद्यकीयम्), मूल्देवशशिदेव (धर्मः), अमरकोशः इत्यादयः ग्रन्थाः अस्मिन् युगे एव रचिताः । अस्मिन् युगे निर्मितानि प्रसिद्धानि भवनानि - कठ्मण्डु दर्बार् स्क्वेर्, पाटन् दर्बार् स्क्वेर्, भक्तपुर् दर्बार् स्क्वेर्, कीर्तिपुरस्य भूतपूर्व दर्बार्, न्यातपोल, कुम्भेश्वर, कृष्णमन्दिरं च ।

आधुनिकेतिहासः[सम्पादयतु]

मल्लशासनात् अनन्तरं गोखसाम्राज्यस्य उदयः आधुनिकयुगस्य आरम्भकालः । काठ्माण्डु तेषां राजधानी आसीत् । नव-अट्टयुक्तं बसन्तपुरभवनम् इत्यादीनि नेपालीशिल्पकलायुक्तानि नूतनानि भवनानि निर्मितानि । प्रतिवेशिदेशैः सह जातात् निरन्तरयुद्धात् वाणिज्यं कुण्ठितं जातम् । ग्रेट्ब्रिटन्देशस्य विरुद्धं फ्रान्स्देशेन सह भीमसेनथापेन कृतस्य सन्धेः कारणतः नूतनसेना व्यवस्थापिता जाता । ब्रिटीश्विरुद्धनीतिः ब्रिटीश्परं जातं राणस्य शासनकाले । तदा एव विदेशीशिल्पकलायाः प्रगतिः अत्र दृष्टा । अस्य कालस्य प्रमुखानि भवनानि सन्ति - सिंहदर्बार्, कैसर्महल्, शीतल्निवास्, प्राचीननारायणहितिप्रासादः च । 'न्यूरोड्' इत्येषः अस्मिन् युगे निर्मितः आधुनिकवाणिज्यमार्गः ।

भूगोलम्[सम्पादयतु]

काठ्मण्डुनगरं काठ्मण्डु-उपत्यकायाः वायव्यदिशि विद्यते । अस्य विस्तारः अस्ति ५०.६७ चतरस्रकिलोमीटर्मितम् । समुद्रतीरात् सामान्यम् औन्नत्यं विद्यते १३५० मीटर्मितम् । नगरस्य दक्षिणभागे ललितपुरम्, नैरुत्यदिशि कीर्तिपुरम्, पूर्वदिशि मध्यपुरम्, अन्यासु दिक्षु विविधाः ग्रामाः विद्यन्ते । नगरे अष्ट नद्यः प्रवहन्ति यासु बागमती, विष्णुमती, धोबिखोला, मनोहरा, हनुमन्त्, तुकुचा च मुख्याः सन्ति । एतासां नदीनाम् उगमस्थानरूपाः पर्वताः १५००-३००० मीटर्मिते औन्नत्ये विद्यन्ते । अत्र अधिकतया ओक्, एल्म्, बीच्, मापल् वृक्षाः दृश्यन्ते ।

नेपालदेशे पञ्च विभिन्नवातावरणयुक्ताः प्रदेशाः निर्दिष्टाः सन्ति । तेषु काठ्मण्डु-उपत्यका उष्णवातावरणयुक्तः (१२००-२३०० मीटर्-औन्नत्यम्) प्रदेशः इति निर्दिश्यते यत्र वातावरणं हितकरं भवति । उष्णकाले अत्र २८-३० सेण्टिग्रेड्मितं भवति । शैत्यकाले १०.१ सेण्टिग्रेड्मितम् उष्णं भवति ।

आर्थिकता[सम्पादयतु]

भारत-टिबेट्देशयोः मार्गे काठ्मण्डुनगरस्य वाणिज्यं वर्धितम् । टिबेट्नगरे लासायां तेषां वाणिज्यं प्रसिद्धम् आसीत् । तेषाम् अन्याः वृत्तयः नाम कृषिः, काष्ठकार्यम्, वयनम्, कौलालं च । नेपालीयलोक्तकागदस्य पश्मिनाराङ्कवाणां च वाणिज्याय काठ्मण्डु प्रसिद्धं वर्तते ।

नेपालस्य औद्योगिक-वाणिज्यकेन्द्रमस्ति काठ्मण्डु । इदं बहूनां संस्थानां वित्तकोषाणां सङ्घटनानां च मुख्यकेन्द्ररूपेण विद्यते । नगरस्य आर्थिकतायां वाणिज्यस्य २१%, उत्पादनस्य १९%, कृषेः ९%, शिक्षणस्य ६%, परिवहनस्य ६%, उपाहारमन्दिरस्य ५% भागः भवति । नेपालस्य धनिकाः बहवः अत्र यद्यपि निवसन्ति नगरस्य अधिकांशाः जनाः निर्धनाः सन्ति ।

स्वयम्भुनाथचैत्यात् काठ्मण्डु-उपत्यकायाः मनोहरं दृश्यम्

प्रवासोद्यमः[सम्पादयतु]

नेपालदेशे प्रवासोद्यमः १९५० तमे वर्षे आरब्धः । ततः देशस्य राजनैतिकी स्थितिः सम्पूर्णतया परिवर्तिता । जगता सह सम्बन्धः आरब्धः । १९५६ तमे वर्षे वैमानिकव्यवस्था आरब्धा, काठ्मण्डु-राक्सर्-एतयोः मध्ये राष्ट्रियमुख्यमार्गः निर्मितः । नेपालदेशः अन्तर-राष्ट्रिय-प्रवासोद्यमसंस्थासु सदस्यत्वं प्राप्नोत् । नगरस्य अधिकांशानां जनानां प्रवासोद्यमः एव जीविका । हिन्दु-बौद्ध-यात्रिणः अत्रत्यानि पशुपतिनाथ, कैलासनाथ-महादेव-प्रतिमा(जगतः अत्युन्नतः शिवमूर्तिः), स्वयम्भुनाथ, बौद्धनाथ, बुधनीलकण्ठ-इत्यादीनां स्थलानां दर्शनाय आगच्छन्ति । यात्रिणां सङ्ख्या निरन्तरं वर्धमाना दृश्यते । हिमालयस्य प्राकृतिकसौन्दर्यं देशस्य वैभवपूर्णा सांस्कृतिकी सम्पत्तिश्च अस्य उद्यमस्य यशस्वितायै प्रमुखाः हेतवः ।

सर्वकारः पौरव्यवस्था च[सम्पादयतु]

काठ्मण्डुमहानगरं पञ्चधा विभक्तम् अस्ति - केन्द्र-पूर्व-उत्तर-नगर-पश्चिमभागाः इति । पौरशासनाय नगरमिदं ३५ निर्वहणपाल्यत्वेन विभक्तम् । नगरपालिकायाः निर्वहणाय १७७ निर्वाचितसदस्याः २० नियुक्तसदस्याः च भवन्ति । वर्षे द्विवारम् अस्याः गोष्ठी प्रचलति यस्याम् अभिवद्ध्यै अपेक्षिताः निर्णयाः स्वीकरिष्यन्ते ।

नेवारिजनाः

जनसङ्ख्या[सम्पादयतु]

अत्रत्या जनसङ्ख्या अस्ति ६,७१,८४६ (२००१ जनगणतेः आधारेण) । पूर्वारभ्य नेवारजनाः अत्र अधिकाः सन्ति । ९,१५,०७१ - २०११ तमे वर्षे । १३,१९,५९७ जनसङ्ख्या भवेत् इति ऊह्यते २०२१ तमे वर्षे । जनसङ्ख्यायाः वर्धनानुगुणं भूविस्तारः अपि चिन्त्यमानः अस्ति ।

संस्कृतिः[सम्पादयतु]

शिल्पकलाकृतिः

कलाः[सम्पादयतु]

काठ्मण्डु-उपत्यका कला-शिल्पकलानाम् आगारम् इति उच्यते । काष्ठ-शिला-धातु-इत्यादिभिः निर्मिताः शिल्पकलाः मन्दिरेषु, स्तूपेषु, चैत्यासु, प्रासादेषु च दृश्यन्ते । देवतानां कलाकृतयः मार्गेषु, गृहेषु च दृश्यन्ते । एताः कलाः बहु पूर्वारभ्य विद्यते स्म चेदपि जगति तस्य प्रसारः १९५० तमवर्षात् अनन्तरं जगतः कृते देशस्य द्वाराणि यदा उद्घाटितानि तदा एव जातः ।

सङ्ग्रहालयाः[सम्पादयतु]

दि न्याषनल् सङ्ग्रहालयः, दि न्याचुरल् हिस्टरि सङ्ग्रहालयः, हनुमन्धोक-प्रासाद-समुच्चयः, कैसर्-ग्रन्थालयः, दि पटान् सङ्ग्रहालयः, राष्ट्रिय-कलाशाला, नेपाल्-फैन्-आर्ट्-ग्यालरि, नेपाल्-आर्ट्-कौन्सिल्-ग्यालरि इत्यादयः काठ्मण्डुनगरे विद्यमानाः केचन सङ्ग्रहालयाः ।

सङ्गीतम्[सम्पादयतु]

नेपालदेशे काठ्मण्डु सङ्गीतनृत्यानां केन्द्रं वर्तते । 'गुन्ला' इत्येषः साम्प्रदायिकः सङ्गीतोत्सवः । नेवारसङ्गीतस्य उगमस्थानमस्ति काठ्मण्डुनगरम् । नेपाले विद्यमानाः सर्वे सङ्गीतप्रकाराः अत्र द्रष्टुं शक्याः । १९७० तमे वर्षे बहवः हिप्पिजनाः अत्र आगत्य राक् राल् सङ्गीतस्य परिचयम् अकारयन् ।

धर्मः[सम्पादयतु]

हनुमान्धोकामन्दिरम्

हिन्दुधर्मः[सम्पादयतु]

काठ्मण्डुनगरे विद्यमानाः बहवः देवालयाः अतीव प्राचीनाः विद्यन्ते । पशुपतिनाथदेवालयः, चाङ्गुनारायणदेवालयः (प्राचीनतमः), काष्ठमण्डपं च प्रमुखानि सन्ति । बज्रयोगिनीदेवालयः, दक्षिणकालीदेवालयः, गुह्येश्वरीदेवालयः, शोभाभगवतीमन्दिरं च अन्ये देवालयाः । काठ्मण्डुनगरे प्रवहति बागमतिनदी हिन्दुभिः बौद्धैः च पवित्रा मन्यते । kli[[dhzop-वलिताक्षराणि
लघुः पाठ्यांशः

  1. पुनर्निदेशन [[

]]

बौद्धधर्मः[सम्पादयतु]

बौद्धनाथः

काठ्मण्डु, तत्र विद्यमानाः स्तूपाः च नेवार्-टिबेटन्-बौद्धानां महत्त्वपूर्णाः सन्ति । बौद्धमतं संस्कृतेन आचर्यते इति निर्देष्टुं योग्यम् एकमेव स्थलं नाम काठ्मण्डु । अत्रत्यौ राजकुमारी भृकुटी-कलाकारः अरनिको च टिबेट्देशे बौद्धमतस्य प्रचारकार्ये बहु प्रमुखं पात्रम् अवहताम् । शाक्यमुनिवंशजाः अत्रैव न्यवसन् इति विश्वस्यते । १९६० तमात् वर्षात् शाश्वत-टिबेटीयबौद्धानां सङ्ख्या अवर्धत । ५० बौद्धविहाराः वर्तन्ते । अन्ताराष्ट्रिय-बौद्ध-अकाडमि, कोपन्-विहारः, अमिताबविहारः, थार्लाम्-विहारश्च उल्लेखार्हाः ।

अन्यानि मतानि[सम्पादयतु]

सिक्खजनानां गुरुद्वारं कुपुण्डोल्प्रदेशे विद्यते । काठमण्डु-उपत्यकायां ३०० बहैमतस्य बहामन्दिराणि विद्यन्ते । ४.२% जनाः यवनाः सन्ति । क्रैस्तानां सङ्ख्या अत्यल्पा - ०.४५% । तथापि काठ्मण्डुनगरे एव १७० क्रैस्तमन्दिराणि वर्तन्ते ।

दशरथ-रङ्गसाल-क्रीडाङ्गणम्

क्रीडाः[सम्पादयतु]

पादकन्दुकक्रीडा, क्रिकेट्क्रीडा च युवानां प्रिया वर्तते । आल्-नेपाल्-फुट्बाल्-असोसियेषन्-इत्यस्य मुख्यः कार्यालयः काठ्मण्डुनगरे वर्तते । दशरथ-रङ्गसाल-क्रीडाङ्गणम् अन्ताराष्ट्रिय-पादकन्दुक-क्रीडाङ्गणं वर्तते । क्रिकेट्क्रीडा युवानां बहु प्रिया जायमाना अस्ति । कीर्तिपुरे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडाङ्गणं वर्तते ।

बाह्यशृङ्खला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=काठ्माण्डू&oldid=248589" इत्यस्माद् पुनः प्राप्तिः