कान्होपात्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sant Kanhopatra
Kanhopatra sings to Vithoba
जन्मतिथिः 15th century, exact date unknown
जन्मस्थानम् Mangalvedhe, Maharashtra, India
मृत्युतिथिः 15th century, exact date unknown
मृत्युस्थानम् Pandharpur, Maharashtra
तत्त्वचिन्तनम् Varkari
सम्मानाः Sant (संत) in Marathi, meaning "Saint"
साहित्यिककृतयः Abhanga devotional poetry


सः पञ्चदशतम शतकस्य समयः । कर्णाटकस्य उत्तरार्धभागे पण्डरपुरसमीपस्य प्रख्याता राजधानी मङ्गलपीडा । एतत्स्थानं तदानीन्तनस्य वाणिज्यशासनसांस्कृतिकानां केन्द्रं आसीत् । तस्मिन् नगरॆ वेश्यावाटिकायां किञ्चित् सुन्दरगृहम् । तस्मिन् तदानीन्तनस्य प्रख्यातवेश्या श्यामा निवसति स्म । स्वस्य यौव्वनकाले धनिकान्, वणिजः, रसिकान् अङ्गुल्याः उपरि नर्तयितवती आसीत् । एतस्याः काचित् पुत्री, कान्होपात्रा इति । अतीवसौन्दर्यवती एषा षोडशी अप्सरॊर्वश्योः समाना आसीत् । एतस्याः अपरिमितं सौन्दर्यं परितेषु प्रदेशेषु प्रख्यातमासीत् । अनेकाः धनिकाः एतां प्राप्तुम् उत्सुकाः आसन् । तस्याः माता अपि पुत्री स्वर्णाण्डप्रसूः कुक्कुटी इति विश्वस्तवती। तस्याः द्वारा अधिकं सम्पदं सम्पादयितुं शक्यते इति आशितवती आसीत् । एतदर्थं सा पुत्र्यै सङ्गीतं नृत्यं च पाठितवती आसीत् । पुत्र्याः नृत्यप्रदर्शनं कारयित्वा सौन्दर्यप्रियान् आकृष्य धनं सम्पादनीयम् इति इच्छा मातुः आसीत् ।

बलवत् दैवचिन्तनम्[सम्पादयतु]

किन्तु स्वस्य एक चिन्तनं दैवस्य अन्यदेव चिन्तनम् इति अभवत् । एतादृशं धनार्जनं कान्होपात्रायाः इष्टं नासीत् । एतस्मिन् विषये सा मात्रा सह कलहमेव कृतवती । समाधानेन यावत् वदति चेदपि माता न शृणोति स्म । तदा सा निश्चयेन मातरं अवदत्, तबलाध्वनिः श्रूयते चेत् मम हृदयं छिन्नं छिन्नमिव भासते । मातः सारङ्ग्याः मधुरध्वनिः अपि वृश्चिकदशनमिव मम शरीरं भिद्यते । एवं शताधिका वृश्चिकाः मां दष्टवन्तः इव अतीववेदनाम् अनुभवामि । नूपुराणां निनादः माम् अशक्तां करोति । उत्तमान् वेषभूषणान् धृत्वा आगतान् रसिकान् पश्यामि चेत् मम श्वासोच्छासः स्थगितमिव भासते । ते भयानकाः यमदूताः इव दृश्यन्ते । मातः एतद् सर्वं मया न शक्यते मां क्षम्यतामिति प्रार्थयत । उदरनिमित्तं वयं सर्वेऽपि नष्टाः स्मः । पुत्रि अनुत्तमम् उदरम् इति श्यामा पुत्र्याः केशान् आमृशन्ती एवम् अवदत् । एतदर्थं मनसः पवित्रभावनानां दमनं कृत्वा, स्वस्य सर्वनाशं कृत्वा, विषपानमिव किञ्चित् किञ्चित् पातव्यमेव पुत्रि । आरम्भे हृदये निश्चयेन क्लेशः भवति एव । किन्तु अनन्तरदिनेषु सः एव अभ्यासः भवति । सः एव अस्माकं जीवनस्य कश्चन भागः इव भवति । एतादृशं जीवनम् अहं नॆच्छामि मातः । तज्जीवनं पादाघातेन क्षिपामि । स्पष्टवचनेन स्वस्य हृदयस्य भावान्, निश्चयं च उक्तवती । मनसः पवित्रभावनानां दमनं कृत्वा कामवासनायाः पङ्के पतितुम् अहं न इच्छामि । भवत्याः वचनमिव विषचषकम् अधरे स्थापयितुमपि न इच्छामि । छिन्नं वस्त्रं धृत्वा भिक्षायाचनेन वा जीवनं करोमि किन्तु एतादृशं जीवनं मास्तु । भिक्षा न लभ्यते चेत् उपवासेन, भगवतः नामजपं कुर्वती शयनं करोमि । एतेन विना मम धर्मं सतीत्वम् अस्मिन् नरकसदृशे वेश्यासमाजे दुर्दान्तकीटरूपेण स्वर्णरजतवज्रवैढूर्यखण्डेभ्यः समर्पयितुं न इच्छामि । बुभुक्षज्वाल्या पीडितः शुनकः इव मरणं प्राप्नोमि किन्तु एतादृशं घृणितं जीवनं न करोमि अहं न जीवामि एवम् इति वदन्त्याः कान्होपात्रायाः नेत्रेभ्यः अश्रुप्रवाहः प्रवहती । तस्याः अञ्चलं पूर्णम् आर्द्रम् जातम् । पुत्रि भवत्याः उत्तमं भवतु इत्येव अहम् एवं वदन्ती अस्मि ।

मातुः विचारपरिवर्तनम्[सम्पादयतु]

पुत्र्याः चिन्तनं ज्ञात्वा श्यामा चकिता अभवत् । एतावत् कष्टेन पालयित्वा इदानीं पुत्री स्वस्य हस्तात् गच्छति वा इति भयमपि तस्याः आसीत् । किन्तु मातुः ममता अपि तस्यां जागृता आसीत् । अतः सा बहुप्रेम्णा वदति पुत्रि अतः एव अहं वदामि भवती कस्यचित् धनिकस्य पाणीग्रहणं कृत्वा, तस्य आश्रये जीवनं यापयतु । एकस्य आश्रयं प्राप्नोतु । भवत्याः सौन्दर्यस्य पुरतः तु अप्सराः अपि लज्जिताः भवन्ति । भवती काञ्चित् लघुसंज्ञां ददाति चेत् पर्याप्तम् । कतिचन धनिकाः कुबेराः भवत्याः पादे पतन्ति । एतद् यौव्वनं तु अस्मद्सदृशाणां देहे सर्वदा न भवति । कुत्रापि कतिचनवर्षाणि केवलं तिष्ठति । तस्मिन् समये एव जीवनपर्यन्तं यावत् धनम् आवश्यकं तावत् सङ्ग्रहणीयम् । मम प्राणाः गच्छन्तः सन्ति मातः, मातरं मध्ये निवार्य अतीवदुःखेन पुत्री वदति । रक्तमांसेन निर्मितायाः कस्याश्चित् पाञ्चालिकायाः कण्ठाय मम बाहुमालां धारयितुं निश्चयेन अहं न इच्छामि । एवम् उक्त्वा कान्होपात्रा ततः उत्थाय अन्यं प्रकोष्ठं गत्वा उच्छैः रोदनम् आरब्धवती ।

पाण्डुरङ्गदर्शनम्[सम्पादयतु]

कालः धावति बहूनिदिनानि अतीतानि । कदाचित् सा देवसङ्क्रीतनगीतं श्रुतवती । तेन सा तीव्रतया आकृष्टा । गृहात् बहिः आगत्य दृष्टवती । के गायन्तः सन्ति इति अज्ञात्वा ते के इति पृष्टवती । ते वार्करि पन्थीयाः, पण्डरपुरस्य विठ्ठलस्य भक्ताः, तस्य दर्शनार्थं पण्डरापुरं गच्छन्तः सन्ति इति उक्तवन्तः । भवन्तः कम् उद्दिश्य गायन्तः सन्ति ? कान्होपात्रा कुतूहलेन पृष्टवती । अस्माकं देवस्य तस्य विठ्ठलस्य श्लाघनस्य भजनानि गायन्तः स्मः । सः करुणाकरः, हृदयवान्, महान्व्यक्तिः, सः अत्यन्तं श्रेष्ठः । मनसि एव काचित् आशा कान्होपात्रायाः । अतः पृष्टवती यद्यहं तं शरणं व्रजामि तर्हि माम् अपि सः स्वीकरिष्यति वा ? भवती तस्य शरणं गच्छतु । सः निश्चयेन भवत्याम् अनुग्रहं दत्त्वा भवतीं स्वीकरोति । एवं ते वार्करी पन्थस्य नियमाः, देवस्य अनुग्रहं कथं प्राप्तव्यं, सः कथं पूजनीयः ? तेन कियत् दैविकानन्दं प्राप्तुं शक्यते इति विवृतवन्तः । तेषाम् उपदेशेन प्रभाविता । तस्याः पूर्वजन्मनः शुभसंस्कारः जागरितः अभवत् । नश्वरजगतः अस्थिरता, पापानां भीषणपरिणामाः नेत्रयोः पुरतः नृत्यन्ति स्म । मामपि तस्य पाण्डुरङ्गस्य समीपं नयन्ति किल ? इति सा तान् भक्तान् अपृच्छत् । अस्तु भवती अपि आगच्छतु अस्माभिः सह गन्तुं शक्यते । पण्डरापुरं गत्वा विठ्ठलस्य दर्शनं कृत्वा भवती अपि पुनीता भवतु । स्वस्य सर्वस्वं, मातरमपि त्यक्त्वा सा तैः सह प्रस्थितवती । पण्डरपुरं प्राप्य, देवालयं प्रविश्य, पाण्डुरङ्गस्य प्रतिमायाः दर्शनानुक्षणं सा विवशा जाता । आत्मानं विस्मृतवती । तस्य सेवायां स्वं समर्पयितुं निश्चित्य, हृदये तम् एव पूरितवती । सा तत्रैव स्थितवती । प्रतिदिनं देवस्य पुरतः तस्य श्लाघनस्य भक्तिगीतानि गायन्ती, नृत्यन्ती च आत्मानं विस्मरन्ती आसीत् ।

बिदरसुल्तानस्य आक्रमणम्[सम्पादयतु]

एतावत्पर्यन्तं कान्होपात्रायाः सौन्दर्यस्य प्रभावः दशदिक्षु अपि प्रसृतः आसीत् । बीदरस्य सुल्तानः अपि एतस्य सौन्दर्यस्य विचारं ज्ञातवान् । एतादृशः सौन्दर्यखनिः स्वस्य जनानस्य अलङ्कारः भवेत् इति सः इष्टवान् । अतः तां प्रासादम् आनेतुं सेनां प्रेषितवान् आसीत् । आवश्यकं चेत् बलप्रयोगेन वा ताम् आनेतुं सूचितवान् आसीत् । यथावत् विठ्ठलमन्दिरे सा यदा अभङ्गानि गायन्ती नृत्यन्ती आसीत् तदा सुल्तानस्य सैनिकाः तत्र आगतवन्तः । ते किमर्थम् आगतवन्तः इति दर्शकाः सर्वे ज्ञातवन्तः । विरोधं कृत्वापि प्रयोजनं नास्ति इति चिन्तितवन्तः । सैनिकाः किमर्थम् आगतवन्तः सन्ति इति कान्होपात्रा अपि ज्ञातवती । तया किं करणीयम् इत्यपि निर्णयं कृतवती । ततः पलायनं कर्तुं तु मार्गः नास्ति इति ज्ञात्वा, सैनिकान् एवं प्रार्थितवती निश्चयेन अहं भवद्भिः सह आगच्छामि । किन्तु अन्ते एकवारं समीपतः भगवतः पाण्डुरङ्गस्य दर्शनं कृत्वा आगच्छामि । अनुमतिं यच्छन्तु । तस्याः कम्पनयुक्तवचनशैलीं दृष्ट्वा, देवालयस्य परितः आवृतान् सैनिकान्, तत्रत्य योग्यरक्षणस्य च परिशीलनं कृत्वा सा ततः पलायनं कर्तुं तु न शक्नोति इति मत्वा, भवती सुल्तानस्य अङ्के शयनस्य पुण्यं प्राप्तवती अस्ति । भवत्याः का न्यूनता ? भवत्या अस्माभिः सह आगन्तव्यमेव इति कश्चित् सैनिकः वदति उक्तवान् । भवत्याः अन्वेषणं कुर्वतः अस्माकम् एतादृशी स्थितिः अभवत् । अधिकसम्भाषणेन विना अस्माभिः सह प्रस्थानं करोतु इति अपरः सैनिकः गर्जयति । अग्रजाः कृपया एकवारं विठ्ठलस्य दर्शनं कृत्वा आगच्छामि इति रुदन्ती सा प्रार्थितवती । एतावता पाण्डुरङ्गस्य कृपया, तस्याः रोदनेन विचलितः कश्चन सैनिकः करुणया, कोपिष्ठसैनिकाय अवदत् । त्यजतु रे देवदर्शनं कृत्वा आगच्छामि इति वदन्ती अस्ति, भवतु, सा दर्शनं कृत्वा आगच्छतु नाम । सा कुत्र गच्छति ? वयम् अत्रैव स्मः किल ? देवदर्शनानन्तरं सा अस्माकं हस्तगता एव भविष्यति इति । एतस्य वचनं अन्यसैनिकैः अनुमितम् । ते कान्होपात्राय देवस्य दर्शनं कर्तुम् अवकाशम् अयच्छन् । ते देवालयात् बहिः आवरणे तस्याः प्रतीक्षायां स्थितवन्तः ।

विठ्ठले लीना[सम्पादयतु]

कान्होपात्रा गर्भगृहं प्रविश्य, पाण्डुरङ्गस्य पादे शिरः स्थापयित्वा, स्तोतुम् आरब्धवती । अतीव व्याकुलतया, शोकतप्तहृदयेन सा प्रार्थनाम् आरब्धवती । हे पाण्डुरङ्ग अयं मम स्वामिनं मातरं पितरं भ्रातरं भगिनीं च त्यक्त्वा मम सर्वं भवान् एव इति चिन्तयित्वा भवतः समीपम् आगतवती अस्मि । याम् आपदां दूरीकर्तुं मातरं त्यक्त्वा अत्र आगतवती अस्मि, सा आपत् एव मम पृष्ठतः आगत्य इदानीं शिरसि स्थितास्तु । नरकाय माम् आकृष्टुं यमदूताः आगत्य बहिः स्थितवन्तः सन्ति । हे देव मह्यं भवतः पदकमलस्य आश्रयस्य विना अन्यः कोऽपि आश्रयः नावश्यकम् । मां भवान् स्वीकरोतु कश्चित् दुष्टराजस्य आशापाशे भवतः भक्तायाः बलिः भवते रोचते वा ? भवतः भक्तायाः एतादृशी स्थितिः न्यायः वा ? भवान् एव चिन्तयतु भवतः श्रेष्ठत्वस्य प्रश्नः एषः भवान् एव पश्यतु पुभो इत्युक्त्वा स्वस्य शिरः परमात्मनः चरणे स्थापितवती । तस्मिन् क्षणे तस्याः प्राणाः गताः । तस्याः शरीरम् अचेतनम् अभवत् । तस्याः शरीरात् काचित् दीपशिखा प्रस्थाय भगवतः विग्रहे लीना अभवत् । एतद् दृश्यं तत्र स्थिताः भक्ताः दृष्ट्वा दिङ्मूढाः जाताः । बहिः सैनिकाः कान्होपात्राय प्रतीक्षां कृत्वा कृत्वा जामीताः अभवन् । अन्ते बलात् देवालयस्य अन्तः प्रविश्य ते तस्याः मृतशरीरं दृष्ट्वा विस्मिताः अभवन् । विषयं ज्ञात्वा सुल्तानः अग्निः इव ज्वलति स्म । किन्तु तं शान्तं कृत्वा देवालयस्य अर्चकाः तं देवालयम् आगन्तुम् असूचयन् । सः देवालयम् आगत्य विठ्ठलं दृष्ट्वा घटनायाः सत्यांशं ज्ञातवान् । पश्चात् कान्होपात्रायाः जीवनेन सः अपि नीतिं ज्ञातवान् । अपि च पाण्डुरङ्गस्य भक्तः अभवत् ।

कीर्तिशेषा कन्होपात्रा[सम्पादयतु]

कान्होपात्रायाः अस्थीनि मन्दिरस्य दक्षिणद्वारस्य समीपे समाधिं कृत्वा, तत्र मन्दिरमेकं निर्मितवन्तः । पण्डरापुरं गच्छतः भक्ताः अस्मिन् मन्दिरे कान्होपात्रायाः प्रतिमायाः दर्शनं कृत्वा एव अग्रे गच्छन्ति । एवं रीत्या पतितजनाः पावनाः भवितुम् इच्छन्ति । एषा देवस्य अनेकानि कीर्तनानि रचितवती अस्ति । अभङ्ग नाम्ना एते प्रख्याताः सन्ति । किन्तु एतादृशः अभङ्गः कति सन्ति इति न ज्ञातम् । मुखतः मुखे कतिचन अभङ्गाः सन्ति । तादृशस्य कश्चन अभङ्गे सा एवं पाण्डुरङ्गं वर्णितवती अस्ति हे विठोब मम अन्तिमः आधारः इति मत्वा भवतः समीपम् आगतवती अस्मि । अहं काचित् दरिद्रा, दीना, पापी इत्यनेन भवन्तमेव आश्रितवती अस्मि । मम जातिः धर्मः मतं च सम्पदः किमपि नास्ति । एतादृशी अहं भवतः सेवार्थं योग्या नास्मि चेदपि हे विठोभ भवतः पादे मह्यम् आश्रयं ददातु । हे प्रभो अहं भवतः सेविका, कान्होपात्रा अस्मि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कान्होपात्रा&oldid=376286" इत्यस्माद् प्रतिप्राप्तम्