कामाख्या मन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कामाख्या (गुवाहटी) इत्यस्मात् पुनर्निर्दिष्टम्)
कामाख्या मन्दिरम्
कामाख्या मन्दिरम्
भौगोलिकस्थितिः: २६°०९′५९″उत्तरदिक् ९१°४२′२०″पूर्वदिक् / 26.166426°उत्तरदिक् 91.705509°पूर्वदिक् / २६.१६६४२६; ९१.७०५५०९
नाम
इतरनामानि: Shakti Peeth
शुद्धनाम: Kamakhya Temple
अवस्थितिः
देशः: भारत
राज्यम्: असम
मण्डलम्: कामरूप महानगर मण्डलम्
अवस्थितिः: नीलाचल, गुवाहाटी
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: कामाक्षा
प्रमुखोत्सवः: अम्बुवाचि मेला
स्थापत्यशैली: Stone architecture
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
१५६४-६३
स्रष्टा:

First - Prehistoric, Second - During Varman period

and current second structure above ancient base - Chilarai

कामाख्या मन्दिरम् (आङ्ग्ल: Kamakhya Temple) एतत् शक्तिपीठं भारतस्य असमराज्यस्य गुवाहाटीनगरे अस्ति। एतत् शक्तिपीठं विश्वासाचारयोः मेलनस्य प्रतीकम् इति वक्तुं शक्नुमः। यतः शक्तिपथस्य मूलम् अस्ति योनिपूजा। सा पूजा अत्र अक्षरशः आचरणे अस्ति। अत्र वामाचारस्य बलिपूजा तथा कौलपूजा प्रचलति।

सम्पर्कः[सम्पादयतु]

गुवहाटी नगरं प्रति देशस्य नानाभागेभ्यः सम्पर्कः अस्ति । गुवाहटीतः ७ की.मी.दूरे नीलाचलपर्वते अस्ति । समीपस्थं विमानस्थानकं गुवाहटी । समीपरेलस्थानकं नीलाचलम्।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः योनिभागः पतितः इति विश्वासः । अत्रत्या देवी त्रिपुरसुन्दरी, त्रिपुरभैरवी, ललिताम्बा इत्यादिभिः नामभिः, अत्रत्यशिवः उमानन्दनाम्ना च पूज्यते । अस्य मन्दिरस्य अपरं वैशिष्ट्यं नाम भक्ताः अत्र स्वयं पूजां कर्तुं शक्नुवन्ति । अत्र प्राणिबलिः प्रचलति । किन्तु पुम्मृगान् एव बलिरूपेण अर्पयन्ति । अस्य क्षेत्रस्य विषये काचित् कथा प्रचलिता अस्ति ।

कथा[सम्पादयतु]

बहुपूर्वं कौचित् राजकुमारौ मृगयार्थम् आगतवन्तौ आस्ताम् । पिपासितौ तौ अत्रत्यां काञ्चित् वृद्धां जलं दातुं प्रार्थितवन्तौ । सा वृद्धा समीपस्थं निर्झरं प्रदर्श्य "अस्मिन् प्रदेशे देव्याः योनिभागः पतितः आसीत् । अत्र देवालयस्य निर्माणं कुरुताम्” इति संसूच्य अदृश्या अभवत् । राजकुमारौ तस्य स्थलस्य परिशीलनं क्रुतवन्तौ । योनिरूपस्य शिला तस्मिन् निर्झरे दृष्टा । शिलां परितः जलं प्रवहति स्म । चकितौ तौ तत्र मन्दिरस्य निर्माणं कृतवन्तौ ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कामाख्या_मन्दिरम्&oldid=480117" इत्यस्माद् प्रतिप्राप्तम्