कामेट् (शिखरम्)
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
| कामेट्-शिखरम् | |
|---|---|
| कामेट् | |
Kamet and the Garhwal Himalaya from Ranikhet, Uttarakhand |
|
| Elevation | ७,७५६ m (२५,४४६ ft) Ranked 29th |
| Prominence | २,८२५ m (९,२६८ ft) |
| Listing | Ultra |
| Location | |
| Location in northern India | |
| Location | उत्तरखण्डः, भारतम् |
| Range | Zaskar Range, हिमालयः |
| Coordinates | 30°55′13″N 79°35′37″E / 30.92028°N 79.59361°ECoordinates: 30°55′13″N 79°35′37″E / 30.92028°N 79.59361°E |
| Climbing | |
| First ascent | June 21, 1931 by Frank Smythe, Eric Shipton, R.L. Holdsworth and Lewa Sherpa |
| Easiest route | glacier/snow/ice climb |
भारतस्य उत्तराखण्डेराज्ये गढ्वालप्रदेशस्य अत्यन्तम् उन्नतम् पर्वतशिखरं कामेट् । ७७७६ मी (२५४४६ पादमितम्) औन्नत्ये स्थितं कामेट् शिखरं चमोलीमण्डले टिबेट्देशस्य सीमया संयुक्तमस्ति । हिमालयस्य मुख्य- श्रेण्याः किञ्चित् उत्तरे भागे स्थितायां झंस्कारपर्वतश्रेण्यां विद्यमानं कामेट् अत्युन्नतम् शिखरम् अस्ति । टिबेट्पीठभूमेः समीपस्थं कामेट् शिखरं दुर्गमप्रदेशः इति परिगणितम् अस्ति । किन्तुं शिखरस्य आरोहणं कष्टकरं न इति पर्वतारोहिणाम् अभिप्रायः अस्ति । कामेट् शिखरं परितः अन्यानि त्रीणि उन्नतशिखराणि सन्ति । ते तु --
- मुकुट् पर्बत्( मुकुटशिखरम् )(७२४२ मी)
- अबि गमीन (८३५५ मी)
- नमत्तुमाणा (७२७२ मी)
कामेट् शिखरं परितः १)पश्चिमकामेट् हिमनदी २)पूर्वकामेट् हिमनदी ३) रैकाना हिमनदी च सन्ति । पश्चिमकामेट् हिमनद्या सरस्वतीनदी उद्भवति । पूर्वकामेट् हिमनदी धौलीगङ्गानद्याः मूलम् । एते नद्यौ ‘अलकनन्दानद्याः मुख्य- उपनद्यौ ।