कारवी
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
एषा कारवी भारते अपि वर्धमानः कश्चन हरितकविशेषः । इयं कारवी तृणकुलीया । इदम् अपि किञ्चन सस्यम् । अतः कारवी अपि सस्यजन्यः आहारपदार्थः । इयं कारवी आङ्ग्लभाषायां Dill इति उच्यते । अनया कारव्या क्वथितं, सारः, व्यञ्जनं, दोसा, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एषा कारवी अल्पकालिका बहुवार्षिका च । तन्नाम एतत् कारवीसस्यम् अल्पेन एव कालेन वर्धते, तथैव बहूनि वर्षाणि यावत् जीवति, फलं ददाति इति । एषा कारवी "अनेथन्" इति सस्यजातेः एकमात्रसस्यम् अस्ति । एतत् कारवी सस्यं ४०-५० से.मी. यावत् वर्धते ।