कार्त्तिकेयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कार्तिकेयः इत्यस्मात् पुनर्निर्दिष्टम्)
Kartikeya
Subramanya, Murugan
तमिळानुवादः முருகன்
கார்த்திகேயன்
சுப்பிரமணியன்
व्यक्तिगतविवरणम्
पितरौ
  • Shiva or Agni (पिता)


कार्तिकेयः (तमिलुभाषायां मुरुगन्) तमिलुहैन्दवसमाजे कश्चित् प्रसिद्धः देवता पुरुषः । विशेषतः तमिलुप्रान्ते एनं पूजयन्ति । एवं दक्षिणभारते, सिन्गपूर्-श्रीलङ्का-, मलेष्या-मारिषस्-देशेषु पूजयन्ति। श्रीलङ्कादेशस्य दक्षिणे भागे विद्यमानं कार्तिकेयस्य अत्यन्तं श्रेष्ठं पवित्रतमं कतरगामामन्दिरं बौद्धाः हैन्दवाश्च् पूज्यभावेन पश्यन्ति । एवमेव मलेषियादेशस्य पिनाङ्ग्, क्वाललुम्पूर्प्रान्तस्य चीनजनाः च ताय्पूसाम्-अवधौ कार्तिकेयं पूजयन्ति । कर्णाटके दक्षिणजनपदे विद्यमानं सुब्रह्मण्यक्षेत्रमपि बहु प्रसिद्धिं प्राप्तमस्ति ।

इतिहासः[सम्पादयतु]

कुक्केसुब्रह्मण्यक्षेत्रं धारानदीतीरे अस्ति । हिन्दुपुराणग्रन्थानाम् आधारेण ज्ञायते यत् देवसेनापतिः कुमारस्वामी तारकशूरपद्मासुरादि राक्षसान् मारयित्वा अत्र आगतवान् इति । तस्य रक्तसिक्तम् आयुधम् अस्यां नद्यां धारायां प्रक्षालितवान् । एतदनन्तरं धारा कुमारधारा इति प्रसिद्धिं प्राप्तवती । युद्धसमाप्तेः अनन्तरं सहोदरः गणेशः, अन्यैः वीरबाह्वादिभिः सहचरैः साकं मिलित्वा कुमारपर्वतस्य शिखरभागं प्रति आगतवान् । देवेन्द्रप्रभृतयः एतस्य स्वागतं कृतवन्तः । राक्षसैः सह जाते युद्धे सः विजयं प्राप्तवान् इत्यतः देवेन्द्रः 'देवसेनानामिकां मम कन्यकां वृणोतु’ इति प्रार्थनां क्रुतवान् । अस्तु इति अङ्गीकारं प्रदर्शितवान् कुमारस्वामी । विवाहस्तु मार्गशीर्षशुद्धषष्ठ्यां सुसम्पन्नः । अस्मिन् विवाहे एवं सिंहासनारोहणसमारम्भे च ब्रह्मा, विष्णुः, महेश्वरादि देवताः उपस्थिताः आसन् । अस्मिन्न् शुभे कार्यक्रमे विविध नदीनां जलम् अनीतमासीत् । इदं पवित्रं जलम् भूस्पर्शं क्रुत्वा नदिस्वरूपं सम्प्राप्य 'कुमारधारा’ इति प्रसिद्धिं प्राप्तवती । गरुडस्य पीडाम् असहमानः महाशिवभक्तः नागराजः वासुकिः, कुक्केसुब्रह्मणय़क्षेत्रस्य बिल्वद्वारानामिकायां गुहायां तपसः आचरणम् अकरोत् । तस्मै नागराजाय (वासुक्याः कृते) दर्शनभाग्यं दत्तवान् कुमारः । एवं परमभक्तस्य साकं शाश्वतरूपेण अत्रैव वासं करोमि इति अभयं दत्तवान् । अतः यत् वासुकेः कृते अर्चनादिकं समर्प्येत तत् सर्वमपि सुब्रह्मण्याय समर्पितमेव भवति । अत्र प्रतिवर्षं मार्गशीर्षशुद्धषष्ठ्यां रथोत्सवः भवति । एवं विशेषपूजा अपि भवति । अस्यैव दिनस्य 'चम्पाषष्ठी’ इति व्यवहारः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कार्त्तिकेयः&oldid=483611" इत्यस्माद् प्रतिप्राप्तम्