कालिदासस्य उपमाप्रसक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


स्थूलाक्षरैः युक्तः भागः'वलिताक्षराणि= उपमा कालिदासस्‍य =

उपमा कालिदासस्‍य इति प्रख्‍याता उक्‍ति:।

भणितं च

उपमा कालिदासस्‍य भारवेरर्थगौरवम्‌।
दण्‍डिन: पदलालित्‍यम्‌ माघे सन्‍ति त्रयो गुणा:।।

अत्र प्रथमे चरणे यदुपमेयं तदेव द्वितीये उपमानम् अस्‍ति। एतदेव परिवर्तनम् उत्‍तरेषु चरणेषु भवति। अत एषा रशनोपमा इति उच्‍यते ।

आकारसदृशप्रज्ञ: प्रज्ञया सदृशागम:।

आगमै: सदृशारम्‍भ आरम्‍भ सदृशोदय:।।

रघुवंशे महाकवि: कालिदास: नन्दिन्यै धेन्‍वे संध्‍याया: औपम्‍यं ददाति।

पुरस्‍कृता वर्त्‍मनि पार्थिवेन प्रत्‍युद्‍गता पार्थिवधर्मपत्‍न्‍या।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्‍यगतेव संध्‍या ।।

अपरे स्‍थाने महाकवि: रघुवंशे राज्ञ: दिलीपस्‍य गर्भवत्‍या: सुदक्षिणाया: एतादृशं वर्णनं करोति।

शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्‍यत लोध्रपाण्‍डुना।

तनुप्रकाशेन विचेयतारका नृप: ससत्‍वां महिषीममलक्ष्‍यत।।

निधानगर्भामिव सागराम्‍बराम्‌ शमीवाभ्‍यन्‍तरलीनपावकाम्‌ ।

नदीमिवान्‍त:सलीलां सरस्‍वतीं नृप: ससत्‍वां महिषीममन्‍यत ।। अत्र उपमेयाया: महिष्‍या: बहूपमानत्‍वात्‌ मालोपमाऽलङ्कार: वर्तते ।

रुपं तदोजस्‍वी तदेव वीर्यं तदेव नैसर्गिकमुन्‍नतत्‍वम्‌ ।

न कारणात्‍स्‍वाद्‍बिभिदे कुमार: प्रवर्तितो दीप इव प्रदीपात्‌ ।।

सञ्चरिणी दीपशिखेव रात्रौ यं यं व्‍यतीयाय पतिं वरा सा ।

नरेन्‍द्रमा र्गात् इव प्रपेदे विवर्णभावं स स भूमिपाल:।।

प्रमुदितवरपक्षमेकतस्‍तत्‍क्षितिपतिमण्‍डलमन्‍यतो वितानम्‌।

उषसि सर इव प्रफुल्‍लपद्मं कुमुद्‍वनप्रतिपन्‍ननिद्रमासीत्‌ ।।

प्रतियोजयितव्‍यवल्‍लकीसमवस्‍थामथ सत्‍वविप्‍लवात्‌ ।

स निनाय नितान्‍तवत्‍सल: परिगृह्‍योचितमङकमङगनाम्‌ ।।

प्राप्‍तानुग: सपदि शासनमस्‍य राजा

संपाद्‌य पातकविप्‍लुतधृतिर्निवृत्ति:।

अन्‍तर्निविष्‍टपदमात्‍मविनाशहेतुम्‌

शापं दधज्‍ज्‍वलनमौर्वमिवाम्‍बुराशि:।।

ता नराधिपसुता नृपात्‍मजैस्‍ते च ताभिरगमनकृतार्थताम्‌ ।

सोऽभवद्वरवधूसमागम: प्रत्‍यप्रकृतियोगसंनिभ:।।

ते चतुर्थसहितास्‍त्रयो बभु: सूनवो नववधूपरिग्रह:।

सामदानविधिभेदविग्रह: सिध्‍दिमन्‍त इव तस्‍य भूपते:।।

तस्‍मिन्‍गते विजयिनं परिरभ्‍य रामं

स्‍नेहादमन्‍यत पिता पुनरेव जातम्‌।

तस्‍याभवत्‍क्षणशुच: परितोषलाभ:

कक्षाग्‍निलंघिततरोरिव वृष्‍टिपात:।।

आसीदासन्‍ननिर्वाण: स दशानमुपेयिवान्‌ ।

निविष्‍टविषयस्‍नेह: प्रदीपार्चिरिवोषसि।।

तद्‍गीतश्रवणैकाग्रा संसदश्रुमुखी बभु:।

हिमनिष्‍यनदिनी प्रातर्निवातेव वनस्‍थली।।

अवृष्‍टिसरम्‍भमिवाम्‍बुवाहमपामिवाधारमनुत्तरंगम्‌।

अन्‍तश्‍चराणां मरुतान्‍निरोधान्‍निवातनिष्‍कम्‍पमिवप्रदीपम्‌।।

व्‍योम पश्‍चिमकलास्‍थितेनदु वा

पंकशेषमिव घर्मपल्‍वलम्‌ ।

राज्ञि तत्‍कुलभूत्‍क्षयातुरे

वामनार्चिरिव दीपभाजनम्‌ ।।

सा संभवद्‍भि: कुसुमैर्लतेव ज्‍योतिर्भिररुद्‍यद्‍भिरिव त्रियामा ।

सरिद्‍विहंगैरिव लीयमानैर्‌ आमुच्‍यमानाभरणा चकाशे ।।

प्रदक्षिणप्रक्रमणात्‌ कृशानोर् उदर्चिषस्‍‍तन्‍मिथुनं चकाशे।

मेरोरुपान्‍तेष्‍विव वर्तमानं अन्‍योन्‍यसंसक्‍तमहस्‍त्रियामम्‌ ।।

गत एव न निवर्तते स सखा दीप इवानिलाहत:।

अहमस्‍य दशेव पश्‍य मामविषह्‍यव्‍यसनेन धूमिताम्‌।।

हैमं फलं हिमगिरेर्लतेव विकस्‍वरं नाकनदीव पद्‍मम्‌।

पूर्वेव दिग्‌नूतनमिन्‍दुमाभात्तं पार्वती नन्‍दनमादधाना ।।