काळीजयन्तीमाता (भोरबाग्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
काळीजयन्तीमाता (भोरबाग्)
कालिका मातायाः मुर्तिः
कालिका मातायाः मुर्तिः

काळीजयन्तीमाता (भोरबाग्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य सिल्हट्मण्डलस्य फज्लुर्परगणभागे भोर्रबाग् इत्य्त्र अस्ति । एतत् पीठं भोरबाग् काळीदेवालयः अथवा फज्लुरकाळीबारी इत्यपि वदन्ति । बाङ्ग्लादेशस्थं षष्ठं शक्तिपीठम् एतत् ।

सम्पर्कः[सम्पादयतु]

एतत् स्थानं प्रति भारतस्य पश्चिमबङ्गालराज्यस्य जल्पायिगुडी-न्यू अलीपुरदौरमार्गेण प्राप्तुं शक्यम् अस्ति ।एतत् स्थानं बक्साव्याघ्राभयारण्यस्य व्याप्तौ भवति इत्यतः यात्रार्थिभिः अधिकृतरूपेण पूर्वानुमतिः प्राप्तव्या भवति । अभयारण्यस्य कश्चन भागः बाङ्ग्लादेशस्य सीमायां भवति । समीपस्थं रेलनिस्थानकं रजभट् खवा इति ।

वैशिष्ट्यम्[सम्पादयतु]

अत्र जयन्ती नदी प्रवहति इत्यतः एतत् स्थानं जयन्तीया शक्तिपीठम् इत्यपि प्रसिद्धम् अस्ति । अत्र महाकालगुहा अस्ति । अत्रत्या देवी जयन्ती अथवा काळी नामभ्यां पूज्यते । अत्रत्यशिवः क्षमाधीश्वरनाम्ना पूज्यते ।