काशी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Varanasi
वाराणसी
Benares, Banaras
—  Metropolitian City  —
वाराणस्यां गङ्गा
उपनाम(नि): भारतस्य सांस्कृतिकराजधानी
[[file:फलकम्:Location map India Uttar Pradesh|250px|Varanasi is located in फलकम्:Location map India Uttar Pradesh]]<div style="position: absolute; z-index: 2; top: एक्स्प्रेशन त्रुटि: अनपेक्षित उद्गार चिन्ह "["।%; left: एक्स्प्रेशन त्रुटि: अनपेक्षित उद्गार चिन्ह "["।%; height: 0; width: 0; margin: 0; padding: 0;">
[[File:फलकम्:Location map India Uttar Pradesh|6x6px|Varanasi|link=|alt=]]
Varanasi
Coordinates: 25°16′55″N 82°57′23″E / 25.282°N 82.9563°E / 25.282; 82.9563Coordinates: 25°16′55″N 82°57′23″E / 25.282°N 82.9563°E / 25.282; 82.9563
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् वाराणसीमण्डलम्
सर्वकारः
 • Mayor Ram Gopal Mohle (BJP)
विस्तीर्णम्
 • Metropolitian City १,५५० Square km (५९८.५ Square mile)
औन्नत्यम्
काशी
जनसङ्ख्या (2012)
 • Metropolitian City
 • श्रेणी 29th
 • महानगरम्
Languages
 • Official हिन्दी, आङ्ग्लभाषा, उर्दु
IST (UTC+5:30)
PIN 221 001 to** (** area code)
Telephone code 0542
वाहनपञ्जीकरणम् UP 65
Sex ratio 0.926 (2011) /
Literacy 77.05 (2011)%
जालस्थानम् www.nnvns.org

काश्याः प्राचीनः इतिहासः[सम्पादयतु]

भारते वाराणसीस्थानम्

महाजनपदेषु अन्यतमः अस्ति काशीजनपदः । काशीनगरम् (इदानीन्तनबनारस्नगरम्)परितः एषः जनपदः प्रसृतः आसीत् । आर्यजनाः अत्र वसन्ति स्म । वाराणसी एतस्य काशीजनपस्य राजधानी आसीत् । एषः जनपदः उत्तरभागे वरुणानद्या दक्षिणे असिनद्या च आवृतः आसीत् । तस्मादेव तस्य जनपदस्य नाम "वाराणसी" इत्यभवत् । बुद्धस्य पूर्वं काशी १६ महाजनपदेषु अत्यन्तं बलवान् जनपदः आसीत् । भारतस्य इतिहासे बहुत्र एतस्य जनपदस्य उत्कृष्टताविषये समृद्धिविषये च उल्लेखः दृश्यते । अङ्ग-मगधजनपदाभ्यां सह काश्याः दीर्घकालस्य शत्रुत्वम् आसीत् इत्यपि तत्र तत्र उल्लेखः अस्ति भारतस्य इतिहासे । काश्याः राजा बृहद्रथः कोसलराज्यं पराजितवान् । किन्तु अनन्तरकाले बुद्धस्य अवधौ राज्ञः कंसस्य काले च काशी कोसलान्तर्गता जाता । मत्स्यपुराणे अल्बेरुनिलेखेषु काशी "कौशिक" "कौशक" इति वा उल्लिखिता दृश्यते । अन्यत्र सर्वत्र प्राचीनलेखेषु "काशी" इत्येव दृश्यते। काशी बनारस् वाराणसी इत्यादिनामभिः प्रसिद्धम् अस्ति । प्रसिद्धं काशीपट्टणं पुराणकालादपि अपूर्वं स्थानम् अस्ति । हिन्दुजनानां यात्रास्थलं वारणा असीनद्योः मध्यभागे अस्ति । बनारस् इति राजा अत्र प्रशासनं कृतवान् । अतः बनारस् इति नाम आगतम् अस्ति । काशीनगरे विशालाक्षीमन्दिरं विश्वनाथमन्दिरं गङ्गातीरे घट्टप्रदेशाः सन्ति । हनुमानघाट् माणिकर्णिकाघाट् पञ्चगङ्गाघाट् दशाश्वमेधघाट् तुलसीमानसमन्दिरं सङ्कटविमोचनमन्दिरं व्यासकाशी बिर्लाभवनम् इत्यादिदर्शनीयानि स्थानानि सन्ति । तुलसीमानसमन्दिरम् अमृतशिलाभिः निर्मितम् अस्ति । भित्तिषु श्रीतुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । बिर्लामन्दिरेषु शिवमन्दिरे मध्ये , दक्षिणे शिवपार्वत्योः मन्दिरम वामभागे श्रीलक्ष्मीनारायणमन्दिरं प्रत्येकगर्भगृहेषु सन्ति । काशीविश्वविद्यालये अपि विश्वनाथमन्दिरं बृहत्शिवलिङ्गम् अत्र आकर्षणीयम् अस्ति ।

काश्याः आधुनिकः इतिहासः[सम्पादयतु]

इदानीं काशी उत्तरप्रदेशराज्यस्य प्रमुखं यात्रास्थलम् अस्ति । भारतस्य सर्वेभ्यः भागेभ्यः रैलयानस्य वायुमार्गस्य च सम्पर्कः अस्ति ।

बनारस् हिन्दुविश्वविद्यालयस्य प्रवेशः
गङ्गापुण्यस्नाने निरताः भक्ताः

प्रस्तावना[सम्पादयतु]

अस्माकम् भारते देशे अनेकानि तीर्थानि सन्ति । तेषु कानिचित् नगरतीर्थानि सन्ति । एषु एकम् सुप्रसिद्धम् तीर्थम् अस्ति काशी । इयम् काशीनगरी उत्तरप्रदेशे गङ्गातटे (अनुनदि) स्थिता वर्तते । ( इयम् काशी नगरी अनुगङ्गम् स्थिता अस्ति । )इह भारते वर्षे सन्त्यनेकानि नगरतीर्थानि । इमानि प्रायेणानुनदि स्थितानि सन्ति । अत एव ऋषिजुष्टाम्बु तीर्थमित्याभिधानिकाः ( तीर्थज्ञाः ) आमनन्ति ( कथयन्ति, स्मरन्ति )। अपहतपाप्मभिः महात्मभिः चिरम् अध्युषिताः प्रदेशाः प्रयताः भवन्ति पूज्याश्च । अत एव “ यद् अध्यासितम् अर्हद्भिः तद्धि तीर्थम् प्रचक्षत ” इति कविकुलपतिः कालिदासः । काशी (वाराणसी) खल्वपि एतादृशमे एकम् सुप्रसिद्धम् तीर्थम् । अनुगङ्गम् चेयं स्थिता इति उत्कर्षप्रकर्षो∫स्याः। इयं ह्यधिवासो भगवतो विश्वनाथस्य ( शिवस्य, पशुपतिनाथस्य, पार्वतीपतेः शंकरस्य वा) मर्त्यलोकस्थितस्य । यथा जरूसलम् ख्रिस्तीयानां यथा वा मक्केति मौहम्मदानां तथा वाराणसी भक्तिभाजनं श्रद्धास्पदं चार्य्याणाम् । प्राचीनकालादेव इयम् नगरी तीर्थरूपेण प्रसिद्धा वर्तते । हिमालयपुत्र्याः गङ्गायाः पावने तटे सा स्थिता अस्ति । इयम् भगवतः शिवस्य पार्वतीसहितस्य नित्यम् निवासस्थानम् इति पौराणिकाः वदन्ति ।

काश्याः वैशिष्ट्यम्[सम्पादयतु]

काश्यां मरणे मरणात् वा मुक्तिरिति पुराणप्रवादः । अस्मिन् प्रवादे श्रद्दधानाः पौराणिकाः भक्ताः पश्चिमे वयसि वर्तमानाः विपश्चितो∫विपश्चितो वा धनिकः अधनिकः वा सन् अपि नानादिग्भ्यो विदिग्भ्यश्च परापत्येह निवसन्ति स्वकीयम् मृत्युं च प्रतिपालयन्ति ।= एवम् हि कथ्यते काश्यां मरणात् मुक्तिः भवति । न केवलम् मरणात् एव अपितु मरणम् अन्यत्र भवेत् तथापि यदि अत्र मृतकस्य अन्तिमसंस्कारः अत्र क्रियते , तदा तस्य मृतकजनस्य आत्मनः मुक्तिः भवति । अत एव ये∫पि नाम वाराणसीमभितो ग्रामास्तत्र एषः समाचारो यदि ग्रामे ग्रामान्तरे वा कश्चिदुपरमति तर्हि प्रेतमिहैव हारयन्ति यथाशास्त्रं च संस्कुर्वन्ति ।

काश्याः निवासिनः[सम्पादयतु]

अत्रोदीच्याः प्राच्या अवाच्याः प्रतीच्याश्च निवासिनः स्वेन स्वेन नेपत्येन (वेशेन , परिधानेन वा) परिक्रमिताङ्गाः यत्र तत्र सञ्चरन्ति । तेषु केचिदुष्णीषिणो परे∫नुष्णीषाः, केचिद् मुक्तोपानत्काः परे अमुक्तोपानत्काः ( युक्तोपानत्काः वा), केचिच्छाटकिनो∫न्ये पादायामधृताः यथास्वं भारत्या भाषमाणाः किमपि वैचित्र्यम् अस्याः जनयन्ति । अनारतं चेह भक्तवत्सलः परमेश्वरः कीर्त्यते प्रजागरव्रतैः प्रणतैः । इदं च श्रद्धीयते तैः तैः भक्तजनैः यत् पुण्यप्रसन्नसलिलायां भगवत्याम् भागीरथ्याम् आप्लवः (स्नानम्) नो निर्हणिष्यति अनांसीति (पापानीति) ।

काश्याः इतिवृत्तम्[सम्पादयतु]

सेयं वाराणसी कदा प्रत्यष्ठात्केन वा निर्वृत्तेति न विशिष्य विद्मः । इदं तु प्रथे पुराणेष्वैक्ष्वाको राजर्षिः श्रीहरिश्चन्द्र इहैवात्मानं चाण्डालाय विचिक्रिये । इदं च दृढतरं प्रतीमो यदा सुगतः सारनाथे मृगाजिरे धर्मनुशशास तदा पि वाराणसी वैदिकैकनिलयो विद्यापारदृश्वनां ब्राह्मणानामावास आस । तदात्वे पि सहस्रशो भक्तिप्रह्वा यात्रिकाः पावनीमिमां शिवपुरीं तीर्थमिति तारयिष्यति नो भवार्णवमिति च धिया सोत्कलिकं प्रपेदिरे । ब्राह्मणगाथासु बौद्धकथानकेषु चैषा बहुमानपुरःसरं कीर्तिता अभूत् । इदं हि पुण्यतमं तीर्थमार्य्याणामित्यसहमानाः परमतमपद्विषन्तः स्वस्यैव परमार्थो द्विषन्तः पशुप्रायास्तुरुष्कप्रभृतयो मुगलाद्याश्चास्कन्तार इमां वाराणसीमवस्कन्दमवस्कन्दमुत्सादयाञ्चक्रुर्देवतायतनानि चोज्जासयामासुः । अवरङ्गजीवस्त्वक्षिदुःखितो दीपशिखामिव नार्य्याणां स्थितिं सेहे, नामीषां चरणं चक्षमे न चैतेषामर्हणाविधां ममृषे । अयं हि राजापसदः श्रीविश्वनाथमन्दिरमप्यखण्डयत्स्वीयानि च सुकृतानि । निरमाच्च तत्स्थानापन्नं मस्जिदाख्यं पारमेश्वरं गृहम् । परमद्यापि वाराणसी तामेव वहत्यविहतांत पुराणीं सुषमाम् । अद्यापि सामगानां पुण्यो वेदध्वनिमूर्च्छति श्रवणयोः । अद्यापि बटूनां बद्धब्रह्माञ्जलीनां स्वाध्यायमधीयानानां विप्राणां विचरति कलकलः काष्ठाः । अद्यापि पूर्ववत्समवयन्त्यत्र यतस्ततो विद्याकमनाः प्रदीप्तप्रज्ञानाः । अद्यापीदं पुण्यतमं तीर्थमिति श्रद्धयोपयन्ति पुङ्खानुपुङ्खशो यात्रिकाः । अद्यापि स्थगितरोदसीकन्दराः समुच्चरन्ति देवालयेषु सायम्प्रातिकास्तूर्यनादा मङ्गल्याश्च शङ्खस्वनाः । किं बहुना । कालपरिवासेनाप्यपर्युषितशोभा नुपहतयाशाः पूर्वद् विराजते नगरीयं सुरयुवतिरिव निर्जरा ।

काशीवर्णनम्[सम्पादयतु]

हरिवर्षीया वाराणसी वीनिस् इति प्रख्यातेन रामणीयकनिकेतनेनाधिष्ठानेनोपमिमते । सत्यं हरिवर्षस्योपवनायते तदिति, समुद्रोर्मिमालाभिश्च परिचुम्बितं कामप्यभिख्यां धत्त इति, वाराणसीदर्शनं त्वन्या एव जागरयति भावनाः । यदा वयं रेलयानमारूढाः प्रातस्तरां भागीरथीसेतुमतिक्रामामो वाराणस्यां च दृशौ पातयामस्तदा यत्पश्यामो न तत्प्रस्मतु पारयामः । बालार्कमयूखोपरक्तानि भास्वन्ति देवेश्मानि हर्म्यश्रृङ्गाणि च, समुच्छ्रायवत्यः क्रमनिम्ना अवतारभूमयः, सामि वर्तुला∫नुगङ्गं स्थिता परिणाहवती च नगरी – सर्वमिदं यात्रिकचेतसि यं भावमुद्भावयति तं नालं पाश्चात्यो यथातथं द्रष्टुम् । यात्रिकस्येदं दर्शनं मृगितार्थस्योपलब्धिर्वा स्वस्य स्वप्नस्य चरितार्था वा । यो ह्यस्य परितोषो हृदये समुल्लसति स परिच्छेदमत्यन्तमत्येति ।

काश्याः देवस्थानानि[सम्पादयतु]

देवागाराणि च भूम्ना मरतटिन्या रोधसि संनिविष्टानि । इमानि च निशान्ते यात्रिकसम्बाधानि भवन्ति । विशालानि बद्धभूमीनि सरित्तीर्थानि विशेषतो रम्याणि । तेषु दशाश्वमेधतीर्थं मणिकर्णतीर्थं केदारतीर्थं बृहत्तमानि यात्रिकैरासेवितानि । विश्वनाथमन्दिरस्य नेदीय इत्याख्यानेषु बहुश्रुतमिति च दशाश्वमेधतीर्थ मणिकर्णतीर्थं केदारतीर्थं बृहत्तमानि यात्रिकैरासेवितानि । विश्वनाथमन्दिरस्य नेदीय इत्याख्यानेषु बहुश्रुतमिति च दशाश्वमेधतीर्थ भूयिष्ठान्समाकर्षति यात्रिकान् । वयोवृद्धानां ज्ञानवृद्धानां चेयं वसतिर्वाराणसी । इहत्यानि देवतायतनानि प्रायेणाश्मानि । नैतानि निर्माणसौष्ठवस्य हेतोरन्यसाधारणानि, पावित्र्येण तु सर्वातिशायीनि । विश्वनाथमन्दिरमन्नपूर्णामन्दिरं च मन्दिरान्तराणि सुदूरमतिक्रामतो गरिम्णा । यदि श्रद्धाभक्त्युपपन्नो यात्रिकः शिवलिङ्गं स्प्रष्टुं लभते न्नपूर्णा वा साक्षात्कुरुते तदा विपक्त्रिमाणि मे सुचरितानि फलितानि च गुरुजनाशीर्वचनानीति धन्यमात्मानं मन्यते । वेणिमाधवमन्दिरं चात्र चित्रेण निर्माणेन । किमपि विस्माययति दर्शकान् । एतत्सदेशे वरङ्गजीवनिर्मिता मस्जिदस्ति, यस्याः समुच्छिते श्रृङ्गे मन्दिरस्यैवैते इति वाराणसेयैर्गण्येते । एकतरमपि समारूढेन जनेन शक्या सर्वा वाराणसी मनोरमा द्रष्टुम् । अपरं चेह तथाविधं जयपुराधीशेन श्रीमानसिंहेन कारितं विस्मयनीयं वेधगृहं चकास्ति यत्र प्राचीनज्योतिर्विदुपयुक्तानि नक्षत्रादिप्रेक्षणोपकारीणि तत्तत्कार्तान्तिककृतान्तकलनकल्पानि साधनान्यद्यापि विराजन्ति ।

काश्याः सायंतनः कालः[सम्पादयतु]

नक्तं च यथा दीप्तिमत्तां विभूतिमत्तां च वाराणस्या विभावयामो न तथा दिवा । आरात्रिकमिति मन्द्रध्वाना नदन्ति घण्टा मन्दिरेषु त्वरयन्ति च भक्तान्संनिपातयन्ति च तान्प्रवेशद्वारेष्वङ्गणाभोगेषु च । स्फटिकविशदेन पयःपूरेण मन्दमन्दमकति मन्दाकिनी, प्रतिफलितानि चात्रोपकण्ठस्थितानि दीप्राणि हर्म्याणि देवतागाराणि च यत्सत्यमासेचनकानि भवन्ति । पारेगङ्गं च निशम्यन्ते दैवतार्चायां प्रवृत्तानां दैवतस्तवाः शास्त्रानुगाः ।

काश्याः विद्यास्थानानि[सम्पादयतु]

अस्तीहार्वाक्कालो विश्वविद्यालयः । सन्ति चेह वज्रकनिर्मिताः पन्थानः । सन्ति च वैद्युताः प्रदीपाः । सन्ति चापां नालिका नगराधिकृतैः संविहिताः । इदं चापरमभ्युपेयम्- साम्प्रतिकं वार्तौन्मुख्यं साम्प्रतिकमुद्योगतात्पर्यं साम्प्रतिकं विज्ञानवैयग्र्यं च वाराणसीमपि कलया कान्तवन्ति दृश्यन्ते, तथापीदं न पार्यते पह्नोतुं वक्रासु वाराणस्या रथ्यासु, महत्सु तीर्थेषु, विचित्रचनेष्वाश्मेष्वस्या देवतायतनेषु वरीवृत्यते सुरक्षिता नपायिनी श्रद्धा नुरक्तिश्च दृढभूमिर्देवतासु । स्यादेतत् । इहा वसथेषु शीलभ्रंशः, पुरोधसो वा प्रतारका यात्रिकद्रव्यपिशितपिशाचाः, देवतास्तु समुदिता इमामेव पुण्यां पुरीमावसन्तीति ।।

दशाश्वमेधघट्टे सायं सन्ध्यागङ्गारती
गङ्गानदी

"http://sa.wikipedia.org/w/index.php?title=काशी&oldid=269328" इत्यस्माद् पुनः प्राप्तिः