कुन्ती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कुन्ती

पत्या सह कुन्ती
शक्तिविशेषः हस्तिनापुरस्य राज्ञी
निवासः हस्तिनापुरम्
सहधर्मी पाण्डुः

महाभारतस्य प्रमुखेषु स्त्रीपात्रेषु अत्यन्तं प्रमुखं पात्रम् अस्ति कुन्त्याः । अस्याः कथा भागवतपुराणे अपि उक्ता अस्ति । एषा पाण्डुमहाराजस्य पत्नी । कुन्तिदेवी एका आदर्शमहिला आसीत् । एषा महात्मनां पाण्डवानां. माता तथैव श्रीकृष्णपरमात्मनः मातुली आसीत् । वसुदेवस्य पितृव्यः, राजा कुन्तिभोजः एतां दत्तकरूपेण स्वीकृतवान् आसीत् । जन्मतः जनाः एतां 'पृथा’ नाम्ना अह्वयन्ति स्म । कुन्तीभोजेन पालिता इति कारणेन 'कुन्ती’ नाम्ना एव प्रसिद्धा जाता । आबाल्यात् एषा बहु सुशीला, संयमशीला सदाचारिणी च आसीत् ।

कुन्तिदेवी एका आदर्शमहिला आसीत् । एषा महात्मानां पाण्डवानाम् माता तथैव श्रीकृष्णपरमात्मस्य मातुली च आसीत् । वसुदेवस्य अनुज, राजा कुन्तिभोजः एतां दत्तु स्वीकृतवन्तः । जन्मदारभ्य जनाः एतां 'पृथा’ नाम्ना अहवयन्ति स्म । कुन्तीभोजेन पालिता इति कारणेन 'कुन्ती’ नाम्ना एव प्रसिद्धा जाता । आबाल्यात् एषा बहुसुशीला, संयमशीला सदाचारिणी च आसीत् । कदाचित् राज्ञः गृहं कश्चन श्रेष्ठः ब्राह्मणः आगतवान् । अतुथिसेवाकार्य कुन्त्या करणीयम् अभवत् । एतस्यै ब्राह्मणेषु भक्तिः अतिथीनां सेवायाम् आसक्तिः आसीदेव । अतः शुद्धमनसा तस्य ब्राह्मणस्य सेवां कृतवती । तस्य व्यवहारः तु बहु कठिणम् आसीत् । निर्दिष्टे समये नागच्छति स्म । अकाले खादितुं पृच्छति स्म् । किन्तु एषा तस्य इच्छानुसारं सर्वदा सज्जीकरोति स्म । एकवर्षपर्यन्तं सा एवमेव तस्य सेवां यदा कृतवति ब्राह्मणः अतीव प्रसन्नः जातः । सन्तष्टः सः किमपि वरं दातुम् उद्युक्तः अभवत् । किन्तु कुन्ती वदति यत भवान् मम विषये प्रसन्नः अस्ति । तावत् पर्याप्तम् मम इदानीं कस्यापि वरस्य आवश्यकता नास्ति इति । एतस्याः निः ष्कामेन सेवाभावेन आनन्दितः ब्राह्मणः देवानाम् आवाहना मन्त्रस्य ग्रहणं कर्तु तां वदति । तस्य वचनं तिरस्कर्तुम् अशक्ता सा अथर्ववेदस्य मन्त्रोपदेशं स्वीकृतवती । तेन सा यस्य देवस्य आवाहनं करोति सः देवः तस्याः अथीनः भवति । एवं सूथयित्वा सः ब्रह्मणः ततः अदृश्यः जातः । सः तु सामान्यः नासीत् । साक्षात् उग्रतपस्विनः महर्षिदूर्वासः आसीत् ।

कुन्त्याः विवाहः महाराजः पाण्डुना सह अभवत् । स धर्मिष्ठः आसीत् । तथापि अज्ञानेन कदाचित मृगरुपधारी किन्दममुनेः एतेन हिंसा अभवत् । सा पटना तस्य मनसि व्ययां वैराग्यं च जनयति । स्वस्य सर्वस्वं त्यक्त्वा सः वनं गन्तुम् इच्छति । पतिभक्तपरायणा कुन्तीदेवी अपि सुखभोगान् त्यक्त्वा पत्या सह वनं गच्छति । आजीवनपर्यन्तं ब्रह्मचर्यव्रतस्य पालनां कृतवती । यदा पतिः मृतः सा अपि पतिम् अनुसर्तुम् इष्टवती किन्तु माद्रि स्वस्य पुत्रान् कुन्त्याः हस्ते स्थापयित्वा स्वयं सहागमनं कृतवती । माद्रयाः इच्छानुसारेण कुन्ती स्वस्य पुत्राणाम् अपेक्षया अधिका प्रम्णा नकुलं सहदेवं च पालितवती । सहदेवस्य विषये तुइ एतस्याः विशेषः प्रीतिः ।

अतिथिसेवातत्परा[सम्पादयतु]

कदाचित् राज्ञः गृहं कश्चन श्रेष्ठः ब्राह्मणः आगतवान् । अतुथिसेवाकार्यं कुन्त्या करणीयम् अभवत् । एतस्यै ब्राह्मणे भक्तिः अतिथीनां सेवायाम् आसक्तिः च आसीदेव । अतः शुद्धमनसा तस्य ब्राह्मणस्य सेवां कृतवती । तस्य व्यवहारः तु बहु कठिनः आसीत् । निर्दिष्टे समये नागच्छति स्म । अकाले खादितुं पृच्छति स्म् । किन्तु एषा तस्य इच्छानुसारं सर्वदा सज्जीकृत्य ददाति स्म । एकवर्षं यावत् सा एवमेव तस्य सेवां यदा कृतवती तदा ब्राह्मणः अतीव प्रसन्नः जातः । सन्तष्टः सः कमपि वरं दातुम् उद्युक्तः अभवत् । किन्तु कुन्ती वदति यत भवान् मम विषये प्रसन्नः अस्ति । तावत् पर्याप्तम् ।मम इदानीं कस्यापि वरस्य आवश्यकता नास्ति इति । एतस्याः निःष्कामेन सेवाभावेन आनन्दितः ब्राह्मणः देवानाम् आवाहनामन्त्रस्य ग्रहणं कर्तु तां वदति । तस्य वचनं तिरस्कर्तुम् अशक्ता सा अथर्ववेदस्य मन्त्रोपदेशं स्वीकृतवती । तेन सा यस्य देवस्य आवाहनं करोति सः देवः तस्याः अधिनः भवति । एवं सूचयित्वा सः ब्राह्मणः ततः अदृश्यः जातः । सः तु सामान्यः नासीत् । साक्षात् उग्रतपस्वी महर्षिः दूर्वासा आसीत् । कुन्त्याः विवाहात् पूर्वम् ऋषिः दूर्वासाः अस्याः सेवया सन्तुष्टः देवानां वशीकरणमन्त्रम् अबोधयत् । तस्य मन्त्रस्य परीक्षां कर्तुम् उद्युक्ता सा प्रयोगम् अकरोत् सूर्यम् आराधयन्ती । तस्य कारणतः विवाहात् पूर्वम् एव सूर्यस्य वरेण "कर्णं" प्राप्नोत् । तं शिशुं नद्यां प्लावयत् च ।

वैवाहिकजीवनम्[सम्पादयतु]

कुन्त्याः विवाहः महाराजेन पाण्डुना सह अभवत् । स धर्मिष्ठः आसीत् ।विवाहानन्तरं पतिः पाण्डुः यदा शापग्रस्तः अभवत् तदा पुत्रप्राप्त्यर्थं तस्य वरस्य प्रयोगम् अकरोत् । यमस्य वरेण युधिष्ठिरं, वायुदेवस्य वरेण भीमम्, इन्द्रस्य वरेण अर्जुनं च पुत्रत्वेन प्राप्नोत् । पण्डोः मरणानन्तरम् अपि पुत्रपालनार्थं जीविता आसीत् कुन्ती । तथापि अज्ञानेन कदाचित् मृगरुपधारिणं किन्दममुनिं मारितवान् । सा घटना तस्य मनसि व्यथां वैराग्यं च जनयति । स्वस्य सर्वस्वं त्यक्त्वा सः वनं गन्तुम् इच्छति । पतिभक्तिपरायणा कुन्तीदेवी अपि सुखभोगान् त्यक्त्वा पत्या सह वनं गच्छति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं कृतवती । यदा पतिः मृतः सा अपि पतिम् अनुसर्तुम् इष्टवती किन्तु माद्रिः स्वस्य पुत्रौ कुन्त्याः हस्ते स्थापयित्वा स्वयं सहागमनं कृतवती । माद्र्याः इच्छानुसारेण कुन्ती स्वस्य पुत्राणाम् अपेक्षया अधिकप्रेम्णा नकुलं सहदेवं च पालितवती । सहदेवस्य विषये तु एतस्याः विशेषप्रीतिः ।

व्यक्तित्वम्[सम्पादयतु]

कुन्तीदेवी चिन्तनकर्त्री धैर्यशालिनी च आसीत् । स्वस्य कष्टस्य विषये किञ्चिदपि चिन्तां न करोति स्म । दुर्योधनस्य असहनीयम् अत्याचारमपि सोढवती । किन्तु एषा अन्येषां कष्टं द्रष्टुं न शक्नोति स्म । लाक्षागृहात् सुरक्षिततया बहिः आगत्य एषा पुत्रैः सह एकचक्रनगरे कस्यचित् ब्राह्मणस्य गृहे निवसन्ती आसीत् । तस्य गृहे किञ्चित् कष्टम् आसीत् । कारणम् एवम् आसीत् -तस्य नागरस्य समीपे एव बकासुरनामकः राक्षसः आसीत् । तस्मै राक्षसाय नगरवासिभिः प्रतिदिनम् एकं शकटपरिमितम् अन्नं महिषद्वयं च दातव्यम् आसीत् । एतान् यः नयति तम् अपि सः राक्षसः खादति स्म । नगरवासिभिः क्रमशः एतद् कार्यं क्रियते स्म । पाण्डवाः यस्य गृहे स्थितवन्तः आसन् तस्य गृहस्य पर्यायः आगतः ।तस्मात् गृहात् राक्षसाय भोजनस्य मानवस्य च प्रेषणं करणीयम् आपतितम् । ब्राह्मणस्य परिवारे रोदनं कोलाहलः च प्रचलति स्म । एतं विषयं कुन्ती ज्ञातवती । सा चिन्तितवती यत् 'एते अस्माकम् आश्रयदातारः सन्ति ।तेभ्यः अस्माभिः कोऽपि प्रत्युपकारः करणीयः । एकस्मिन् गृहे वसद्भिः अस्माभिः दुःखे अपि समभागः स्वीकरणीयः । एवं चिन्तयित्वा यदा सा तेषां समीपं गतवती तदा कुटुम्बजनेषु केन राक्षसस्य समीपं गन्तव्यम् इति विषये चर्चा चलति स्म । ब्राह्मणः पत्नीं वदन् आसीत् "भवती कुलीना बालानां माता च अस्ति भवतीं राक्षसस्य समीपं न प्रेषयामि” इति । पत्नी वदति “ पत्युः अपेक्षया पत्न्याः शीघ्रं परलोकगमनं तु सौभाग्यस्य विषयः । स्त्री वधार्हा न इति मत्वा सः मां त्यजेत् अपि । अतः अहमेव गच्छामि “ इति । मातापित्रोः वचनं श्रुत्वा पुत्री वदति "धर्मानुसारेण मां कदाचित् प्रेषयन्ति एव । अद्य एव प्रेषयन्तु भवन्तः रक्षिताः भवन्तु "इति । तदा लघुबालः पुत्रः वदति "अहमेव एतया शलाकया राक्षसं मारयामि” इति एकां शलाकां दर्शितवान् । तावता कुन्ती भवत्सु केनापि गन्तव्यं नास्ति। भगवतः अनुग्रहेण मम पञ्चपुत्राः सन्ति । तेषु एकं प्रेषयामि भव न्तः भोजनस्य व्यवस्थां कुर्वन्तु इति उक्तवती । ब्राह्मणः न अङ्गीकृतवान् चेदपि एषा भीमं तत्र प्रेषितवती । भीमः राक्षसं मारयित्वा जनानां कष्टं दूरीकृतवान् । एवं कुन्ती त्यागमयी आसीत् ।

सत्यशीलता[सम्पादयतु]

कुन्ती विनोदार्थमपि असत्यं न वदति स्म । अर्जुनः भीमः च स्वयंवरे दौपदीं जित्वा, मातुः समीपम् आनीय वदतः” मातः । अद्य एतां शिक्षाम् आनीतवन्तः” इति । कुन्ती अदृष्ट्वा वदति "पञ्चसहोदराः अपि विभज्य उपयोगं कुर्वन्तु” इति । यदा विषयं सा ज्ञातवती तदा सङ्कटम् अनुभूतवती । वचनं प्रतिस्वीकरोमि चेत् असत्यकथनस्य दोषः भवति । वचनं पालयति चेत् मर्यादायाः लोपः भवति । कुन्ती युधिष्ठिरं पृच्छति । सः सत्ये स्थिरता भवेत् इति वदति । किन्तु एतेन पञ्चजनाः अपि दौपद्याः सह पाणिग्रहणं कुर्वन्ति इति निश्चितम् । विधिपूर्वकं विवाहः अभवत् । एवम् एतस्याः सत्यनिष्ठायाः विजयः अभवत् ।

त्यागमयी[सम्पादयतु]

गान्धारीधृतराष्ट्रौ वानप्रस्थाश्रमार्थं वनं नयन्ती कुन्ती

कुन्तीदेव्याः जीवनम् आरम्भतः अन्त्यपर्यन्तम् अपि त्यागपूर्णं तापसिकं अनासक्तं च आसीत् । पाण्डवानां वनवासस्य समये एषा हस्तिनापुरे आसीत् । ततः एव पुत्रेभ्यः स्वस्य सहोदरस्य पुत्रस्य श्रीकृष्णस्य द्वारा क्षत्रियधर्मे स्थिरतया तिष्ठन्तु इति सन्देशं प्रेषितवती । विदुरस्य सञ्जययोः द्रष्टान्तं दत्त्वा एवम् उक्तवती आसीत् "हे पुत्राः ! यद् कार्यार्थं क्षत्रियमहिला पुत्रं प्रसूते तस्य कार्यस्य करणसमयः सन्निहितः" अस्ति । इति महाभारतस्य युद्धसमये अपि सा तत्रैव आसीत् । युद्धानन्तरं युधिष्ठिरस्य राज्याभिषेकः अभवत् । राजमाता कुन्ती पुत्रवियोगेन पीडितयोः स्वस्य यातृदेवरयोः सेवायाः दायित्वं स्वीकृतवती । द्वेषाभिमानेन रहिता एषा सेवायामेव समयं यापयति स्म । यदा तौ वानप्रस्थाश्रमार्थं प्रस्थितवन्तौ तदा एषा अपि तयोः सेवार्थं वनं प्रास्थितवती । जीवनपूर्णं कष्टम् अनुभूय यदा सुखम् आगतं तदा अपि सेवाजीवनं कर्तुम् एतादृशाः केवलं शक्नुवन्ति । यदा कुन्तीदेवी वनं प्रस्थितवती तदा भीमसेनः पृच्छति " भवत्या एतदेव यदि करणीयं स्यात् तर्हि वृथा अस्माकं द्वारा एतादृशीं नरहत्यां कारितवती?" इति । तदा कुन्त्याः उत्तरं तु हृदये स्थापयितुं योग्यम् अस्ति । सा वदति" पुत्र भवन्तः भीरवः भूत्वा न उपविशन्तु । क्षत्रियोचितस्य पुरुषार्थस्य त्यागं कृत्वा अपमानेन जीवनं न कुर्वन्तु । स्वस्य न्यायोचितः अधिकारः नष्टः न भवेत् इति उद्देशेन एव अहं भवतः युद्धाय प्रेरितवती । मम सुखाय अहं तथा न कृतवती । इदानीं अहं तपसा पत्युः लोकं गन्तुम् इच्छामि । भवन्तः धर्मेण प्रजापालनं कुर्वन्तः आनन्देन तिष्ठन्तु "इति समाधानं कारयित्वा स्वस्य यातृदेवराभ्यां सह वनं प्रस्थितवती । अन्तपर्यन्तं तयोः सेवा कृत्वा तैः सह दावाग्नौ दग्ध्वा योगी इव इहलोकं त्यक्तवती । एतादृशी महिला तु प्रपञ्चस्य इतिहासे सुलभतया न लभ्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कुन्ती&oldid=258837" इत्यस्माद् पुनः प्राप्तिः