कुन्दाद्रिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कुन्दाद्रिजैनमन्दिरम्

कुन्दाद्रिः (Kundadri) कर्णाटकस्य् शिवमोग्गमण्डले विद्यमानः कश्चन पर्वतः । एषः पर्वतः शिवमोग्गमण्डलस्य तीर्थहळ्ळि उपमण्डले अस्ति । तीर्थहळ्ळितः आगुम्बे गमनस्य मार्गे गुड्डेकेरि इति ग्राम मिलति । ततः ९ कि.मी.दूरे कुन्दाद्रिः अस्ति । अयं पर्वतः जैनानां पवित्रं यात्राक्षेत्रम् अस्ति । प्रतिवर्षं सहस्राधिकाः पर्यटकाः चारणप्रियाः च आयान्ति । पर्वतमस्तकात् यत् दृश्यते तत् मनोहरं दृश्यम् । परितः सर्वत्र वनराजिः, कृषिक्षेत्राणि वाटिकाः च दृश्यन्ते ।

इतिहासः[सम्पादयतु]

अस्मिन् पर्वते कुन्दस्वामी तपः आचरितवान् इति प्रतीतिः । अतः अस्य गिरेः कुन्दाद्रिः इति नाम आगतम् । कन्नडभाषया 'कुन्द'नाम दुर्गः इति अर्थः । अत्र आवृतः पर्वतः दुर्ग इव अस्ति इति कारणेन कुन्दाद्रिः इति नाम आगतम् इति स्थलीयाः वदन्ति ।

वसतिः[सम्पादयतु]

कुन्दाद्रेः मस्तके मन्दिरे जलादीनां व्यवस्थाः सन्ति । समीपस्थे तीर्थहळ्ळिग्रामे अथवा आगुम्बेग्रामे उषितुमर्हन्ति ।

वीथिका[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कुन्दाद्रिः&oldid=248404" इत्यस्माद् पुनः प्राप्तिः