कुम्भोत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुम्भोत्सवः
कुम्भ मेला
पैलगर्भ अन्तः हरिद्वारकुम्भोत्सवः
आवृत्तिः सर्व 12 वर्ष:
स्थानम् हरिद्वार, प्रयाग (आल्लहबद्), नाशिक-त्रिम्बक and उज्जैन
पूर्वोत्सवः 2016
अन्वोत्सवः 2022
प्रतिभागी पैलगर्भ, अखरस, वणिग्जन
शैली गौर
२०१० तमे वर्षे हरिद्वारे गङ्गानद्याः स्नानघट्टस्य दृश्यम्

कुम्भोत्सवः अस्माकं देशे बहु महत्त्वपूर्णः पर्व अस्ति । देशस्य चतुर्षु स्थानेषु कुम्भोत्सवाः आयोज्यन्ते - प्रयागे, हरिद्वारे, उज्जयिन्यां, नासिके च । प्रत्येकस्मिन् नगरे द्वादशवर्षाणाम् अनन्तरम् एकः पूर्णकुम्भयोगः आयाति । एवं वर्षत्रयस्य अनन्तरं क्रमशः देशस्य एकैकस्मिन् स्थाने कुम्भोत्सवः भवति । प्रत्येकस्मिन् नगरे षष्ठे वर्षे अर्धकुम्भयोगः अपि भवति । कुम्भोत्सवः प्रायशः सार्धैकमासपर्यन्तं चलति । कुम्भोत्सवे भागं ग्रहीतुं भारतवर्षस्य अनेकेभ्यः स्थानेभ्यः सामान्यजनाः साधवः संन्यासिनः च आगच्छन्ति । केचित् सामान्यजनाः साधवः च पूर्णसमयं यावत् कुम्भोत्सवे निवसन्ति । अन्ये जनाः विशिष्टस्नानपर्वेषु एव गच्छन्ति । कुम्भोत्सवे जनाः नदीषु स्नानं कुर्वन्ति । तत्र स्नानस्य एव विशिष्टं महत्त्वं वर्तते ।

नासिके कुम्भोत्सवे जनसागरः

चत्वारि कुम्भस्थानानि चतसृण् प्रमुखाणां नदीनां तटेषु अवस्थितानि सन्ति ।

प्रयागः[सम्पादयतु]

प्रयागः उत्तरप्रदेशे तिसृणां पवित्राणां नदीनां सङ्गमस्थाने अवस्थितः अस्ति । अतः एव त्रिवेणीसङ्गमः कथ्यते । तासु तिसृषु नदीषु गङ्गा यमुना च प्रयागे परस्परम् मिलतः । तृतीया नदी सरस्वती उपरि न दृश्यते । सा भूगर्भे प्रवहति, भूगर्भे एव एताभ्यां द्वाभ्यां सह मिलति । अन्यानि नगराणि तीर्थक्षेत्राणि भवन्ति, किन्तु प्रयागः त्रिवेणीसङ्गमस्य कारणतः 'तीर्थराजः' कथ्यते । प्रयागं निकषा एव हिन्दूनां प्रसिद्धं तीर्थस्थानं 'काशी' अपि अस्ति । काश्यां द्वादशज्योतिर्लिङ्गेषु अन्यतमः विश्वनाथः अस्ति । समीपे एव भगवतः रामस्य जन्मभूमिः अयोध्या अपि अस्ति ।

२००१ तमे वर्षे प्रवृत्ता कुम्भोत्सवः

हरिद्वारम्[सम्पादयतु]

हरिद्वारम् उत्तराञ्चले गङ्गानद्याः तटे स्थितम् अस्ति । हरिद्वारपर्यन्तं गङ्गा नदी पर्वतीयप्रदेशेषु एव प्रवहति । अतः एव तस्याः जलं निर्मलं भवति । समीपे ऋषिकेशतीर्थस्थलम् अस्ति । अत्र प्रसिद्धं शिवमन्दिरम् अस्ति ।

उज्जयिनी[सम्पादयतु]

उज्जयिन्यां शिवः 'महाकालः' इति नाम्ना विराजते । महाकालः अपि द्वादशज्योतिर्लिङेषु एकः अस्ति । उज्जयिनी विक्रमादित्यस्य राजधानी आसीत् । अत्र एव विक्रमस्य सभायां कालिदासः अपि आसीत् । उज्जयिन्याः किञ्चित् अग्रे नर्मदानद्याः तटे 'ओङ्कारेश्वरः' इति नाम्ना प्रसिद्धः ज्योतिर्लिङ्गः अपि अस्ति ।

नासिकनगरम्[सम्पादयतु]

नासिकं महाराष्ट्रप्रान्ते गोदावरीनद्याः तटे स्थितिम् अस्ति । अत्रैव पञ्चवटीस्थानम् अपि अस्ति । वनवासकाले रामः सीतालक्ष्मणाभ्यां सह पञ्चवट्याम् एव निवासं कृतवान् । समीपे एव गोदावरीनद्याः उद्गमस्थलम् अस्ति । तत्र 'त्र्यम्बकेश्वरः' इति नाम्ना प्रसिद्धः ज्योतिर्लिङ्गः अस्ति । अस्य स्थानस्य नाम अपि 'त्र्यम्बकेश्वर' एव अस्ति । भारतवर्षे कुम्भोत्सवानां कुम्भनगराणां च सांस्कृतिकं महत्त्वम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=कुम्भोत्सवः&oldid=469782" इत्यस्माद् प्रतिप्राप्तम्