कुशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुश
कुश
कुश रमसीतयोः पुत्रः

श्रीरामचन्द्रेण सीतायां जातयमलयोः ज्येष्ठः कुशः । कनीयः लवःवाल्मीकिमुनेः आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । कुशः इति पदस्य अर्थः दर्भा इति किञ्चिन पवित्रतृणविशेषः । वाल्मीकिः तपसः शक्त्या दर्भां सुमन्त्र्य शिशुं सृष्टवान् । अतः अस्य कुशः इति नाम इति प्रतीतिः अस्ति ।

जन्मकथा[सम्पादयतु]

श्रीरामचन्द्रः लोकापवादात् भीतः सीतां वाल्मीकेः आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति लक्ष्मणम् आदिशत् । तदनुगुणं लक्ष्मणः गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण सीता तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः वाल्मीकिः तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य कुशः लवः च इति नाम कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् ।

शिक्षा पराक्रमः च[सम्पादयतु]

वाल्मीकिः कुशलवयोः अन्नप्राशनादीन् सकालिकसंस्कारान् कृतवान् । कालान्तरेण तौ सकलविद्यापारङ्गतौ अभवताम् । पश्चात् वाल्मीकिः स्वरचितं २४सहस्रश्लोकयुक्तं रामायणम् एतौ सवाद्यं गातुं बोधितवान् । एतौ बहुत्र गायन्तौ जनान् परितोषयतः स्म । अत्रान्तरे श्रीरामचन्द्रः अश्वमेधयागदीक्षितः यज्ञाश्वसंरक्षार्थं शत्रुघ्नं नियोजितवान् । अश्वः विविधभूभागेषु सञ्चरन् वाल्मीकेः आश्रमपरिसरं प्राविशत् । तदा लवः यज्ञाश्वं बन्धयित्वा शत्रुघ्नेन सह प्रयुध्य मूर्छितः । शत्रुघ्नः तं रथे संस्थाप्य अश्वं मोचयित्वा अयोध्यभिमुखं प्रस्थितः । सहसा एतम् उदन्तं श्रुत्वा कुशः सधनुर्बाणः शत्रुघ्नं विरुद्ध्य युद्धमकरोत् । युद्धे शत्रुघ्नः लवेन पराजितः मूर्छितः च । कुशः लवं विमोचयित्वा अश्वमपि स्वीकृत्य निर्गतः । वार्तामिमां श्रुत्वा अयोध्यावासी श्रीरामः सेनासहितं लक्ष्मणं तत्र प्रेषितवान् । बालयोः पाराक्रमस्य पुरतः सोऽपि मूर्छितः, पश्चादागतः भरतः अपि तामेव दशाम् अवाप्नोत् । अन्ते बालाभ्यां सह योद्धुम् आगतः श्रीरामः तौ दृष्ट्वा अन्तरङ्गस्नेहात् शस्त्रप्रयोगं कर्तुं न शक्तवान् । किन्तु बालौ तम् आक्रम्य प्रयुध्य रामं मूर्छितम् अकुर्वन् । अत्रान्तरे यज्ञार्थं वरुणलोकं गतः वाल्मीकिः आगत्य वार्तां श्रुत्वा सहसा रणरङ्गम् आगतवान् । लवकुशयोः समरकौशलं दृष्टवा सन्तुष्टः तौ प्राशंसत् । स्वामृतदृष्ट्या रामादीन् सर्वान् सचेष्टितान् अकरोत् । पश्चात् सीतां कुशलवौ च रामाय समर्पितवान् । श्रीरामः मुनिं वाल्मीकिं नमस्कृत्य बहुप्रशंस्य सपुत्रकलत्रं परिवारेण सह आयोध्यमागत्य अश्वमेधयज्ञं समापयत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुशः&oldid=481496" इत्यस्माद् प्रतिप्राप्तम्