कूडलसङ्गमः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
कूडलसङ्गमम्

कूडलसङ्गमम् कर्णाटकस्य बिजापुरमण्डले विद्यमानं किञ्चन तीर्थक्षेत्रम् । कृष्णामलप्रभानद्योः सङ्गमस्थानम् एतत् क्षेत्रम् । अत्र श्रीजातवेदमुनिः विद्याकेन्द्रं स्थापितवान् इति श्रूयते । महात्मा बसवेश्वरः कल्याणक्रान्तेः अनन्तरम् अत्र आगत्य कूडलसङ्गमेश्वरे ऐक्यः अभवत् । चालुक्यशैल्यां रचितः कूडलसङ्गमनाथदेवालयः ९०० वर्षैः प्राचीनः अस्ति । अत्रत्या शिल्पकला विशिष्टा अस्ति । गर्भगृहं दर्शनीयम् अस्ति । बसवेश्वरस्य ऐक्यमण्डपं परितः वृत्ताकारेण रचितः प्राकारः अस्ति । जले स्थितः एषः देवालयः विशेषानुभवं ददाति । कूडलसङ्गमक्षेत्रे बृहत् सभामण्डपं शिवशरणानां मूर्तिशिल्पानि सुन्दराणि सन्ति । समीपे आलमट्टिजलाशयः उद्यानवनं च स्तः । अत्र सङ्गमजले नौकाविहारं कर्तुं व्यवस्था अस्ति ।

मार्गः [सम्पादयतु]

बिजापुरतः ६७ कि.मी. ।
हुनगुन्दतः १९ कि.मी. ।
बादामी]तः ७२ कि.मी.।
बेङ्गळूरुतः ५२० कि.मी. । राष्ट्रियमार्गसङ्ख्या १३

वीथिका [सम्पादयतु]

कूडलसङ्गमस्य विविधानि चित्राणि

बाह्यानुबन्धाः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कूडलसङ्गमः&oldid=236155" इत्यस्माद् उद्धृतम्