कूडलसङ्गमः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(कूडलसङ्गमम् इत्यस्मात् पुनर्निर्दिष्टम्)
कूडलसङ्गमम् (हुनगुन्द)- कृष्णामलप्रभानद्योः सङ्गमस्थानम् एतत् क्षेत्रम् । अत्र श्रीजातवेदमुनिः विद्याकेन्द्रं स्थापितवान् इति श्रूयते । महात्मा बसवेश्वरः कल्याणक्रान्तेः अनन्तरम् अत्र आगत्य कूडलसङ्गमेश्वरे ऐक्यः अभवत्। चालुक्यशैल्यां रचितः कूडलसङ्गमनाथदेवालयः ९०० वर्षप्रचीनः अस्ति अत्र शिल्पकला विशिष्टा अस्ति। गर्भगृहं दर्शनीयम् अस्ति । बसवेश्वरस्य ऐक्यमण्डपं परितः वृत्ताकारे प्राकारः अस्ति जले स्थितः एषः देवालयः विशेषानुभवं ददाति । कूडलसङ्गमक्षेत्रे बृहत् सभामण्डपं शिवशरणानां मूर्तिशिल्पानि सुन्दराणि सन्ति । समीपे आलमट्टिजलाशयः उद्यानवनं च स्तः । अत्र सङ्गमजले नौकाविहारं कर्तुं व्यवस्था अस्ति ।
- मार्गः
- बिजापुरतः ६७ कि.मी ।
- हुनगुन्दतः १९ कि.मी ।
- बादामीतः ७२ कि.मी.।
- बेङ्गळूरुतः ५२० कि.मी । राष्ट्रियमार्गसङ्ख्या १३