कूडली

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कूडली
—  ग्रामः  —
कूडलीग्रामे रामेश्वरमन्दिरम् (होय्सालशैल्यां)
Coordinates: 14°0′22″N 75°40′27″E / 14.00611°N 75.67417°E / 14.00611; 75.67417
राष्ट्रम्  भारतम्
ऱाज्याणि कर्णाटकराज्यम्
भारतीय सामान्यकालमानम् (UTC+5:30)

कूडली (Koodli) कर्णाटकराज्ये शिवमोग्गमण्डले विद्यमानं किञ्चन क्षेत्रम् । अत्र तुङ्गानद्याः भद्रानद्याः च सङ्गमः भविष्यति । ततः तुङ्गभद्रानद्याः उगमः ।

महत्त्वम्[सम्पादयतु]

प्राचीनकालस्य सङ्गमेश्वरदेवालयः, सङ्गमः, परिसरस्य नयनमनोहरं दृश्यं च अस्य प्रदेशस्य शोभाम् अवर्धयन् । अत्रत्यः रङ्गनाथस्वामिदेवालयः अपि जनप्रियः । सङ्गमस्थाने लघुः नन्दीदेवालयः विद्यते । अयं लघुः देवालयः सङ्गमस्थानं सूचयति । सङ्गमेश्वरदेवालयस्य महान् इतिहासः विद्यते । अयं देवालयः होय्सळकालीनः इति श्रूयते । प्राचीनैः शिल्पकलाभिः विराजमानः अयं देवालयः कूडलीक्षेत्रस्य प्रमुखेषु आकर्षणेषु अन्यतमः । १२ शतके निर्मितः रामेश्वरदेवालयः क्षेत्रस्य सांस्कृतिकसौन्दर्यं वर्धयति । सङ्गमेश्वरदेवालयस्य समीपे नरसिंहदेवालयः विद्यते । अयं देवालयः प्रह्लादेन प्रतिष्ठापितं पूजितञ्च इति विश्वस्यते ।

सङ्गमस्थानम् - लधु हरिहरमन्दिरं विद्यते द्वयोः नद्योः सङ्गमस्थाने

मठौ[सम्पादयतु]

कूडलीक्षेत्रे मठद्वयं विद्यते । अद्वैततत्त्वोपासकः शङ्करमठः, द्वैततत्त्वोपासकः अक्षोभ्यतीर्थमठः ।

शङ्करमठः[सम्पादयतु]

शङ्करतत्त्वानाम् अध्ययनाय प्राचीनभारतीयपरम्परानुगुणं विद्यते कूडलीमठः । अस्य प्राचीनः इतिहासः एवमस्ति - १५ / १६ शतके कदाचित् शृङ्गगिर्याः ज्येष्ठः मठाधिपतिः तीर्थयात्रां प्रति गतः आसीत् । दीर्घकालं यावत् तेन न प्रत्यागतम् इत्यतः कनीयान् स्वामी पीठारोहणम् अकरोत् । किन्तु ज्येष्ठः मठाधिपतिः ततः केषाञ्चन दिनानाम् अनन्तरं शृङ्गगिरिं प्रत्यागतवान् । किन्तु स्वस्य शिष्यः एव यत्र पीठारोहणं कृतवान् आसीत् तत्र प्रवेशः अनुचितः इत्यतः सः शृङ्गेरीतः आगत्य तुङ्गभद्रयोः सङ्गमस्थाने कूडलीक्षेत्रे स्वीयं मठं संस्थापितवान् । अयं कूडलीमठः इति प्रसिद्धः जातः । १९०० तमे वर्षे नूतनः यतिवरः पीठाधिपतिः जातः । सः पूर्वं मैसूरुमहाराजस्य कृष्णराज ओडेयरस्य गुरुः आसीत् इत्यतः मठस्य भूयान् प्रगतिः जाता । तदनन्तरम् आगताः सर्वेपि यतिवराः स्वीयया प्रतिभया परिश्रमेण च मठस्य उन्नतिम् असाधयन् ।

आर्य अक्षोभ्यतीर्थमठः[सम्पादयतु]

अयं मठः १३ / १४ शतके अक्षोभ्यतीर्थेन (मध्वाचार्यस्य प्रमुखः शिष्यः) संस्थापितम् । अयं मठः संस्कृतस्य मध्वतत्त्वस्य शिक्षणे प्रसिद्धः वर्तते । समृद्धः सम्प्रदायः विद्यते अत्र । एतावता त्रयः पीठाधिपतयः आसन् । श्री रघुविजयतीर्थः इदानीन्तनः पीठाधिपतिः ।


मार्गसूची[सम्पादयतु]

कूडलीक्षेत्रं शिवमोग्गनगरतः १५ कि मी मिते दूरे विद्यते । समीपस्थं नगरं होळेहोन्नूरु यच्च २ कि मी दूरे विद्यते । शिवमोग्गतः लोकयानानि उपलभ्यन्ते ।


वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कूडली&oldid=263512" इत्यस्माद् पुनः प्राप्तिः