कृत्तिका

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते कृत्तिका । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् भरणी भवति द्वितीयं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

कृत्तिकां दर्शयति वृषभमानचित्रम्

आकृतिः[सम्पादयतु]

कृत्तिका क्षुरापट्नम् - क्षौरिकस्य क्षुरस्य आकृतौ विद्यमानानि षट् नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

आ ई ऊ ए - कृत्तिकानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

कृत्तिकास्वग्निमादधीत, एतदग्नेर्नक्षत्रं, मुखं वैतन् नक्षत्राणाम् ।
यः कृत्तिकास्वग्निमाधत्ते, मुख्य एव भवति ॥
कृत्तिकाः प्रथमं विशाखे उत्तमं, एतानि देव नक्षत्राणि ।
अग्निर्नः पातु कृत्तिकाः, नक्षत्रं देवमिन्द्रियम् ॥
यस्य भान्ति रश्मयो यस्य केतवः यस्येमाविश्वा भुवनानि सर्वाः ।
यः कृत्तिकाभिरभिसंवसानः अग्निर्नो देवः सुविते दधातु ॥ (तैत्तिरीयब्राह्मण ३-१-१)
अग्नेः कृत्तिकाः शुक्रं परस्तात्, ज्योतिरधस्तात् ।
यः कृत्तिकासु अग्निमाधत्ते ब्रह्मवर्चसी तेजस्वी भवति ॥ (तैत्तिरीयब्राह्मण १-५-१)

कृत्तिकानक्षत्रस्य अधिपतिः अग्निः । वैदिकसाहित्ये अग्निः प्रधानदेवता । ऋग्वेदे अग्निसम्बद्धाः सूक्ताः द्विशताधिकाः सन्ति । ऋग्वेद-सामवेदयोः आरम्भः एव अग्निशब्दात् भवति । वेदे कृत्तिकानक्षत्रमेव प्रथमम् इति यत् निर्दिष्टं तस्य कारणम् एतदेव स्यात् । कृत्तिकानक्षत्रस्य प्रथमचरणस्य अक्षरम् अकारः एव । चतुर्णामपि चरणानां स्वराक्षराणि एव निर्दिष्टानि सन्ति । विंशोत्तरी-अष्टोत्तरी-योगिनी इत्यादिदशानाम् आरम्भबिन्दुः भवति कृत्तिकानक्षत्रम् । तैत्तिरीयब्राह्मणे एवम् उल्लिखितम् अस्ति यत् इदं नक्षत्रम् अग्निनक्षत्रम्, देवनक्षत्रम्, नक्षत्रेषु प्रमुखतममिति । अस्माकं रक्षाकर्तुः अग्निदेवस्य इन्द्रियरूपमस्ति कृत्तिकानक्षत्रम् । अस्मिन् नक्षत्रे अग्नेः प्रज्ज्वालनं यः करोति सः भवति प्रमुखः । कृत्तिकानक्षत्रे उष्यमाणः अग्निः कर्मफलं यच्छति ।

एकं द्वे त्रीणि चत्वारि नक्षत्राणि कृत्तिका एव भूयिष्ठाः ।
तद् भूमानमुपैति, तस्मात् कृत्तिकास्वादधीत ॥
एताह वै प्राच्यै दिशो न च्यवन्ते, सर्वाणि चान्यानि
नक्षत्राणि च्यवन्ते तस्मात् ॥

शतपथब्राह्मणे एवम् उल्लिखितमस्ति - अन्येषु नक्षत्रसमूहेषु त्रिचतुराः ताराः एव सन्ति, किन्तु अस्मिन् अनेकाः वर्तन्ते । अतः अस्मिन् नक्षत्रे यः अग्न्याधानं कुर्यात् सः पवित्रः । अन्यानि नक्षत्राणि अन्यदिशि उदिताः भवन्ति किन्तु कृत्तिका तु पूर्वदिशि एव उदेति ।

आश्रिताः पदार्थाः[सम्पादयतु]

आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः ॥

सितकुसुमानि श्वेतपुष्पाणि । आहिताग्निराहित आरोपितोऽग्निर्येन, अग्नित्रयोपचारकाः । मन्त्रज्ञा मन्त्रविदः । एवं सूत्रज्ञा यज्ञशास्त्रविदः । भाष्यज्ञा वैयाकरणाः । आकरः अर्थोत्पत्तिस्थानम्, तत्र नियुक्त आकरिकः । नापितः श्मश्रुकर्मकरः । द्विजो ब्राह्मणः । घटकारः, कुम्भकारः । पुरोहितः पुरोधाः । अब्दज्ञो ज्योतिषिकः । एते आग्नेये कृत्तिकायां समाश्रिताः ।

स्वरूपम्[सम्पादयतु]

अग्निपरिग्रहसाहसरिपुवधदहनास्त्रशस्त्रकर्माद्यम् ।
धातुर्वादविधानं विवादलोहाश्म बहुलायाम् ॥

कृत्तिकानक्षत्रे अग्निहोत्रं, साहसकर्म, शत्रुवधः, अग्नि-अस्त्र-शस्त्रकार्याणि, धातुकार्यं, वाद्यवादनम्, विवादः, लोहशिलादीनि कार्याणि कर्तुं शक्यन्ते ।

मृदुतीक्ष्णसंज्ञकनक्षत्राणि[सम्पादयतु]

हौतभुजं सविशाखं मृदुतीक्ष्णं तद्विमिश्रफलकारि ।

अथ साधारणे नक्षत्रे ताभ्यां यानि च कर्माणि कारयेत्, तथा चराणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह - हौतभुजं कृत्तिका । हुतं भुङ्क्ते हुतभुगग्निः । हुतभुज इदं हौतभुजम् । तस्येदमित्यण् । तद्धितेष्वचामादेरिति वृद्धिः । तच्च सविशाखं विशाखासहितम् । एतन्नक्षत्रद्वयं मृदुतीक्ष्णं मृदुसाधारणमित्यर्थः । तच्च विमिश्रफलकारि विमिश्रफलं करोति । मृदूनि दारुणानि च कर्माणि कुर्यादित्यर्थः ।

पश्य[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कृत्तिका&oldid=279011" इत्यस्माद् पुनः प्राप्तिः