कृष्णराजसागरजलबन्धः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कृष्णराजसागरजलबन्धः

प्रीठिका[सम्पादयतु]

के.आर्.एस्.इत्येव प्रसिद्धः अयं जलबन्धः कर्णाटकराज्यस्य मैसूरुमण्डलस्य केन्द्रसमीपे एव कावेरीनदीम् अवरुध्य निर्मितः अस्ति । अस्य कन्नम्बाडी इत्यपि नामान्तरम् अस्ति । जलबन्धस्य पुरतः एव निर्मितः वृन्दावनम् इति ख्यातम् उद्यानवनं पर्यटकानाम् आकर्षणकेन्द्रम् । मैसूरुमण्ड्यमण्डलयोः जीवनद्यां कावेर्यां निर्मितः अयं जलबन्धः निर्मितेः काले भारतदेशे एव अतिबृहज्जलबन्धः इति ख्यातः । मैसूरुसंस्थानस्य दिवानः मोक्षगुण्डं विश्वेश्वरय्यः अस्य जलबन्धस्य निर्मापकः अभियन्ता । अस्य निर्माणस्य उद्देशः कृषिजलानयनं पानजलवितरणं च ।

वृन्दावनोद्यानं च

जलबन्धः[सम्पादयतु]

अयं जलबन्धस्य दैर्घ्यं ८६००पादपरिमितम् औन्नत्यं १३०पादपरिमितम् स्तः । स्वचालिस्ल्यू गेट् युक्तः प्रपञ्चस्य प्रथमः जलबन्धः एषः । एतस्मात् तिस्रः कुल्याः सन्ति । तासु काचित् विश्वेश्वरय्य कुल्या ४५कि.मी दीर्घा अस्ति । वामतटकुल्या ३२कि.मी. दक्षिणतटकुल्या २१कि.मी. स्तः । १२४पादमितं जलम् अस्मिन् जलबन्धे तिष्ठति । भुमेः १११पादमिताधस्तात् अस्य मूलनिर्मितिः अस्ति । अस्य जलसङ्ग्रहविस्तारः ४०००च.कि.मी अस्ति ।

इतिहासः[सम्पादयतु]

मैसूरुसंस्थानस्य दिवानः श्री विश्वेश्वरय्यः कृष्णराजसागरजलबन्धस्य वृन्दावनोद्यानस्य च परियोजनायाः दायित्वं स्वाकृत्य क्रि.श.१९३२तमे वर्षे समापितवान् । यस्मिन् कालखण्डे मैसूरु मण्ड चामराजनगरम्, बेङ्गळूरु इत्यादिषु प्रदेशेषु सस्यशालिन्याः भूमेः कुतः पानजलस्यापि अभावः आसीत् तदा एतां महयोजनां रूपितवान् महोदयः विश्वेश्वरय्यः । अनेन सह सर्दार् एम्.कान्तराज् अरस्, अल्बियन् रज्कुमर् ब्यानर्जी, एम्.इस्मायिल्, कर्पूर् श्रीनिवास् राव्, के.कृष्ण अय्यङ्गार्, बि.सुब्बराव्, सि.कडाम्बी, जान् बोर्, के.आर्.शेषाचार्, एच्.पि.गिब्स् इत्यादयः परिश्रमं कृतवन्तः । अस्य निर्माणेण मैसूरुप्रान्तस्य १०सहस्रकुटुम्बानि स्वक्षेत्रं निमज्जनार्थं त्यक्तवन्तः तेषां त्यागः स्मरणीयः एव ।

कण्वपुरं कन्नम्बाडीति ख्यातम्[सम्पादयतु]

कन्नम्बाडी इति कावेरी तटस्य कश्चित् ग्रामः । पूर्वम् अत्र महर्षिः कण्वः तपः समाचरत् इति प्रतीतिः । अतः अस्य कण्वपुरी, कण्वपुरम् इति नाम आगतम् । कालक्रमेण कण्णम्बाडी भूत्वा कन्नम्बाडी इति ख्यातः अभवत् । दोड्डय्यप्रभु इति कश्चित् अधीनराजः एतं ग्रामं प्रशासते स्म । क्रि.श. १६००तमे वर्षे मैसूरु संस्थानस्य राजा राजवोडेयर् एतं ग्रामं जितवान् । भारतदेशे एव सर्वप्रथमतया निर्मितः जलबन्धः कावेरीनद्याम् एव । चोळराजः करिकालचोळः तमिळ्नाडु राज्ये कल्लण्णै इति ग्रामे कावेरीनदीम् अवरुध्य क्रि.श.१०६८तमे वर्षे जलबन्धः निर्मितः ।




बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कृष्णराजसागरजलबन्धः&oldid=270824" इत्यस्माद् पुनः प्राप्तिः