केसरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
केसरराशिः
रक्तवर्णस्य, पीतवर्णस्य च केसरम्

एतत् केसरं {कुङ्कुमम्) भारते वर्धमानः वैशिष्ट्यपूर्णः सस्यविशेषः । भारतस्य सर्वेषु अपि भागेषु एतत् केसरम् उपयुज्यते एव । एतत् केसरं भारतस्य जम्मूकाश्मीरराज्ये वर्धते । एतत् आङ्ग्लभाषया Saffron इति उच्यते । कुङ्कुमकेसरम् इति नाम्ना अपि अस्य व्यवहारः अस्ति । अत्र उच्यमानं कुङ्कुमं प्रतिदिनं यत् ललाटे ध्रियते तत् न, अपि तु केसरम् इति यत् उच्यते, आहारत्वेन यत् उपयुज्यते तत् । मधुराणां भक्ष्याणां निर्माणे एतत् केसरं सर्वदा उपयुज्यते । मधुराणां भक्ष्याणां रुचिं, गन्धम्, आकर्षणं च वर्धयितुम् एतत् कुङ्कुमम् तत्र योज्यते । एतत् केसरम् अत्यन्तं मूल्ययुतम् । अतः एतत् सर्वैः अपि प्राप्तुं न शक्यते । एतस्मिन् केसरे अपि वैविध्यम् अस्ति । तेषु उत्तमं कुङ्कुमं किम् इति वदति अयं श्लोकः -

पुष्पे केसरम्
केसरक्षेत्रम्
“पाण्डुरैः केशरैः त्यक्तं रक्तं कुङ्कुमम् उत्तमम् ।
हीनं द्विरागि काश्मीरं खरपाण्डुरकेशरम् ॥“
जले योजितं केसरम्
कूप्यां सङ्गृहीतं केसरम्
टर्किदेशस्य विपण्यां विक्रयणार्थं संस्थापिताः केसरं तथा अन्ये उपस्कराः

आयुर्वेदस्य अनुसारम् अस्य कुङ्कुमकेसरस्य स्वभावः[सम्पादयतु]

एतत् केसरं कटु-तिक्तरसयुक्तम् । एतत् उष्णवीर्ययुक्तम् अपि ।

“कुङ्कुमं कटुकं तिक्तम् उष्णं श्लेष्मसमीरजित् ।
व्रणदृष्टिशिरोरोगविषहृद् कायकान्तिकृत् ॥“
१. एतत् गर्भवतिभ्यः दुग्धेन सह दीयते । तस्य कुङ्कुमयोजितस्य दुग्धस्य पानेन गर्भे विद्यमानः शिशुः आरोग्यवान्, तथा उत्तमवर्णयुक्तः च भवति ।
२. गर्भवतिषु रक्तस्य वृद्धिं करोति ।
३. केसरेन सह वातामं, खण्डशर्कराम्, एलां च योजयित्वा चूर्णीकृत्य प्रतिदिनं तत् चूर्णं क्षीरे योजयित्वा पातव्यम् । तेन शरीरम् पुष्टिं प्राप्नोति ।
४. कृशकायाः प्रतिदिनं नियमितरूपेण एतत् सेवन्ते चेत् तेषां शरीरं शक्तियुतं भवति ।
५. एतत् शिरसः सम्बद्धान् रोगान् नाशयति । कफं वातं च शमयति अपि ।
६. एतत् कुङ्कुमं व्रणान् शुष्कीकरोति, विषदोषान्, दृष्टिदोषान् च निवारयति ।
७. एतत् शरीरस्य कान्तिं वर्धयति । ललाटे तिलकरूपेण अपि धर्तुं शक्यते । श्रीगन्धेन सह शरीरे लेपयितुम् अपि शक्यते ।
८. कुङ्कुमं, कर्पूरं, समुद्रस्य फेनं, मधु च योजयित्वा पेषणं कृत्वा यत् निर्मीयते तत् “सुकृकाञ्जनम्” इति उच्यते । तस्य अञ्जनस्य लेपनेन नेत्रयोः दुर्मांसं, आवरणं च अपगच्छति । तत् अञ्जनं दृष्टिशक्तेः पोषकम् अपि ।
९. एतत् , कर्पूरं, कस्तूरिं, चन्दनं च योजयित्वा पेषणं कृत्वा निर्मितं गन्धं “यक्षदर्गम” इति उच्यते । तस्य गन्धस्य लेपनेन चर्मरोगाः निवार्यन्ते । स च गन्धः शीतलः, सुगन्धयुक्तः इति कारणतः चर्मणः कान्तिं वर्धयति । शिरोवेदनां, विषबाधां च निवारयति ।
१०. अत्र, कस्तूरीं, चन्दनं च योजयित्वा पेषणं कृत्वा वसन्त-ऋतौ शरीरे लेपनेन वातः, पित्तं, कफं च इति दोषत्रयम् अपि निवार्यते ।
११. स्त्रीणां दुर्गन्धयुक्तः रजंस्रावः जायते चेत् कुङ्कुमं, कर्पूरं, लवङ्गं च योजयित्वा चूर्णीकृत्य उपयोक्तव्यम् ।
१२. एतत् आध्यात्मस्य दृष्ट्या अपि पवित्रम् इति उच्यते । यतः अस्य सेवनेन सत्त्वगुणः वर्धते, तमोगुणश्च निवार्यते । तस्मात् कारणात् मनः निष्कल्मषं, शान्तं च भवति इति । अतः एव तीर्थम् इति यत् उच्यते तत्र केसरम् अपि योज्यते ।

"http://sa.wikipedia.org/w/index.php?title=केसरम्&oldid=250299" इत्यस्माद् पुनः प्राप्तिः