के.एस्.सुदर्शनजी
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
| कुप्पहळ्ळी सीतारामय्य सुदर्शनः | |
|---|---|
| जननम् | 18 June 1931 रायपुर, मध्यप्रदेशः इदानीं छत्तीसगढ़राज्ये, भारतम् |
| मरणम् | 15 September 2012 |
| धर्मः | हिन्दु |
श्रीमान् के.एस् सुदर्शनवर्यस्य (कुप्पहळ्ळी सीतारामय्य सुदर्शनः) जन्म १९३१ तमवर्षस्य जूनमासस्य १८ दिनाङ्के इदानीन्तनछत्तीसगढ़प्रदेशस्य रायपुरे अभवत् । एतेषां कुटुम्बीयाः मूलतः कर्णाटकीयाः । मध्यप्रदेशस्य सागरविश्वविद्यालयतः अभियान्त्रिकीं पदवीं प्राप्य स्वस्य विद्याभ्यासानन्तरं रा.स्व.सङ्घस्य पूर्णकालिकः सन् देशसेवाम् आरब्धवान् । राष्ट्रियस्वयंसेवकसङ्घस्य पञ्चमः सरसङ्घचालकः आसीत् (२०००तः २००९ पर्यन्तम् )। ब्रह्मचारी एषः स्वस्य ८१तमे वर्षे जन्मस्थाने रायपुरे सप्टम्बर् १५ दिनाङ्के विधिवशः अभवत् ।