के. जे. येसुदासः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
के.जे.येसुदासः
കെ.ജെ. യേശുദാസ്
Kj-yesudas-indian-playback-singer-2011.jpg
Padmabhushan Dr. K.J. Yesudas D.Litt
व्यैक्तिकतथ्यानि
जन्मनाम काट्टश्शेरि जोसफ़ येशुदास
ख्यातनाम गानगन्धर्वः
मूलतः वाराणसी, मध्यप्रदेशराज्यम्, भारतम्
सङ्गीतविद्या भारतीयशास्त्रीयसङ्गीतम्, भारतीयचलच्चित्रस्य नेपथ्यगायकः,
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श.१९५५ तः... अनुवर्तते ।





डा. कत्तस्सेरि जोसेफ् येसुदासः (जननम् - क्रि.श. १९४०तमवर्षस्य जनवरिमासस्य दशमं दिनम्) भारतस्य अग्रमान्येषु सङ्गीतविद्वत्सु अन्यतमः । अपि च अनेकासु भारतीयभाषासु चलच्चित्रगीतानि गीतवान् । अयं कर्णाटकसङ्गीतस्य मधुरकण्ठः गायकः । केरळराज्यस्य कोच्चिमण्डले अस्य जननम् अभवत् । प्रसिद्धगायकस्य चेम्बै वैद्यनाथ भागवतस्य शिष्याग्रेसरः अभवत् । भारतीयचलच्चित्रस्य नेपथ्यगायकत्वेनापि अस्य ख्यातिः अस्ति । अयं मलयाळंभाषा,तमिळुभाषा, हिन्दीभाषा, कन्नडभाषा, इत्यादिषु भारतीयभाषासु चित्रगीतानि सहस्रशः गीतवान् । अस्य कण्ठश्रिया भारतम्।भारतस्य अग्रश्रेण्याः गायकेषु अन्यतमः अस्ति ।

बाल्यं सङ्गीतशिक्षा च[सम्पादयतु]

येसुदासः केरळराज्यस्य पोर्टकोच्चिप्रदेशे क्रि.श. १९४०तमे वर्षे जनवरिमासस्य दशमे दिने अजायत । अस्य पिता अगस्टैन् जोसेफ् माता अलिजबेत् जोसेफ् इति । अस्य प्रथमः सङ्गीतगुरुः कर्णाटकशास्त्रीयसङ्गीतज्ञः मलयाळं नाटकरङ्गस्य कलावित् अस्य पिता एव । तत्पश्चात् केरळस्य तिरुपुनितुर इति ग्रामे सङ्गीताकादेमीं प्रविश्य स्वस्य सप्तमे वयसि प्रचलिते सङ्गीतप्रतियोगितायां जयाशाली भूत्वा स्वर्णपदकं प्राप्तवान् । सङ्गीतस्य उन्नताध्ययनार्थं चेम्बै वैद्यनाथ भागवतः इति तत्कालीनप्रसिद्धं गुरुम् उपगतवान् । क्रि.श. १९७४तमे वर्षे गुरोः अकालमरणात् अस्य सङ्गीताध्ययनम् अवरुद्धम् ।

वृत्तिजीवनम्[सम्पादयतु]

नेपथ्यगायकत्वेन अस्य प्रथमगीतं क्रि.श. १९६१तमे वर्षे लोकार्पितस्य ' काल्पादुवुकल् ' इति मलयाळभाषायाः चलच्चित्रे अस्ति । एतावत् अनेन ५०सहस्राधिकगानानि अनेन गीतानि । एतेषु अस्य मातृभाषया मलयाळभाषया अधिकानि गीतवान् । एतदतिरिच्य कन्नडभाषया, हिन्दीभाषया, तमिळुभाषया, तेलुगुभाषया, बङ्गालीभाषया, गुजरातीभाषया, ओडिशाभाषया, मराठीभाषया, संस्कृतभाषया, तुळुभाषया, पञ्जाबीभाषया, अपि च रष्यन्, अरेबिक्, ल्याटिन्, इङ्ग्लिष् इत्यादिभिः वैदेशिकभाषाभिः गीतानि गीतवान् । अस्य सङ्गीतवृत्तेः सुवर्णमहोत्सवे सङ्गीतस्य विषये एवम् उक्तवान् । सङ्गीते विज्ञानम् अस्ति । तज्ज्ञात्वा युवानः अत्र अध्ययननिरताः भवेयुः । प्रत्येकं रागे विज्ञानस्य पृष्ठभूमिः अस्ति । तदविज्ञाय अभ्यासं करोति चेत् प्रयोजनं नास्ति । अस्य सांस्कृतिकपामुख्यं ज्ञातव्यम् । संस्कृतभाषा सर्वभाषाणां जननी अतः मलयाळभाषविदः मया अन्यभाषासु अपि गातुं शक्तवान् । कर्णाटकसङ्गीतं तु समुद्रस्य तरङ्गः इव अहम् अत्र प्रथमतरङ्गे अस्मि । सङ्गीतस्य पूर्णपरिभाषां ज्ञातुम् एकं जन्म पर्याप्तं न भवति । नाहं विद्वान् अहं विद्यार्थी एव इति अवदत् ।

वैयक्तिकजीवनम्[सम्पादयतु]

येसुदासस्य पत्न्याः नाम प्रभा । एतयोः दम्पत्योः विनोदः विजयः विशालः इति त्रयः पुत्रा सन्ति । तमिळुनाडुराज्यस्य राजधान्यां चेन्नैनगरे अस्य वासः भवति ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • अत्युत्तमनेपथ्यगायकः इति सप्तवारं राष्ट्रप्रशस्तिः ।
  • अत्युत्तमः मलयाळंनेपथ्यगायकः इति १६वारं केरळराज्यस्य प्रशस्तिः ।
  • क्रि.श. १९७४तमे वर्षे सङ्गीतराजः इति उपाधिः। चेम्बै
  • क्रि.श. १९८९तमे वर्षे अण्णामलैविश्वविद्यालयात् सादरडाक्टरेट्पदवी ।
  • क्रि.श. १९६५ तमे वर्षे तदानीन्तनसोवियत् गणराज्येन तस्मिन् देशे विविधस्थानेषु सङ्गीतगोष्ठीः आयोजयितुम् आमन्त्रणं प्राप्तवान् ।

अभिनेता अपि[सम्पादयतु]

कालः चलच्चित्रनाम अभिनेता नेदेशकः भूमिका
क्रि.श.१९६५ अनार्कली प्रेम नाज़िर् कुञ्चक्को तानसेनः
क्रि.श. २००२ नन्दनम् पृथ्वीराज सुकुमरन् रणजीतः स्वभूमिका
क्रि.श. २००५ बाय् फ्रेण्ड् मनिकुट्टन् विनयन् स्वभूमिका
क्रि.श. १९७३ अचानि प्रेम नाज़िर् पि.भास्करन् स्वभूमिका

कानिचन प्रसिद्धचलच्चित्रगीतानि[सम्पादयतु]

  • टु टु टु बेडप्प.... (प्रेममयी) कन्नडचलच्चित्रस्य प्रथमनेपथ्यगानम् । अपि च डा.राजकुमरस्य अभिनये गीतस्य एकैकं चित्रम् ।
  • हेण्ने निन्न कण्ण नोट मिञ्चु... (प्रेममयी)
  • हूवन्ते हेण्णु नगुतिरबेकु... (किलाडि किट्टु)
  • मनेये मन्त्रालय मनसे देवालय.... (मनेये मन्त्रालय)
  • आ कर्णनन्ते नी त्यागियादे... (कर्ण)
  • नटन विशारद नटशेखर...(मलयमारुत)
  • नगुमो मुगलेनि.. (रायरुबन्दरु मावन मनेगे)
  • मातु तप्पिदळु... (हुच्च)
  • तायि एन्दल्लि.... (नञ्जुण्डि)
  • नम्मूर युवराणि.....(रामाचारी)
  • लालि लालि मलगिरुव (स्वाति मुत्तु)
  • मधुर बलु मधुर बाळु जेनादाग... (बाळु जेनु)
  • ओहो वसन्त हृदय अरळो काल... (गोपिकृष्ण)
  • तामसमेन्ते वरुवान्... (भार्गवी निलयम्, क्रि.श. १९६४)
  • इन्नले मयन्गुम्बोल्.. ( अन्वेशिचु कन्देथियिल्ला, क्रि.श. १९६७)
  • स्वप्नङ्गळे... ( कव्यमेला, क्र्.श. १९६५)
  • हृदयसरस्सिले... (पाडुन्न पूज़ा कि.श. १९६८)
  • पोन्वेयिल्... (निर्तसाले, क्रि.श. १९७२)
  • अष्टमुडि... (मनवत्ती, क्रि.श. १९६४)
  • आयिरुम् पदसरम् (नाडि, क्रि.श. १९६९)
  • मनुष्यन्.... ( अचनुम् बप्पयुम् क्रि.श. १९६९)
  • श्याम मेघमे....(समयमयिल्ल पोलुम्, क्रि.श १९७८)
  • एळुस्वरङ्गळु... (चिरियो चिरि, क्रि.श. १९८२)
  • काय्योळिनिज तारकम्...(जिजगन्दर्वन्, क्रि.श. १९९१)
  • आदियुश सन्ध्या... (पळसि राजा, क्रि.श. २०१०)
  • ओ गोरियारे... (नैया)
  • सुनयना.... (सुनयन)
  • चान्द जैसे मुकडे पे...(सावन को आने दे)
  • कहाँ से आये बदरा (चसमे बद्दूर्)
  • नि स गम पा... (आनन्द महल्)
  • गोरि तेरा गांव... (चित्तचोर्)
  • का करू सजनि आये न बालम् (स्वामी)
  • दिल् के टुकडे टुकडे करके (दादा)
  • देवुडे इच्चुडु विधि ओकटि... (अन्तुलेनि कथा, क्रि.श. १९७६)
  • चुक्कल्ले तोचवे एन्नेल्ले कचवे... (नेरीक्षण, क्रि.श. १९८१)
  • नवरस सुम मालिका.... (मेघसन्देशम्, क्रि.श.१९८३)
  • तेलवरदेमो स्वमी... (श्रुतिलयलु, क्रि.श. १९८७)
  • तुलसि दलमुलचे सन्तोशमुगा... (रुद्रवीणा, क्रि.श. १९८८)
  • आ पूल रङ्गु.... (दोङ्ग पोलीस्, क्रि.श १९९२)
  • अन्दमैन वेन्नेललोन... (अस्सेम्ली रौडी, क्रि.श. १९९१)
  • मुद्दबन्ति नव्वुलो... (अल्लुडुगारु, क्रि.श. १९९१)
  • मुद्दुतो ओनमालु.... (मेजर् चन्द्रकान्त, क्रि.श. १९९२)
  • बृन्दावनमाली....(तप्पु चेसि पप्पु कूडु, क्रि.श. २००३)

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=के._जे._येसुदासः&oldid=244058" इत्यस्माद् पुनः प्राप्तिः