कोप्पळ

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कोप्पळ नगरं कर्णाटकराज्ये विद्यमानं प्रमुखं नगरं मण्डलकेन्द्रं च । कोप्पळनगरस्य std code-०८५३९ महाभारतसमये पाण्डवेषु अतिशूरः अर्जुनः तपः कर्तुम् अत्र आगतवान् । अत्रैव इन्द्रकीलपर्वते तपः कृत्वा परमेश्वरेण साकं युद्धं कृतवान् । अन्ते शरणागतः पाशुपतास्त्रं प्राप्तवान् । पर्वतप्रदेशं मळेमल्लेश्वरः इति कथयन्ति । अस्य ‘पाण्डववठार’ इति नामधेयम् अपि अस्ति । अत्र मौर्यचक्रवर्तेः अशोकस्य अनेकशासनानि लब्धानि सन्ति । इतिहासासक्तः संशोधनार्थम् आगच्छन्ति । गविमठः कोप्पळनगरे अतिप्रसिद्धः अस्ति । अत्र देवः गविसिद्धेश्वरः । प्रतिवर्षं जनवरीमासे पञ्चदशदिनपर्यन्तं यात्रामहोत्सवः अत्र प्रचलति । समीपे (११ कि.मी)मोदपुर (मादिगनूरु) ग्रामे दक्षिणबदरी इति ख्यातं श्रीबदरीनारायमन्दिरम् अस्ति । श्रीविष्णुतीर्थयतिवरेण्येन स्थापितमेतत् । त्रिवारम् अत्र आगच्छति चेद बदरीयात्राफलं लभ्यते इति प्रथा अस्ति । समीपे श्रीविष्णुतीर्थस्य वृन्दावनमपि अस्ति । प्राचीनः कन्नडकविः श्रीविजयः एतस्य नगरस्य महाकोपणनगरम् इति उल्लिखितवान् अस्ति । कोप्पळदुर्गं बहु दूरतः स्पष्टं दृश्यते, तथा अस्ति तस्य रचना । भूस्तरतः ३००० पादोन्नते प्रदेशे एतत् दुर्गमस्ति । मैसूरु टिप्पु सुल्तानः एतत् दुर्गं बलिष्ठं कृतवान् इति इतिहासः सूचयति । आङ्गलाधिकारी सर् जान् माल्यन् कोप्पळदुर्गम् अतीव बलिष्ठम् अभेद्यं च इति वर्णितवान् अस्ति । दुर्गारोहणम् अपायकारि कार्यम् । दुर्गस्य उपरि भूवैज्ञानिकविस्मयं तोरणं, अशोकस्य शासनं च द्रष्टुं शक्यन्ते । पर्वते शिलायुगकालीनानि मृतस्मारकानि(Tomb) अपि सन्ति । साहसिकानां इतिहासप्रियाणां च एतत् स्थलं रोचकं भवति । आदिमानवचिह्नानि अपि अत्र सन्ति

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ३६८ कि.मी । हुब्बळ्ळीतः ११५ कि.मी ।

धूमशकटमार्गः[सम्पादयतु]

हुब्बळ्ळी-गुन्तकल् मार्गे कोप्पळ निस्थानमस्ति ।

वाहनमार्गः[सम्पादयतु]

हुब्बळ्ळी-बळ्ळारी राजमार्गः ।

इतः अनतिदूरे किन्नाळ इत्यत्र काष्ठनिर्मितानि क्रीडनकानि सज्जीकुर्वन्ति।


"http://sa.wikipedia.org/w/index.php?title=कोप्पळ&oldid=231754" इत्यस्माद् पुनः प्राप्तिः