कोप्पळ
कोप्पळ नगरं कर्णाटकराज्ये विद्यमानं प्रमुखं नगरं मण्डलकेन्द्रं च । कोप्पळनगरस्य std code-०८५३९ महाभारतसमये पाण्डवेषु अतिशूरः अर्जुनः तपः कर्तुम् अत्र आगतवान् । अत्रैव इन्द्रकीलपर्वते तपः कृत्वा परमेश्वरेण साकं युद्धं कृतवान् । अन्ते शरणागतः पाशुपतास्त्रं प्राप्तवान् । पर्वतप्रदेशं मळेमल्लेश्वरः इति कथयन्ति । अस्य ‘पाण्डववठार’ इति नामधेयम् अपि अस्ति । अत्र मौर्यचक्रवर्तेः अशोकस्य अनेकशासनानि लब्धानि सन्ति । इतिहासासक्तः संशोधनार्थम् आगच्छन्ति । गविमठः कोप्पळनगरे अतिप्रसिद्धः अस्ति । अत्र देवः गविसिद्धेश्वरः । प्रतिवर्षं जनवरीमासे पञ्चदशदिनपर्यन्तं यात्रामहोत्सवः अत्र प्रचलति । समीपे (११ कि.मी)मोदपुर (मादिगनूरु) ग्रामे दक्षिणबदरी इति ख्यातं श्रीबदरीनारायमन्दिरम् अस्ति । श्रीविष्णुतीर्थयातिवरेण्येन स्थापितमेतत् । त्रिवारम् अत्र आगच्छति चेद बदरीयात्राफलं लभ्यते इति प्रथा अस्ति । समीपे श्रीविष्णुतीर्थस्य वृन्दावनमपि अस्ति । इतः अनतिदूरे किन्नाळ इत्यत्र काष्ठनिर्मितानि क्रीडनकानि सज्जीकुर्वन्ति।