कोलारमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोलारमण्डलम्

ಕೋಲಾರ ಜಿಲ್ಲೆ
मण्डलम्
Skyline of कोलारमण्डलम्
Nickname(s): 
सोमेश्वरमन्दिरम्
Located in the southeast part of the state
राष्ट्रम् भारतम्
राज्यम् कर्णाटकराज्यम्
विभागः बेङ्गलूरुविभागः
केन्द्रम् कोलारनगरम्
Area
 • Total ४,०१२ km
Population
 (2011)
 • Total १५,४०,२३१
 • Density ३८४/km
भाषा
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
ISO 3166 code IN-KA-KL
Vehicle registration KA-07, KA-08
लिङ्गनुपातम् 0.976 पु/स्त्री
साक्षरतापरिमाणम् 74.33%
Precipitation (meteorology) 724 मिलीमीटर (28.5 इंच)
Website kolar.nic.in
Kolar district at a glance

कोलारमण्डलम् (Kolar District) आन्ध्रप्रदेशतमिळुनाडुसीमाप्रदेशे प्रतिष्ठितम् एकं मण्डलम् । सुवर्णखन्योद्यमेन प्रसिद्धम् । कोलारनगरं पूर्वं गङ्गवंशीयानां राजधानी आसीत् । कुवलापुरम् इति नाम आसीत् । गङ्गराजैः निर्मितानि मन्दिराणि भवनानि च इदानीमपि शोभन्ते । कर्णाटकस्य पूर्वदिशि अस्ति कोलारमण्डलम् । अत्र दुर्गाः पर्वतप्रदेशाः देवालयाः तटाकानि, इत्यादीनि सन्ति । सहस्रशः सरांसि सन्ति इति केरेगळजिल्ले(सरोवराणां मण्डलम्) इति कथयन्ति । कर्णाटकसीमान्तप्रदेशः एषः ।

उपमण्डलानि-७[सम्पादयतु]

कोलार, मुळुबागिलु, शिड्लघट्ट, मालूरु, चिन्तामणि बङ्गारपेटे, श्रीनिवासपुर।

सूच्याङ्कः[सम्पादयतु]

एस् टी डी - ०८२५

विस्तीर्णता[सम्पादयतु]

८२२३ च.कि.मी

भाषा[सम्पादयतु]

अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते ।

उद्योगः[सम्पादयतु]

एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।

दर्शानीयानि स्थानानि[सम्पादयतु]

अन्तरगङ्गा, चिन्नदगणि(सुवर्णखनिः) मुलबागिलु, बङ्गारुतिरुपति, कोटिलिङ्गेश्वरः, मार्कण्डेयपर्वतः, सोमेश्वरदेवालयः, कोलारम्मदेवालयः, कुरुडुमले, आवनी, मुरुगमल्लदर्ग, विदुराश्वत्थ । मध्वाचार्याणां परमाप्तशिष्यस्य श्रीमन्माधवतीर्थस्य मूलमहासंस्थानम् अत्रैव मुलबागिलुमार्गे शोभते । अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते । एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।

क्षेत्राणि[सम्पादयतु]

कोलार, मुळुबागिलु, करुडुमलै, आवनी, बूदिकोटे, तम्बिहळ्ळि, बङ्गारुतिरुपति, चिक्कतिरुपति सीतिबेट्ट, टेकल् ।

१.कोलार[सम्पादयतु]

कोलारनगरं शतश्रृङ्गपर्वतस्य सानुप्रदेशः । सुवर्णाकराः च अत्र कोलारमण्डल्प्रदेशे सन्ति । कोलारम्मा देवालयः सोमेश्वरदेवालयः च प्रसिद्धौ । कोलारम्मादेवालयः गङ्गशैल्या १२ शतके निर्मितः । सोमेशवर देवालयः विजयनगरशैल्या १५ शतके निर्मितोऽस्ति । सोमेश्वरमन्दिरे ६३ स्तम्भेषु कलावैभवः द्रष्टुं शक्यते । नटराजलोहशिल्पं, कुमारस्वामि- शिलाशिल्पं च आकर्षके स्तः । गोपुरः अपि सुन्दरः अस्ति । अत्र समीपे अन्तरगङ्गापर्वते काशीविश्वेश्वरमन्दिरम् अस्ति । अत्र नन्देः(स्थानीयभाषया बसवः) मुखात् शुद्धं जलं सदा निर्गच्छति ।

मार्गः -बेङ्गळूरुतः तिरुपतिमार्गे ७२.कि.मी । राष्ट्रियमार्गः -४

२. अवनी[सम्पादयतु]

अस्य क्षेत्रस्य आवन्तिका, दक्षिणगया आवन्तिकाक्षेत्रमिति च नामानि सन्ति । अत्र प्रमुखाः देवालयाः एकान्तरामः, कामाक्षी, रामलिङ्गेश्वरदेवालयः च । रामलिङ्गेश्वर- देवालये विशालता सुन्दरता कलात्मकता च अस्ति । पर्वतप्रदेशे (३२४९ पादमितः) सीता, पार्वतीगुडि(मन्दिरम्), अग्नितीर्थम् इत्यादिकम् अस्ति । आवनीक्षेत्रे श्रृङ्गेरीमठे वासादिव्यवस्था अस्ति ।

मार्गः - मुळुबागिलुतः ८ कि.मी.
के.जी.एफ् -मुळुबागिलु वाहनमार्गः

३. मुळुबागिलु[सम्पादयतु]

अत्र ५ सहस्रवर्षेभ्यः प्राचीनः आञ्जनेयदेवालयः ग्राममध्ये अस्ति । दशपादपरिमितोन्नतः सुन्दरः हनूमान् अर्जुनेन प्रतिष्ठापितः । तं प्रति ताडपुष्पेण अत्र पूजाभवति इति एषः नियमः। समीपे २ कि.मी. दूरे नरसिंहरीर्थम् अस्ति । अत्र श्रीमन्मध्वाचार्याणां शिष्येण श्रीपद्मनाभतीर्थेन सञ्चालितः मठः अस्ति। श्रीपादराजवर्यस्य मूलबृन्दावनं योगपट्टनरसिंहदेवालयः च विराजेते । समीपे हञ्चिकल्लगुड्डप्रदेशे श्रीविद्यारण्यः श्रीअक्षोभ्यतीर्थः च वाक्यार्थे वाग्वादं कृतवन्तौ । अत्र शिल्पकलारत्नः इव सोमेश्वरदेवालयः विरूपाक्षः च स्तः ।

मार्गः- मुळुबागिलुतः २ कि.मी । कोलारतः २९ कि.मी.। बेङगलूरुतः २०० कि.मी। बेङ्गळूरु-तिरुपतिराजमार्गे- श्रीपादराजमठे वसतिः अस्ति ।

४. चिक्कतिरुपति (मालूरु)[सम्पादयतु]

प्रसन्नवेङ्कटेशस्य भगवतः श्रीश्रीनिवासस्य प्रसिद्धं मन्दिरम् अत्र अस्ति । एतत् गङ्गराजानां काले १२ शतके निर्मितम् । आन्ध्रप्रदेशे स्थितं तिरुपतितिरुमलै मन्दिरं गन्तुम् अशक्ताः भक्ताः अत्रागत्य स्वभक्तिकार्यं निर्वहन्ति । श्रावणमासे अत्र वैभवेण विविधाः उत्सवाः प्रचलन्ति । सहस्रशः भक्ताः अत्र आगच्छन्ति । इदानीम् अस्मिन् प्रदेश विशेषरूपेण वास्तुशिल्पानि रचितानि सन्ति । तिरुपति-तिरुमलैप्रदेशे यथा भवति तत्समानं दृश्यवैभवं सर्वकार्याणि च अत्रापि भवन्ति।

मार्गः -बेङ्गळूरुतः ५० कि.मी. ,मालूरतः २५ कि.मी.

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कोलारमण्डलम्&oldid=482565" इत्यस्माद् प्रतिप्राप्तम्