कोलासिबमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Kolasib District
मण्डलम्
मिझोरामराज्ये कोलासिबमण्डलम्
मिझोरामराज्ये कोलासिबमण्डलम्
देशः  India
मण्डलम् कोलासिबमण्डलम्
विस्तारः १,४२१.६० च.कि.मी.
जनसङ्ख्या(२०११) ६४,९३७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://www.nic.in/state/Mizoram/Kolasib


कोलासिबमण्डलं (आङ्ग्ल: Kolasib District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोलासिब इत्येतन्नगरम् । मिजोरामराज्ये उत्तरविभागे विद्यमानमिदं मण्डलम् । अतः यातायातदृष्ट्या अस्य स्थानं महत्त्वपूर्णम् ।

भौगोलिकम्[सम्पादयतु]

कोलासिबमण्डलस्य विस्तारः १,३७२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तर-वायव्यदिशोः अस्सामराज्यम् अस्ति । पूर्वदिशि चम्पायमण्डलं, दक्षिणदिशि ऐजोलमण्डलं, पश्चिम-नैऋत्यदिशोः मामितमण्डलम् अस्ति । अत्र १९७ से.मी.मितः वार्षिकवृष्टिपातः भवति । 'त्लोङ्ग' अस्य प्रदेशस्य प्रमुखनदी । कोलासिबमण्डले अरण्यव्यापृतं, पर्वतीयं च स्थलम् अधिकं वर्तते । वनेषु वंशवृक्षाः अधिकाः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

कोलासिबमण्डलस्य जनसङ्ख्या(२०११) ८३,९५५ अस्ति । अस्मिन् ४२,९१८ पुरुषा:, ४१,०३७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.२८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५६ अस्ति । अत्र साक्षरता ९३.५० % अस्ति । मण्डलेऽस्मिन् ४४.१६% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

११९८ तमे वर्षे ऐजोलमण्डलस्य विभाजनं कृत्वा कोलासिबपरिसरः मण्डलत्वेन स्थापितः ।

कृषि:[सम्पादयतु]

मण्डलेऽस्मिन् जल-पर्वत-सम्पत्कारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशाः, काष्ठानि च उपलभ्यते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति । कृषिः पारम्परिकपद्धत्या एव क्रियते । तण्डुलः, द्विदलसस्यानि, फलानि च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -

  • बिखोथ्लिर्
  • उत्तर-थिङ्गडोल

लोकजीवनम्[सम्पादयतु]

अत्र शिक्षणसुविधानाम् अभावः दृश्यते । चेरो(Cheraw), खोलाम्(Khuallam), छेह्-लाम् इत्येताः जनानां प्रमुखनृत्यप्रकाराः सन्ति । मिम् कुट्, चफर् कुट्, पोल् कुट् च उत्सवान् जनाः आचरन्ति । वनवासिजनजातीनां प्राचुर्यं दृश्यते । जनाः पारम्परिकजीवनपद्धतिम् अनुसरन्ति । अत्रस्थाः जनाः मिजो, आङ्ग्लम् इत्येताभ्यां भाषाभ्यां व्यवहरन्ति । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -

  • ताम्दिल् सरोवरः
  • त्लोङ्ग नदी, परिसरः च । अत्र fishing-मत्स्यग्रहणं बहु आनन्ददायकम् इति कथ्यते ।
  • कोलासिब नगरम्
  • स्थानिक-रबर-निर्माणोद्यमः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=कोलासिबमण्डलम्&oldid=481512" इत्यस्माद् प्रतिप्राप्तम्