क्षीरिणीसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्षीरिणीसस्यम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Gentianales
कुलम् Apocynaceae
उपकुलम् Asclepiadoideae
वंशः Hemidesmus
जातिः H. indicus
द्विपदनाम
Hemidesmus indicus L. R.Br.
पर्यायपदानि
  • Periploca indica

इदं क्षीरिणीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारते सर्वत्र वर्धते । अस्य सस्यस्य पर्णानि २ – ४ अङ्गुलं यावत् दीर्घाणि, हरितवर्णीयानि च भवन्ति । अस्य पुष्पाणि हरितमिश्रित – नीललोहितवर्णीयानि भवन्ति । फलानि च ४ – ६ अङ्गुलं यावत् दीर्घाणि भवन्ति । फलानाम् अन्तः सपादैकम् अङ्गुलं यावत् दीर्घाणि, कृष्णवर्णीयानि बीजानि भवन्ति । इदं सस्यं द्विविधं भवति । श्वेतं (पेमिडिस्मस् इण्डिकस्), कृष्णम् (इकोकार्डस् प्रटिसेन्स्) च इति । अधिकतया श्वेतसस्यम् एव औषधत्वेन उपयुज्यते ।

इतरभाषाभिः अस्य क्षीरिणीसस्यस्य नामानि[सम्पादयतु]

इदं क्षीरिणी-सस्यम् आङ्ग्लभाषयाHemidesmus Indicus इति उच्यते । हिन्दीभाषया“कालीसर” इति, तमिळ्भाषायां “नन्नारिम्” इति, मलयाळभाषया“नन्नारिवर्” इति, कन्नडभाषया“नामद बेरु” अथवा “सारीव” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य क्षीरिणी-सस्यस्य प्रयोजनानि[सम्पादयतु]

अस्य क्षीरिणी-सस्यस्य रसः मधुरः तिक्तः च । इदं शीतवीर्ययुक्तं, गुरुगुणयुक्तं चापि । विपाके मधुरः एव भवति । अस्य सस्यस्य मूलम् एव औषधत्वेन उपयुज्यते । ॑॑॑# इदं क्षीरिणी-सस्यं वातं, वातजन्यं दोषं, पित्तं, पित्तजन्यं दोषं चापि परिहरति ।

  1. इदं शरीरस्य ज्वलनं, ज्वरं च शमयति ।
  2. नेत्ररोगेषु, चर्मरोगेषु च अस्य उपयोगः हितकरः ।
  3. इदं मूत्रविकारान्, रक्तहीनतां च निवारयति ।
  4. इदं बलहीनतां निवार्य बलं वर्धयति ।
  5. अस्य कषायं ३० एम्. एल्. यावत्, कल्कं ५ ग्रां यावत् सेवनीयम् ।
  6. अनेन निर्मितानि “सारीवादिकाषायं”, “सारीवादिवटी”, “सारीवादिपानकं”, “सारीवादि आसवम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
"https://sa.wikipedia.org/w/index.php?title=क्षीरिणीसस्यम्&oldid=395502" इत्यस्माद् प्रतिप्राप्तम्