खदिरवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(खदिरः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
खदिरवृक्षः

खदिरवृक्षः कश्चन वृक्षविशेषः । आङ्ग्लभाषायां Acacia इति उच्यते । खदिरवृक्षः “प्याबसिये” कुटुम्बस्य “मिमोसोय्डि” इति उपप्रभेदे अन्तर्भवति । एते खदिरवृक्षाः गुल्मस्य अथवा भाररहितानां वृक्षाणं कुले सन्ति । एतेषां वृक्षाणाम् अस्तित्वं १७७३ तमे वर्षे आफ्रिकादेशे स्पीडिश्-देशस्य सस्यविज्ञानी कार्ल् लिन्नययुस् अभिज्ञातवान् । एतेषां खदिरवृक्षाणां बहवः प्रभेदाः सन्ति । तत्र आस्ट्रेलियाप्रभेदस्य वृक्षेषु कण्टकानि न भवन्ति । अन्ये प्रभेदाः कण्टकयुक्ताः भवन्ति । एते वृक्षाः बीजकोशेभ्यः जन्म प्राप्नुवन्ति । अस्य सस्यरसे तथा पर्णेषु च महता प्रमाणेन “ट्यानिन्” भवति । ट्यानिन् नाम मसीनिर्माणार्थं चर्मणः समीकरणार्थं च वृक्षस्य त्वक्-तः निष्कासितं किञ्चित् बन्धकवस्तु । अस्य खदिरवृक्षस्य कुलनाम अस्ति “अकाकिय” इति । अतः एव आङ्ग्लभाषायाम् अस्य नाम “अकेशिया” इति उच्यते । ग्रीक्-सस्यविज्ञानी वैद्यः च पेडनिस् डियोस्कोरैडस् स्वीये “मटेरिया मेडिका” इति पुस्तके खदिरवृक्षस्य तत् नाम दत्तवान् । अस्य सस्यशास्त्रीयं नाम अकेशिया काटेचु वैल्ड इति । अस्य कुटुम्बः फ्याबेसि मिमोसे । अरुणः, सर्वमङ्गला, बहुशाल्यः, रक्तसरः, यूपद्रुः इति अस्य वृक्षस्य नामान्तरम् । अस्य गायत्रीवृक्षः, पथिद्रुमः, खदिरापादपः इत्यपि कथयन्ति । अन्यभाषासु अस्य वृक्षस्य नामानि यथा...

आङ्ग्लम् - काच् ट्री, ब्लाक् कचेटु । Kach Tree, Black kachtu
कन्नडम् - कग्गलिमर, तारा, कदरु, काचु । ಖೈರೆ, ಕಗ್ಗಲಿಮರ, ತಾರಾ, ಕದರು, ಕಾಚು, ಕಾಚಿನ ಮರ |
हिन्दी - कात्था, खैर ।
तमिळु - करङ्गल्लि, कोडम् । கரம்கல்லி, கோடம் |
तेलुगु - कासु, सुन्द्रा । కాసు, సుంద్రా।
मराठि - कदेरि, खैर, खेरा ।
मलयाळम् - कदरम्, करिन्नलि । കദരമ, കരിഅന്നലി |

लक्षणानि[सम्पादयतु]

खदिरदुमस्य औन्नत्यं ९-१२मी. पर्यन्तं वर्धते । अतिपरुषस्य अस्य त्वचः वर्णः गाढपिङ्गलः । नारिकेल पत्रानि इव एकस्मिन् दण्डे बहूनि पत्राणि संलग्नानि भवन्ति । १०-१५सें.मी.दीर्घाणि युगललघुपत्राणि वृन्तपर्णानि कण्टकानि इव सन्ति । अस्य पुष्पगुच्छं तु ५-१०दीर्घं मन्दपीतवर्णस्य पुष्पाणि च भवन्ति । जून्-जुलैमासयोः वृक्षाः कुसुमिताः भावन्ति । फलानि ५-७सें.मी.दीर्घाणि पिङ्गलवर्णितानि च भवन्ति । फले ५मि.मी.व्यासस्य ५-१० सङ्ख्यया बीजानि भवन्ति । अस्य वृक्षस्य वंशप्रसारः बीजैः एव भवति ।

उपयोगाः[सम्पादयतु]

खदिरवृक्षः शीतकरः अस्ति । अजीर्णं कासः शुष्ककण्ठः इत्यदिषु रोगेषु अस्य फलानि औषधत्वेन उपयोगाय भवन्ति । अतिसारनियन्त्रणार्थमपि अस्य उपयोगः बहुलः । अस्य फलसारस्य लेपनेन क्षताः व्रणाः च उपशान्ताः भवन्ति । अस्य दारु दृढं भवति अतः कृष्युपकरणानां निर्माणम् एतेन कुर्वन्ति । आयुधानां दण्डकान् वाहननां चक्रनेमीः, पारञ्जानभागान् निर्मातुम् अस्य वृक्षदारुखण्डानाम् उपयोगः भवति । लाक्षानिर्माणस्य कीटाः अस्य पत्राणि खादन्ति । एतैः निर्मिता लाक्षा उत्तमा इति विश्वासः ।

अयं खदिरवृक्षः स्वस्य विशिष्टानां कण्टकानां कारणतः एव “अकेशिया” इति नाम प्राप्नोत् । (“अकिस्” इत्युक्ते कण्टकम् इति अर्थः) । “नैल्” नद्याः तीरे महता प्रमाणेन वर्धिताः इति कारणतः “निलोटिका” इत्यपि नाम प्राप्नोत् । एतेषां वृक्षाणां कण्टकवृक्षः, सीटिकारववृक्षाः, वाटल्, पीत-ज्वरवृक्षाः, छत्रखदिराः इत्यादीनि नामानि अपि सन्ति । २००५ वर्षे कृतेन समीक्षणेन विश्वाद्यन्तं अस्य खदिरवृक्षाणां १३०० प्रभेदाः सन्ति इति ज्ञातम् । तेषु ९६० प्रभेदाः आस्ट्रेलियामूलीयाः । अवशिष्टाः प्रभेदाः उष्णवलयस्य समशीतोष्णवलयस्य च यूरोप्, आफ्रिका, दक्षिण-एष्या, अमेरिका इत्यादिषु देशेषु प्रसृताः सन्ति । आहत्य तेषां खदिरवृक्षाणां सर्वे प्रभेदाः पञ्चधा विभक्ताः सन्ति । “अकेशिया” इति नाम आस्ट्रेलियाप्रभेदस्य, अन्येषां प्रभेदानां च “वचेल्लिया” तथा “सेनेगलिया” इति नाम प्रदत्तम् अस्ति ।


वर्गीकरणम्[सम्पादयतु]

अस्य खदिरवृक्षस्य कुलम् एकजैविककुलस्य न । अतः एव नूतनानि पञ्च कुलानि अपि अद्भूतानि अभवन् । सामान्यभाषायां “अकेशिया” इति पदं “रोबिनिय”-कुलस्य सस्यस्य प्रभेदानां कृते उपयुज्यते । तदपि हरेणुजातीयं सस्यम् । अमेरिकाप्रभेदः “रोबिनिय-स्युडोअकेशिया” इति परिचितम् अस्ति ।

चित्रवीथिका[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=खदिरवृक्षः&oldid=273309" इत्यस्माद् पुनः प्राप्तिः