खम्मम् मण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
खम्मम्
—  मण्डलम्  —
खम्मम्
Location of खम्मम्
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

17°15′N 80°09′E / 17.25°N 80.15°E / 17.25; 80.15

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
केन्द्रप्रदेशानि खम्मम्
जनसङ्ख्या २५,६५,४१२
समयवलयः IST (UTC+05:30)
जालस्थानम् khammam.nic.in/

खम्मम् मण्डलम् आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं खम्मम् नगरम् ।

अन्तर्विषयाः

इतिहासः [सम्पादयतु]

१९५३ तमे वर्षे आविष्कृतम् इदं मण्डलम् । गजपतयः रेड्डिराजाः, विजयनगरराजाः गोलकोण्ड- नवाबजनाः चिरं पर्यपालयन् । प्राग्गोदावरीमण्डलात् केचन प्रदेशाः अस्मिन् मण्डले संयोजिताः ।

भौगोलिकम् [सम्पादयतु]

अस्य प्राच्यां दिशि उभयगोदावरीमण्डले, पश्चिमे वरङ्गल्- नल्गोण्डमण्डले, उत्तरे मध्यप्रदेश- ओडिष्षाराज्ये, दक्षिणे च कृष्णामण्डलं सीमायां वर्तन्ते । मण्डलस्य ५७.७५% भूभागे अटवी विस्तृता । अतः राज्यस्य अत्यधिकः अरण्यगतभूभागः अस्मिन् मण्डले एव वर्तते ।

कृषिः वाणिज्यं च [सम्पादयतु]

खनिजसम्पदाम् इदं मण्डलं स्रोतः वर्तते । अङ्गारनिक्षेपाणाम् आविष्कारः क्रियमाणः अस्ति सिङ्गरेणि-कालनीस् इत्यस्य अध्वर्यवे कोत्तगूडेम्-इल्लेन्दुप्रान्तयोः । मौलारं इत्यस्मिन् प्रान्ते ताम्रखनिजम् उपलभ्यते । भद्राचलम्, वर्गम्पाडु, पाल्वञ्च इत्यादिपरिसरेषु ग्राफैट्, खम्मं परिसरे कोरण्डखनिजम्, डोलमैट्, क्रोमैट, इल्लेन्दु-बेतम्पूडिप्रान्तयोः सुधाशिलाश्च उपलभ्यन्ते । पाल्वञ्चसमीपे अयःकर्मागारः, मणुगूरुप्रान्ते भारजलकर्मागारः, कोत्तगूडें प्रान्ते अङ्गारविद्युत्केन्द्रम् , भद्राचले कर्गदनिर्माण केन्द्रम्, पारिश्रामिकविकास- केन्द्रं खम्मंसमीपे च विलसन्ति । मण्डलेस्मिन् १८१ कि.मी मिते प्रदेशे गोदावरीनदी प्रवहति । किन्नेरसानि, मनेरु, आकेर्रु, पालेरु, वैरा इत्याद्युपनद्यः च अत्र प्रवहन्ति । ४०% भूमौ सेद्यं क्रियते ।

वीक्षणीयस्थलानि [सम्पादयतु]

भद्राचलस्थः श्रीसीतारामचन्द्रस्वामि-देवालयः, पर्णशाला, खम्मंनगरस्थं स्तम्भाद्रिदुर्गम्, नेलकोण्डपल्ली- बौध्दस्तूपाः पर्याटकानां मानसं हरन्ति । उन्नतविद्यासंस्थाः काकतीय-विश्वविद्यालयस्य परिधौ आयान्ति ।

तालूकाः [सम्पादयतु]

बाह्यानुबन्धाः [सम्पादयतु]