खयाल्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

खयाल् (Khyal) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । हिन्दुस्तानीशास्त्रीयसङ्गीते नैके प्रकाराः विद्यन्ते । ध्रुपद् उत् ध्रुवपद, होरि उत धमार्, खयाल् उत ख्याल्, ठुमरि, टप्पा, दाद्रा, तराना, तिरवत्, गजल्, खव्वालि, सादरा, खमसा, लावणि, चतुरङ्ग, भजन्, सरगम्, रागमाला इत्यादयप्रकाराः सन्ति । तेषु अन्यतमः प्रकारः खयाल् भवति । "फारसी" भाषायां खयाल् शब्दस्य "विचारः" उत "कल्पना" इत्यर्थः भवति । रागस्य नियमपालनं कुर्वन्तः कल्पनानुसारं विभिन्न तान् तथा आलापान् विस्तारं कुर्वन्तः एकताल्: त्रिताल:, झुमरा, आधा चौताल: इत्यादिषु तालेषु गानं कुर्वन्ति । खयाल् गीतेषु शृङ्गाररसस्य प्रयोगाः अधिकतया दृश्यन्ते । खयाल् गायने जलद तान् गिटकरी इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति । स्वराणां वैचित्र्यं तथा चमत्कारदर्शनार्थं खयाले विभिन्न तान् स्वीकुर्वन्ति । ध्रुपद् प्रकारे यथा विद्यमानगाम्भीर्यं तथा भक्तिरसः भवति तथा खयाल् प्रकारे नभवति ।

विभागः[सम्पादयतु]

अस्मिन् प्रकारे विभागद्वयं भवतः।

  • बडाखयाल्- विलम्बितलये गायन्ति चेत् बडाखयाल् इति व्यवहारः।
  • छोटाखयाल्- द्रुतलये गायन्ति चेत् छोटाखयाल् इति व्यवहारः।

गायकः यदा खयाल् गानारम्भं करोति तदा विलम्बितलये एव आरम्भं करोति । विलम्बित एकताल्, तीनताल्, झमरादिषु गायति । समनन्तरमेव छोटाखयाल् गायति । मध्य उत ध्रुतलये आरम्भं करोति । प्रायः त्रिताल् उत द्रुत एकताले गायति । एकस्मिन् समये यदा प्रकारद्वयस्य गानं भवति तदा एकस्मिन् एव रागे गायन्ति । किन्तु, बोल् उत कवितायाः (चीज्) व्यत्यासः दृश्यते । मोघलसाम्राज्ये महम्मद षा रङ्गीले काले(१७१३) प्रसिद्धौ खयाल् गायकौ सदारङ्गअदारङ्गौ आस्ताम् । आभ्यां सहस्राधिकखयाल्कविताः रचिताः ।अधिकाः शिष्याः आसन् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=खयाल्&oldid=240383" इत्यस्माद् पुनः प्राप्तिः