गङ्गानदी
गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी|
[सम्पादयतु] उद्भवनम्
भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे यमुना गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गसमुद्रम् प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गसमुद्रस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।
[सम्पादयतु] जन्तवः
गङ्गायां द्विविधौ शिशुमारौ स्थः। तौ गङ्गाशिशुमारः इरावतीशिशुमारः च। गङ्गायां केचन विरलाः कुम्भीराः (Glyphis gangeticus) अपि वसन्ति।
[सम्पादयतु] पुराणम्
हैन्दवाः गङ्गा देवीं माता इव पूजयन्ती|
गङ्गायाः तीरे अनेके हरिद्वार-काश्यादीनि पवित्राणि तीर्थस्थलानि सन्ति। गङ्गास्नानं सर्वाणि पापानि अपहरति मोक्षमपि ददाति इति जनाः मन्यन्ते। श्रद्धावन्तः हैन्दवाः गङ्गास्नानं कर्तुं यात्रां कुर्वन्ति। तस्याः तीरे अपि तपः कुर्वन्ति |
एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा।
एकदा महाराजः सागरः अश्वमेधयज्ञं कृतवान्। तस्य षष्टिसहस्रपुत्राः आसन्। अश्वः मत्सरेण इन्द्रेण बद्धः। सागरः अश्वं प्रतिप्राप्तुं स्वपुत्रान् प्रेषितवान्। ते अश्वम् कपिलर्षेः आश्रमे अपश्यन्। कपिलमहर्षिः एव चोरः इति मत्वा ते तम् अबाधन्त। क्रुद्धः ऋषिः स्वदृष्टया एव तान् भस्मसात् अकरोत्। तेषाम् अन्तिमकार्याणि न कृतानि अत एव ते स्वर्गम् न प्राप्नुवन्। सागरस्य वंश्यः भागीरथः स्वपूर्वजानाम् शान्तये गङ्गाजलम् ऐच्छत्। सः तीव्रेण तपसा गङ्गां भूलोकं प्रति आनायितवान्। शिवः तां गङ्गां स्वजठायां धृतवान्। गङ्गा पापेभ्यः सर्वान् उद्धरति| गङ्गायाः प्रकृतस्थितिः भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र पृकृतिं पञ्जमहाभूतानि इति कथयामः। ये अमाकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं वायुः अग्निः इत्यादयः अमान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकालत् अस्माकं देशे पवित्रभावनयापूज्यमान एषा नदी इदानीं प्रदूषिता अस्ति । विष्णोः पादकमलात् उद्भूता गङ्गा शिवस्यशिखाद्वारा भूलोकं पतित्वा प्रवहति इति भारतीयानं विश्वासः । अतः गङ्गास्नानेन पापनाशनं भविष्यति इति भावनयाः प्रतिदिनं २०लक्षजनाः पुण्यस्नानं कुर्वन्ति । जनानां धार्मिकाध्यात्मिकेन विश्वासेन इयं अस्मिन् विश्वे एव पुण्यतमा इति ख्याता । एतादृशी नदी मानवानां दुराशायाः निर्लक्षस्यच कारणेन नाम नगरीकरणेन नदीतीरे अत्यधिकयन्त्रागाराणां स्थापनेन च गङ्गायाः जलं मलिनं सञ्जातम् । एतस्य जलस्य पानेन स्नानेन वा मानवाः रोगबाधिताः भवन्ति एव । अस्मिन् जले कालरा डिसेण्ट्री इत्यादिरोगोत्पादकाः अंशाः सन्तीति भारतीयविज्ञानिनः धार्मिकनायकाः च मिलित्वा संशोध्य जनान् प्रबोधितवन्तः । पुनः च अस्मिन् जले अन्यनदीनाम् अपेक्षया अधिकः आम्लजनकः अस्ति यः मानवशरीरास्य अनुकूलकरः न । अनेन जलपानेन मानवः ज्वरबाधितः भवति इति । अतः मानवः गङ्गाजलं पुण्यभावनया आबहोः कालत् तीर्थम् इव किञ्चिदेव पिबन् जीवति । भारतीयसर्वकारेण गङ्गापुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति । किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः न भवेम तावत् समस्या भवति एव । गङ्गनदीतीरप्रदेशे विद्यमानानि यन्त्रागारस्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः । सार्वजनिकाः व्यर्थवस्तूनी नद्यां न प्रक्षेपयेयुः । नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः । एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने च गभीरक्रमः पालनीयः भारतसर्वकारेण । एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण शतशतमानकालं तिष्ठेत् । तुङ्गतरङ्गे गङ्गे । वन्दे गङ्गामातरम् ।
|
|||||||
|
|
|||||||