गङ्गूबायी हानगल्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गङ्गूबायी हानगल्
Gangubai Hangal.jpg
व्यैक्तिकतथ्यानि
जन्मनाम गङ्गूबायी हानगल्
मूलतः हुब्बळ्ळी, कर्णाटकराज्यम् भारतम्
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम् ।
वृत्तिः गायिका, साङ्गीतशिक्षिका च ।
वाद्यानि गायिका ।
सक्रियवर्षाणि क्रि.श. १९२६तः क्रि.श.२००८।




क्रि.श.१९३५तमे वर्षे गीतम्

गङ्गूबायी हानगल् (जीवितकालः क्रि.श. १९१३तमवर्षस्य मार्चमासस्य ५दिनाङ्करः तः क्रि.श. २००९पर्यन्तम् ) महोदयायाः जन्म हावेरीमण्डलस्य हानगल् इति ग्रामे किन्तु बाल्यं तु धारवाडनगरे व्यतीतम् । अस्याः पिता किक्कूराव् नादगीर्, माता अम्बाबायी च । नरगुन्दे निवसन्तौ अस्याः पितामह्याः पितामहः नरगुन्द बाबासाहेबस्य प्रशशासने न्यायालयस्य मुन्शीपः आसीत् । ब्रिटिश् दुस्साम्राज्यं विरुध्य यदा बाबासाहेबः युद्धं घोषितआन् तदा सः ब्रिटिश् हस्तच्युतः हनगल्ग्रामम् आगत्य न्यवसत् । अतः अस्या वंशस्य नाम हानगल् इति अभवत् । गङ्गूबायी हानगल् स्वस्य पूर्णेजीवने द्विवारं नाम परिवर्तितवती । अस्याः मूलं नाम गान्धारी हानगल् इति । सङ्गीतवलये प्रिसिद्धेः पश्चात् गङ्गूबायी हुब्ळीकर् इति परिचयः अभवत् । क्रि.श.१९३६तमवर्षः अस्याः सङ्गीतयात्रायाम् अत्यमूल्यः समयः । तस्मिन् एव वर्षे 'मिया की मल्हार् ' रागस्य प्रसारम् आकाशवाण्या करणावासरे गङ्गूबायी हानगल् इति उद्घोषितवन्तः । पूर्वजानां स्थानस्य स्मरणं भवति इति धिया गङ्गूबायी अपि सम्मतिं दत्तवती ।

बाल्यं शिक्षा च[सम्पादयतु]

गङ्गूबायी हानगल् महोदयायाः प्राथमिकी शीक्षाः धारवाडमण्डलस्य केन्द्रस्थाने धारवाडनगरे आलूरु वेङ्कटरायवर्येन स्थापितस्यां राष्ट्रियशालायां पञ्चपकक्ष्यापर्यन्तम् अभवत् । सर्वकारीयशालाछात्राः " देवरु नम्म ई धीरोदात्तावर रक्षिसलिदोरेगळनु " इति यदा गायन्ति स्म तदा इते राष्ट्रियशलाछात्राः "मातृभूमि निन्न चरण सेवेयनु मावुवा", "वन्दे मातरम् " इत्यादीनि देशभक्तिगीतानि गायन्ति स्म । क्रि.श. १९२४तमे वर्षे बेळगाविनगरे यदा राष्ट्रियकङ्ग्रेस् अधिवेशनम् प्रचलति स्म । तदा एषा महात्मा गन्धिं स्वागतीकर्तुं " स्वागतवु स्वागतवु सकल जनसङ्कुलके " इति गीतं गीतवती महात्मा अपि प्रशंसतिवान् ।

सङ्गीतविद्या[सम्पादयतु]

गङ्गूबायी हनगल् माता अम्बाबयी कर्णाटकसङ्गीते गायिका । तदानीन्तकलस्य ख्याता [हिन्दुस्तानीसङ्गीतम्[|हिन्दुस्तानीगायिका]] हीराबायी बडोदेकर्, अब्दुल करीमखान्, च धारवाडनगरम् आगतवन्तौ अम्बाबायीगृहं गत्वा गानं श्रुत्वा निर्गच्छतः स्म । बालिकायाः गङ्गायाः अपि गानम् इच्छतः स्म । अतः अम्बायाः इच्छा अभवत् यत् अहं पुत्र्यै हिन्दुस्तानीसङ्गीतशिक्षां दापयिषामि इति । अतः सा धारवाडतः वासं हुब्बळ्ळि पत्तनाय परिवर्तितवती । आरम्भिकसङ्गीतशिक्षां गङ्गूबायी तत्तोपन्त देसयीतः, कृष्णाचार्य हुलगूरतः च प्राप्तवती पश्चात् सुप्रसिद्धं किराणघणस्य गायकं सवायि गन्धर्वं नम रामभावु कुन्दगोळकरम् अश्रित्य सङ्गीताध्ययनम् अकरोत् । कर्णाटकसङ्गीतस्य प्रभावः पुत्र्याः हिदुस्तानी शैल्यां न भवेत् इति कारणेन अम्बाबायी गानम् एव स्थगितवती । एतादृशी त्यागमही माता क्रि.श.१९३२तमे वर्षे दिवङ्गता । एतस्मात् आघातात् बहिरागमनात् पूर्वमेव अचिरात् पिता चिक्कूरायः अपि इहलोकम् अत्यजत् ।

स्वरयात्रा[सम्पादयतु]

क्रि.श.१९२९तमे वर्षे हब्बळ्ळिपत्तनस्य गुरनाथ कौलगि इत्यनेन परिणिता गङ्गूबायी क्रि.श.१९३२तमे वर्षे एच्.एम्.वि.ग्रामफोन् सङ्गीतध्वनिमुद्रणस्य समवायस्य आह्वानम् अङ्गीकृत्य मुम्बैनगरं गतवती । ततः अस्याः सङ्गीतदिग्विजयस्य आरम्भः अभवत् । मुम्बैनगरे सङ्गीतगोष्ट्याः प्रचारावसरे अस्याः नाम गङ्गूबायी हुब्ळीकर् इति प्रकाशितम् । तया आक्षिप्ताः सङ्घटकाः गान्धारी हानगल् इति परिष्कृतवन्तः किन्तु मुम्बै आकाशवाण्या तु गङ्गूबायी हालगल् इत्येव अस्याः नाम उद्घुष्टम् । अस्याः गानशैलीं माधुर्यं सामर्थ्यं च बडे गुलाम अलि खानः, उस्ताद् फयाज़् खानः, पण्दित ओङ्कारनथः, उस्ताद् बिस्मिल्ला खानः इत्यादयः तत्कालीनाः विश्रुतसङ्गीतपण्डिताः इष्ट्वा प्राशंसन् । ख्याताभिनेत्र्याः मातुः जद्दनबायी इत्याख्यायाः प्रोत्साहेन एव गङ्गूबायी कोलकतानगरे प्रचालिते अखिलभारतसङ्गीतसम्मेलने भागम् अवहत् । आकाशवाणीकार्यक्रमान्, गानमुद्रिकाकार्याणि च अतिरिच्य सङ्गीतगोष्ठ्यः अपि प्रारभत ।

जीवनयात्रा[सम्पादयतु]

अस्याः सङ्गीतयात्रा सोत्सहम् एव सञ्चलन्ती आसिदपि जीवनयात्रायाम् अनेकाः उपरोधाः आगताः । कृष्णा, बाबु, नारायणः इति अपत्यानां संवर्धनकाले पत्युः गुरुनाथस्य उद्यमव्यवहारे नष्टम् अनुभूतवान् । अनेन कारणेन कृतं ऋणं वृद्ध्या चक्रवृद्ध्या च अतीव महत् सञ्जातम् । वित्तकोशस्य विकल्पे कश्चित् सङ्गीताभिमानी गृहं क्रीत्वा सुदैवात् एतस्मै कुटुम्बाय एव समर्पितवान् । क्रि.श. १९६६तमे वर्षे गङ्गूबायी यदा सङ्गीतार्थं देहलीं गतवती तदा एव पतिः कौजलगी गतासुः अभवत् । \

विदेशयात्रा[सम्पादयतु]

गङ्गूबायी सङ्गीतगोष्ठ्यः सञ्चालयती आसेतु हिमाचलं समचरत् । सर्वत्र शोतॄणां मनांसि विजितवती । क्रि.श. १९५८तमे वर्षे नेपालदेशे क्रि.श. १९६१तमे वर्षे पाकिस्तानदेशे, क्रि.श. १९७९तमे वर्षे अमेरिकादेशे,केनडादेशे, क्रि.श. १९८४तमे वर्षे जर्मनिदेशे, फ्रान्सदेशे, सङ्गीतप्रवासं कृतवती । भारतीयसङ्गीतस्य रुचिं विविधदेशेषु दर्शितवती । गुरोः सवायिगन्धर्वस्य नाम्नि प्रतिवर्षं सङ्गीतोत्सवं चालयति स्म ।

शिष्यवृन्दः[सम्पादयतु]

गङ्गूबायी स्वस्य सङ्गीतविद्यां शिष्येभ्यः अपि समर्पितवती । कृष्णा (पुत्री अपि) सीता हिरेबेट्ट, सुलभा नीरलगी, नागनथः च अस्याः प्रसिद्धाः शिष्याः ।

प्रशास्तिपुरस्काराः[सम्पादयतु]

  • क्रि.श. १९६२ - कर्णाटकराज्यस्य सङ्गीतनाटकाकादमीप्रशस्तिः ।
  • क्रि.श. १९७१ - पद्मभूषणप्रशस्तिः ।
  • क्रि.श. १९७२ - केन्द्रसर्वकारस्य केन्द्रसङ्गीतनाटककादमीप्रशस्तिः ।
  • क्रि.श. १९८४ - मध्यप्रदेशसर्वकारस्य तानसेनप्रशास्तिः ।
  • क्रि.श. १९८७ - रूहे गज़ल् प्रशस्तिः ।
  • क्रि.श. १९८९ - हफीझ अलिखानप्रशस्तिः ।
  • क्रि.श. १९९० - भुवालिका प्रशस्तिः ।
  • क्रि.श. १९९२ - कर्णाटकसर्वकारस्य कनकपुरन्दरप्रशस्तिः ।
  • क्रि.श. १९९३ - सुजनगौरवपुरस्कारः ।
  • क्रि.श. १९९३ - गोदावरीप्रशस्तिः ।
  • क्रि.श. १९९३ - अस्सामसर्वकारस्य श्रीमान् शङ्करदेवप्रशस्तिः ।
  • क्रि.श. १९९४ - ९५ - सङ्गीतरत्न टि.चौडय्यस्मारकप्रशस्तिः ।
  • क्रि.श. १९९७ - दीननाथमङ्गेशकर् प्रशस्तिः ।
  • क्रि.श. १९९७ - गानयोगि पञ्चाक्षरि प्रशस्तिः ।
  • क्रि.श. १९९७ - वरदराज आद्यप्रशस्तिः ।
  • क्रि.श. १९९८ - माणिकरत्नप्रशस्तिः ।
  • २००० - एस्.आर्. पाटीलप्रतिष्ठानप्रशस्तिः ।
  • २००० - आचार्य पण्डितरामनारायणप्रतिष्ठानप्रशस्तिः ।
  • बेगम् अक्तर् प्रशस्तिः ।
  • काशी नागरी प्रचारिकासभाप्रशस्तिः ।
  • क्रि.श. १९७६ - धारवाडस्य कर्णाटकविश्वविद्यालयस्य डाक्टरेट् प्रशस्तिः ।
  • क्रि.श. १९९५ - हम्पि कन्नडविश्वविद्यालय नाडोजप्रशस्तिः ।
  • क्रि.श. १९९८ - देहलि विश्वविद्यालयस्य डाक्टरेट् प्रशस्तिः ।
  • गुल्बर्गाविश्वविद्यालयस्य डाक्टरेट् प्रशस्तिः ।
  • प्रयागसङ्गीतसमितेः पदवी ।
  • गन्धर्व महाविद्यालयस्य महामहोपाध्यायपदवी ।
  • केन्द्रसर्वकारस्य सङ्गीतनाटकाकादमी प्रशस्तिः ।
  • क्रि.श. १९४८ - बनारस्तः भारतीकण्ठः इति अभिधानम् ।
  • क्रि.श. १९६९ - प्रयातः स्वरशिरोमणिः इति अभिधानम् ।
  • बेङ्गळूरुगायनसमाजतः सङ्गीतकलारत्नम् इति अभिधानम् ।
  • तिरुपतितौ त्यागरजोत्सवसमितितः सप्तगिरिसङ्गीतविद्वन्मणिः इति अभिधानम् ।

सम्भावनाग्रन्थः[सम्पादयतु]

क्रि.श. १९८८तमे वर्षे गङ्गूबायी हानगल् यदा ७५वर्षीया अभवत् तदा अस्याः नाम्नि सम्भावनाग्रन्थः डा.एस्.एस्.गोरे प्रकाशकत्वेन प्रकाशितः । अस्मिन् एव अवसरे डा.विजया मुळे इत्येषा गङ्गूबायीविषये साक्ष्यचलच्चित्रमेकं निर्मितवती ।

राजनीतिः[सम्पादयतु]

गङ्गूबायी हानगल् कर्णाटकस्य विधानपरिषदि नामाङ्कितसदस्या आसीत् ।

जीवनदर्शनम्[सम्पादयतु]

गङ्गूबायी यदा राष्ट्रियशालायाः विद्यार्थिनी आसीत् तदा वरकविः द.रा.बेन्द्रेमहोदयः अस्याः गुरुः आसीत् । एषः गुरुशिष्यसम्बन्धः बेन्द्रेवर्यस्य जीवनान्तम् अपि आसीत् । बेन्द्रेकविवर्यस्य एकं गीतं गङ्गायाः जीवनदर्शनम् इत्यपि वक्तुं शक्यते । यथा...

एन्न् अपादेनगिरलि, अदर हावन्नष्टे नीडुवेनु रसिक निनते ।
कल्लुसक्करेयन्थ निन्नेदेयु करगिदरे आ सविय हणिसु ननगे ॥

अन्तिमयात्रा[सम्पादयतु]

हृदयसम्बद्धपीडया श्वाससमस्यया दीर्घकं परितप्ता गङ्गूबायी स्वस्य ९७तमे वयसि क्रि.श. २००९तमवर्षस्य जुलैमासस्य २१दिनाङ्के हुब्बळ्ळि लैफ् लैन् चिकित्सालये इहयात्रां समापितवती । एतस्याः गौरवार्थं हुब्बळ्ळिधारवाडनगरयोः शालानाम् एकदिस्नस्य विरामः उद्घुष्टः आसीत् ।

अपूरितेच्छा[सम्पादयतु]

प्राथमिकशिक्षायाः पाठ्यपुस्तकेषु शास्त्रीयसङ्गीस्य विषयः अनुस्थापनीयः इति अस्याः आशयः आसीत् । बहुवारः सर्वकारस्य विविधमन्त्रिषु आग्रहम् अपि कृतवती । कर्णाटकसर्वकारस्य वचनानुगुणम् उणकल् समीपे गुरुकुलसङ्गीतविद्यालयस्य निर्माणकार्यम् आरब्धम् । किन्तु स्वस्य नाम्नि निर्मितशालायाः छात्रान् आशीर्वदामि इति अस्याः आशयः स्वप्ने एव अवसत् ।


"http://sa.wikipedia.org/w/index.php?title=गङ्गूबायी_हानगल्&oldid=236337" इत्यस्माद् पुनः प्राप्तिः