गढवाल् हिमालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गढवाल् हिमालयः
गढवाल् हिमालय पर्वताः
गढवाल् हिमालय पर्वताः

गढवाल् हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम्। उत्तराञ्चलराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते। प्रपातेषु सदा शीतलं जलं प्रवहति। तृणावृतानि समतलानि आकर्षकानि भवन्ति। गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति। अत्रैव चमोली, पौरिगढवाल्, टिहरीगढवाल्, देहरादून् च मण्डलानि सन्ति। गढवाल् प्रवासिजनानां स्वर्गमिति कथयन्ति। अत्र यात्रा साहसिकानामेव साध्या। पर्वतारोहिणाम् उत्साहः भवति। जलक्रीडासु जनाः मग्नाः भवन्ति। "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति। पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति। नन्दादेवी अत्युन्नतः पर्वतः अस्ति। अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति। तुषारावृतप्रदेशे धावनमपि अत्र साहसीजनानाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति। हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि। प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति।

मार्गः[सम्पादयतु]

देहरादून् गढवाल् हिमालयस्य प्रवेशाय प्रवेशद्वारम्।

"https://sa.wikipedia.org/w/index.php?title=गढवाल्_हिमालयः&oldid=393053" इत्यस्माद् प्रतिप्राप्तम्