गान्धिजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गन्धीजयन्ती
गन्धीजयन्ती
दिनाङ्कः दिनाङ्कः अक्टोबर् मासस्य
रीतयः ऐतिहासिक आचराणम्
सम्बद्धम् गणतन्त्रदिनम्
स्वातन्त्र्यदिनम्

श्रीमोहनदासकरमचन्दगान्धिमहोदयः भारतस्य राष्ट्रपिता इति प्रसिद्धः अस्ति । एतस्य जन्मदिनम् अक्टोबरमासस्य द्वितीयदिवसे गान्धिजयन्ती इति आचरन्ति । न केवलं भारते विश्वेऽपि गान्धिजयन्ती आचरणं प्रचलति । अहिंसा, सत्याग्रहः, ग्रामोध्दारः, प्रकृतिचिकित्सा इत्यादिभिः गान्धिमहाभागः विश्वमान्यः आसीत् । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।

"https://sa.wikipedia.org/w/index.php?title=गान्धिजयन्ती&oldid=479276" इत्यस्माद् प्रतिप्राप्तम्