गिरनारपर्वतः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गिरनारपर्वतः
गुजरातराज्यस्य उन्नततमः पर्वतः
Girnar
रूपायतन-तः गिरनारपर्वतस्य दृश्यम्
उत्तुङ्गता १,०३१ m (३,३८३ ft)
स्थानम्
स्थानम् भवनाथः, जुनागढ,  भारतम्
Coordinates 21°29′41″N 70°30′20″E / 21.49472°N 70.50556°E / 21.49472; 70.50556Coordinates: 21°29′41″N 70°30′20″E / 21.49472°N 70.50556°E / 21.49472; 70.50556

गिरनारपर्वतः (गुजराती: ગિરિનાર પર્વત, आङ्ग्ल: Girnarआङ्ग्लः) गुजरातराज्यस्य पश्चिमभागे जुनागढमण्डले अस्ति । गुजरातराज्यस्य उन्नततमः पर्वतः गिरनारपर्वतः पञ्चशिखराणि स्वस्मिन् धरति । तानि - गोरखशिखरम्, अम्बाजीशिखरम्, गोमुखशिखरम्, जैनमन्दिरशिखरम्, माळीपरबशिखरम् च । एतानि शिखराणि क्रमेण ३३०० मी., ३६०० मी., ३१२० मी., ३३०० मी., १८०० मी. च उन्नतानि सन्ति । अस्य पञ्चशिखरेषु ८६६ मन्दिराणि सन्ति । प्रस्तरैः निर्मितः सोपानमार्गः एकस्मात् शिखरात् अन्यत् शिखरं प्रति सम्प्रापयति । एवं प्रसिद्धिरस्ति यत् तत्र ९,९९९ सोपानानि सन्ति । परन्तु सोपानसङ्ख्याविषये बहूनां जनानां मान्यता भिन्नापि श्रूयते । प्रतिवर्षं गिरनारपर्वतप्रदक्षिणार्थं लक्षाधिकाः भक्ताः गच्छन्ति । प्रतिवर्षं तत्र गिरनारारोहणस्पर्धा अपि भवति ।

इतिहासः[सम्पादयतु]

सौराष्ट्रे मौर्यवंशस्य इतिहासः उज्वलः अस्ति । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. ३२२ तमे वर्षे सौराष्ट्रं जित्वा अत्र स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त । कालांशे अत्र अनेकैः राजभिः राज्यं कृतम् । तेषु राज्ञा कुमारपाळेन गिरनारारोहणाय व्यवस्थितानि सोपानानि ई.स. १५५२ मध्ये निर्मापितानि । अत्र 'उपरकोट'स्थलस्य दुर्गः अपि दर्शनीयं स्थलमस्ति । 'उपरकोट'स्थलस्य दुर्गः राज्ञा ग्रहरिपुणा निर्मितः । एषः दुर्गः बहु सत्तापरिवर्तनं दृष्टवान्, तद्विषये सर्वोत्कृष्टा वा रोचकी कथा वर्तते यद् उपरकोटस्य दुर्गे यदा राज्ञः राखेङ्गारस्य शासनम् आसीत्, तदा सिद्धराजजयसिंहः राखेङ्गारं हत्वा तस्य राज्ञीं राणकदेवीं बलेन हृत्वा गच्छन् आसीत् । तस्मिन् समये राणकदेवी गिरनारपर्वतं उक्तवती –

ગોઝારા ગિરનાર, વળામણ વેરીને કિયો ?

મરતા રા'ખેંગાર, ખડેડી ખાંગો ન થિયો ?

अर्थात् - हे गिरनारपर्वत ! शत्रूणामाक्रमणे राखेंगारः मृतः तथाऽपि त्वं न पतितः ? एतद् श्रुत्वा गिरनारपर्वतस्य पतनमारब्धम् ।

गिरनारपर्वतं पतन्तं दृष्ट्वा राणकदेवी उक्तवती –

પડમા પડમા મારા આધાર

अर्थात् - मा पत, मा पत मे आधार !

तस्मिन्नेव काले पतनं स्थगितं, परन्तु याः शिलाः पतितुम् अनमन्, ताः तत्राद्यापि नमिता एव दृश्यन्ते । 'ऊपरकोट'भागे एताः शिलाः दर्शनीयाः सन्ति ।

गिरनारपर्वतस्त परिक्रमः[सम्पादयतु]

पर्वतं परितः ३६ कि.मी. परिमितस्य लम्बमानः चतुर्दिनानां परिक्रमः भवति, यः कार्तिकमासस्य शुक्लपक्षस्य एकादशीतः पूर्णिमापर्यन्तं चलति । इयं परिक्रमपरम्परा चिरकालात् साम्प्रति प्रचलन्ती वर्तते । एषा परिक्रमपरम्परा कदा आरब्धा इति तु निश्चितं नास्ति । परन्तु प्रारम्भिके काले केवलं सन्यासिनः एव परिक्रमं कुर्वन्ति स्म । कालान्तरं गृहस्थाः अपि आरभन्त । पूर्वस्मिन् काले केवलं भजनं कुर्वन्तः सर्वे परिक्रमं कुर्वन्ति स्म । परन्तु अधुना मार्गे भोजनादीनामपि व्यवस्था भवति । एतदर्थं सामाजिकसंस्थाद्वारा अन्नक्षेत्राणि अपि चाल्यन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गिरनारपर्वतः&oldid=253030" इत्यस्माद् पुनः प्राप्तिः