गिरिमल्लिकावृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गिरिमल्लिकावृक्षः
गिरिमल्लिका पुष्पः
गिरिमल्लिका पुष्पः
गिरिमल्लिकावृक्षः पत्रम्
गिरिमल्लिकावृक्षः शाखा
गिरिमल्लिकावृक्षः शाखा
गिरिमल्लिकावृक्षः पत्रम्
गिरिमल्लिकावृक्षः
गिरिमल्लिकावृक्षः
गिरिमल्लिकावृक्षः पत्रम्
गिरिमल्लिकावृक्षः
गिरिमल्लिकावृक्षः


अस्य सस्यशास्त्रीयं नाम भवति होलर्र्हेन एण्टिडैसेण्ट्रिका इति । इन्द्रकालिङ्गः इति अस्य नामान्तरम् । अस्य कुटुम्बः अपोसैनेसि इति । भारतस्य नित्यहरिद्वर्णकाननेषु नितरां रोहति ।

अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
आङ्ग्लम् - दि ईस्टर् ट्री, कोनेस्सि बार्क् । Cauch Tree, Black cauchu
कन्नडम् - कोडमुरक, हलगत्तिमर, तोडचग, बेप्पाले । ಕೊಡಮುರಕ, ಹಲಗತ್ತಿಮರ, ತೊಡಜಗ, ಬೆಪ್ಪಾಲೆ |
हिन्दी - कुर्चि, धुदि ।
तमिळु - वेपलि । வெபபி|
तेलुगु -कोडग । కొడగ।
मराठि - कुड, कोडग फंडरकुड ।
मलयाळम् - कुट्टुकप्पुल, कुडिजि । കുട്ടുകപ്പുല, കുഡിജി |

अयं गिरिमल्लिकावृक्षः कश्चित् लघुवृक्षः ३मी.पर्यन्तं वर्धते ।अस्य मन्दभस्मवर्णीयां त्वचि छेदरेखाः भवन्ति । अभिमुखसंयुक्तानि पर्णानि १०-२०से.मी दीर्घाणि १२से.मी.विशालनि तीक्ष्णहरिद्वर्णीयानि च भवन्ति । शाखायाः अन्ते एव पुष्पगुच्छानि जायन्ते । पुष्पदलमण्डलं प्रणाल्याकारे भवति । पुष्पानां वर्णः शुक्लः । ३.५से.मी. दीर्घः परागाशयः भवति । गिरिमल्लिकावृक्षाः मार्चमासतः मेमासस्य अवधौ कुसुमिताः भवन्ति । मुरुङ्गीफलमिव सुदीर्घं किन्तु यमलफलम् अस्य वृक्षस्य विशेषः । फलान्तर्गतस्य बीजस्य वर्णः पिङ्गलः । अस्य दीर्घबीजस्य उपरि चीनांशुकः इव केशाः सन्ति । अस्य वृक्षस्य वंशप्रसारः बीजैः एव भवति ।

उपयोगाः[सम्पादयतु]

उद्यानस्य शोभां वर्धयितुं गिरिमल्लिकावृक्षान् आरोपयन्ति । अस्य वल्कलानि बल्योत्पादने उपयोजयन्ति । ज्वरः अतिसारः मूलव्याधिः इत्यादिरोगशमनार्थं वैराणुनाशार्थम् उपयुज्यते । आस्तमारोगस्य कामलारोगस्य च निवारणस्य औषधेषु अस्य बीजानि वल्कलानि च उपयोगाय भवन्ति । उत्कीर्णताकार्ये पिठोपकरणनिर्माणे च सस्य दरुणाम् उपयोगः भवति ।

"https://sa.wikipedia.org/w/index.php?title=गिरिमल्लिकावृक्षः&oldid=391996" इत्यस्माद् प्रतिप्राप्तम्