गिरीश कार्नाडः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गिरीश रघुनाथ कार्नाडः
ಗಿರೀಶ ಕಾರ್ನಾಡ
जननम् मई १९, १९३८ (1938-05-19) (वयः ७६)
माथेरान्, महाराष्ट्रम्
वृत्तिः Playwright, Film Director, Film actor, Poet
राष्ट्रीयता Indian
अल्मा मॆटॆर् University of Oxford
प्रकारः Fiction
साहित्यकान्दोलनम् Navya
प्रमुखकृतयः Tughalak 1964
Taledanda

गिरीशरघुनाथकार्नाडः (जननम् - मे मासस्य १९, १९३८) कर्णाटकस्य सप्तमः ज्ञानपीठप्रशस्तिविजेता । सः कन्नडसाहित्यस्य नाटकक्षेत्रे लेखकः । भारते दृश्यकाव्यरचनायां ज्ञानपीठप्रशस्तिविजेतृषु कार्नाडः एव प्रथमः ।

ज्ञानपीठप्रशस्तिस्वीकरणसमये कार्नाडः सौजन्येन अवदत् - "प्रशस्तिं स्वीकर्तुं मराठीलेखकः विजयतेण्डूल्करः एव अर्हः" इति । एतत् तस्य उन्नतव्यक्तित्वं दर्शयति । इतरासां भारतीयभाषाणां सम्पर्कः तस्य सम्यक् आसीत् इत्यतः तं सांस्कृतिकवक्ता इति वक्तुं शक्नुमः। प्रारम्भे रङ्गभूमिनटः आसीत् । नूतनान् आयामान् चिन्तयन् दृश्यकाव्यं(नाटकम्) रचनीयम् इति चिन्तितवान् । अतः पुराणेतिहासयोः वास्तवाधारितरूपं तस्य नाटकेषु प्रकटितम् अभवत् ।

जीवनम्[सम्पादयतु]

गिरीशकार्नाडः महाराष्ट्रस्य माथेरान्ग्रामे जन्म प्राप्तवान् । तस्य मातापितरौ कृष्णाबाई, डा. रघुनाथः । रघुनाथस्य विवाहानन्तरम् अल्पकाले तस्य भार्या दिवङ्गता । अनन्तरं कृष्णाबायी नामिकां विधवाकन्याम् ऊढ्वा विरोधिनां सम्मुखीकरणं कुर्वन् धैर्येण जीवनं कृतवान् । लोके आदर्शम् अनुसरन् प्रगतिपरं जीवनम् अयापयत् । एवमेव गिरीशकार्नाडः अपि प्रगतिपरवातावरणे प्रवृद्धः ।

गिरीशस्य प्राथमिकशिक्षणम् उत्तरकन्नडमण्डले, शिरसिग्रामे अभवत् । प्रौढशिक्षणं धारवाडस्य बासेल्-मिशन्-प्रौढशालायां, तथा पदविशिक्षणं कर्णाटकमहाविद्यालये अभवत् । अनन्तरं "रोडिस् स्कालर्शिप्" नामकं छात्रवृत्तिं प्राप्य आक्स्फर्डविश्वविद्यालये उन्नतशिक्षणं प्राप्तवान् । कार्नाडः आक्स्फर्डचर्चागोष्ठ्याः अध्यक्षरूपेण चितः प्रथमः एषियाखण्डीयः।

तस्य अध्ययनं, चर्चाशैलीं च ज्ञात्वा देशीयाः विदेशीयाः च कार्नाडमहोदयं 'बुद्धिजीवी' इति घोषितवन्त: । बहुभाषापण्डितः सः शिकागो विश्वविद्यालये अतिथिप्राध्यापकः इति सेवां कृतवान् । विदेशे स्थित्वा कन्नडनाटकानां पठनं, प्रदर्शनं कर्तुं साहाय्यम् अकरोत् । कन्नडं विहाय हिन्दी-पञ्जाबी-मराठीभाषया तस्य नाटकानि भाषान्तरितानि प्रदर्शितानि च सन्ति । इतरभाषासु प्रसिद्धिं प्राप्तवत्सु नाटककारेषु कन्नडस्य एषः नाटककारः एव प्रथमः । आक्स्फर्डतः आगमनानन्तरं मद्रास्-नगरे उद्योगम् अकरोत् । ततः धारवाडम् आगत्य तेन नाटकक्षेत्रे कार्यम् अनुवर्तितम् ।

नाटकरचनाः[सम्पादयतु]

कार्नाडस्य प्रथमा कृतिः "ययाति"नाटकम्। एतत् नाटकं धारवाडस्य मनोहर ग्रन्थमालया प्रकाशितम् । अनन्तरं "तुघलक्", "हयवदन" इत्येते नाटके च प्रकटितौ । एतन्मध्ये सः पुणे-फिल्म्-इन्स्टिट्यूट्- निर्देशकः आसीत् । पुनः तत् त्यक्त्वा मुम्बयीनगरम् आगत्य सः चलनचित्रे अभिनयम् अकरोत् । तदपि त्यक्त्वा पुनः बेङ्गलूरुनगरम् आगतवान् । अग्रे तेन रचितानि नाटकानि "अञ्जुमल्लिगे", "नागमण्डल", "तलेदण्ड", "अग्नि मत्तु मळे" इति । तेन ब्रिटिश्- ब्राड्कास्टिंग् कृते लिखितं नाटकं "टिप्पुविन कनसुगळु" ।

चलच्चित्ररङ्गम्[सम्पादयतु]

"संस्कार"नामकं चलनचित्रं कन्नडस्य प्रथमं कलाचित्रम् इति प्रसिद्धम्। यु. आर्. अनन्तमूर्तीमहोदयस्य कादम्बर्याः आधारेण निर्मिते एतस्मिन् चलनचित्रे कार्नाडस्य प्रमुखपात्रं "प्राणेशाचार्य" इति । पि. लङ्केशस्य विरुद्धव्यक्तित्वम् । चित्रस्य निर्देशकः पट्टाभिरामरेड्डी इति । एतत् चित्रं कन्नडस्य कृते प्रथमं स्वर्णकमलम् अदापयत् । तदनन्तरं एस्. एल्. भैरप्पमहोदयस्य 'वंशवृक्ष'कादम्बरीम् अधारीकृत्य बि.वि. कारन्तस्य सहयोगेन 'वंशवृक्ष'चित्रं निर्देशितवान् । एतेन चित्रेण राष्ट्रिय-अन्ताराष्ट्रियस्तरे च पुरस्कारः प्राप्तः । अग्रे "तब्बलियु नीनादे मगने", "काडु", "ओन्दानोन्दु कालदल्लि" चित्राणि निर्देशितवान्। अनन्तरम् "उत्सव", "गोधूळी" इति हिन्दी चित्रे निर्देशितवान् ।

राष्ट्रकवेः कुवेम्पुमहोदयस्य 'कानूरू सुब्बम्म हेग्गडति' कादम्बरीम् अधारीकृत्य "कानूरू हेग्गडति" चित्रं निर्देशितवान् । एतेन चित्रेण राज्यप्रशस्तिः राष्ट्रियः पुरस्कारः च प्राप्तः । पनोरमापुरस्कारार्थम् अपि एतस्य चयनम् आसीत् ।

एतदतिरिच्य "कनक-पुरन्दर", "द. रा. बेन्द्रे", "सूफिपन्थ" नामकानि साक्ष्यचित्राणि निर्देशितवान् । परिसरविनाशविषये "चेलुवि" नामकं लघुचित्रं निर्देशितवान् । २००७ तमे वर्षे "आ दिनगळु" चलनचित्राय अग्निश्रीधरस्य सहयोगेन चित्रकथां लिखितवान् ।

गौरवं प्रशस्तिः च[सम्पादयतु]

कर्नाटकविश्वविद्यालयः कार्नाडस्य साहित्यचलनचित्रसेवां परिगणय्य 'गौरवडाक्ट्रेट्'पदवीं दत्वा सम्मानम् अकरोत् । "कार्नाडस्य वस्तुग्राह्यक्रमे एव अनन्यता अस्ति। अस्याः ग्राहिकायाः पूरकरचनाक्रमं सः चिन्तितवान् । कामपि समस्यां स्वीकृत्य नाटकरूपेण दर्शने एव नाटककारस्य यशः, अपयशः च अवलम्बेते" इति निर्देशकः बि. वि. कारन्तः वदति स्म । कार्नाडस्य कर्नाटकराज्यप्रशस्तिः गुब्बिवीरण्णा प्रशस्तिः, केन्द्र-सङ्गीत-नाटकाकादेमी-प्रशस्तिः, प्रतिष्ठिता पद्मश्रीप्रशस्तिः, पद्मभूषणप्रशस्तिः, ज्ञानपीठप्रशस्तिः च प्राप्ताः सन्ति । सद्य कार्नाडः केन्द्र-सङ्गीत-नाटक-अकाडेमीसंस्थायाः अध्यक्षरूपेण कार्यनिर्वहणं करोति । "इंग्लेन्ड्देशे नेहरू- सेंटर"इत्येतस्याः संस्थायः निर्देशकरूपेण कार्यनिर्वहणम् अकरोत् ।

"http://sa.wikipedia.org/w/index.php?title=गिरीश_कार्नाडः&oldid=261999" इत्यस्माद् पुनः प्राप्तिः