गीतगोविन्दम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

परिचयः[सम्पादयतु]

संस्कृतसाहित्यपरम्परायां गीतिकाव्यपरम्परा अस्ति अन्यतमा । गीतिकाव्यस्य प्रवर्तकः गीतगोविन्दकारः जयदेवः । गीतगोविन्दं द्वादशसर्गात्मकं खण्डकाव्यम् । अत्र चरितं न वर्ण्यते इत्यतः इदं सर्वथा काव्यकोटौ न आयाति चेदपि वर्णनपरखण्डकाव्यत्वं स्वीकर्तव्यमेव । केचित् आधुनिकाः गीतगोविन्दं गीतनाट्यं मन्यन्ते । यद्यपि इदं द्वादशशताब्द्यां निरमीयत तथापि इदं परिपक्वताम् उपयास्यतः नाट्यस्य उदाहरणस्वरूपतया प्रथमं निदर्शनं मन्तव्यम् । तदीया परम्परा वङ्गेषु उत्कलेषु च सम्प्रति अपि जीवति ।

गीतगोविन्दताडग्रन्थः १५५०

स्वरूपम्[सम्पादयतु]

सरसमधुरकवितायाः पराकाष्ठा अत्र निदर्शिता भवति । यदि भक्तिसरसकवितां च सहृदयः अपेक्षते तर्हि जयदेवसरस्वतीं शृणु इति कथयति जयदेवः –

यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ इति ।

अपूर्वाणाम् उपमानाम् उत्प्रेक्षाणां प्रयोगाः अत्र लभ्यन्ते । व्युत्पन्नैः सहृदयैः अस्य काव्यसौन्दर्यम् आस्वादयितुं यद्यपि शक्यते तथापि क्वचित् व्याख्यानमपि अपेक्ष्यते । संस्कृतसाहितीसरस्वत्याः अनर्घालङ्कारः शब्दलालित्यम् अर्थसौकुमार्यम् उभयमपि समप्राधान्यं सत् अत्युत्तमतया सम्मिलिता रमणीया कृतिरियम् । मधुरभक्तिमयं रूपकमिदं द्वादशशतकस्य उत्तरार्धे पुरीजगन्नाथक्षेत्रे प्रादुरास ।
दिव्यनायकयोः राधाकृष्णयोः यमुनातीरवनेषु शारदराकायां विहरणकेलिवर्णनम् अत्र कथावस्तु भवति । जयदेवकविः इदं चतुर्विंशत्याम् अष्टपदीषु मनोज्ञतया विस्तार्य नृत्यरूपकमिदं रचयामास । इदञ्च रूपकं स्वाभीष्टदैवाय श्रीजगन्नाथास्वामिने समर्पयामास ।

उद्देश्यम्[सम्पादयतु]

गीतिकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । ’यदि हरिस्मरणे सरसं मनः’ इति वचनानुसारं ’पद्मावतीचरणचारणचक्रवर्ती’ श्रीजयदेवः गीतगोविन्दकाव्यमधुररसास्वादयोग्यतालक्षणानि अन्तरङ्गमधुरमधुरम् आत्मप्रत्ययेन अभिवर्णयति । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यातिमिकश्च । तत्स्मरणमेव शरणम् । तत्स्मरणमपि हरिपर्यवसितम् । अत एव अत्यन्तम् उपादेयम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । सा च निरतिः कुतूहलञ्च पृथक् न भवेतां संश्लिष्येतां सन्निधीयेतां तदैव लोकहितौ भवेताम् । भौतिकं प्रतिवस्तु आध्यात्मिकतया समन्वयं करवाम सम्मेलयाम । तदेव निगमान्तपारिजातप्रसूनानि स्वसौगन्ध्यं प्रसारयति । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् ।

काव्यशैली[सम्पादयतु]

अष्टपदीनां माधुर्यम् आन्तरं कोमलत्वं बाह्यं कान्तत्वम् उभयधर्मी । एवं माधुर्यमेकतः कोमलत्वम् अपरतः कान्तत्वं सङ्घटयति । अन्योन्यम् अद्वितीयम् अनपायम् अप्यायनम् अनुबन्धं माधुर्यकोमलत्वमिथुनस्य प्राकाशयति कान्तता । अत्र व्यक्तः पुरुषोत्तमः । कोमला नायिका जीवरूपा, सखीरूपा कान्ता आचार्यस्थानीया । जीवेश्वरसमागमस्य पुरुषाकारभूता राधा । इदमेव गीतगोविन्दस्य रहस्यमिति प्रस्तावनाश्लोके एव जयदेवकविचन्द्रः काव्यार्थसूचनाम् आविष्करोति ।
अत्रत्यः शृङ्गारः लौकिको नास्ति । नापि काव्यसाधारणः पुनः अतिलोकरमणीयः । दिव्यं भक्तिरूपं दधत् मधुरोज्वलरसराट् अत्र परिपोषितः । तादृशम् उदात्तं गभीरं मधुरोज्ज्वलं कान्तकोमलम् अत्युत्तमम् अपूर्वम् अचिन्त्यदिव्याद्भुतं गीतगोविन्दमहाप्रबन्धम् आलङ्कारिकमर्यादाभिः नाट्यकोविदाभिनयैः जयदेवेन लिखितम् । आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलास इति कथने नास्ति संशीतिलेशः ।

राधां प्रेम्णा वीक्षमाणः कृष्णः

श्रीमन्नारायणस्य ध्याने अनुरक्तः विलासकलाकुतूहली जयदेवः सुकुमारसुमधुरपदभरितां कवितासरस्वतीम् आराध्य हरिस्मरणं राधाकृष्णप्रणयलीलाः विप्रलम्भशृङ्गारभरिताः कमनीयं कवयति । अस्मिन् राधा जीवात्मा, श्रीकृष्णश्च परमात्मा । जीवेश्वरयोः ऐक्यमेवात्र उपनिषत् । अत्र शृङ्गारः मधुरभक्तिमयः । काव्यमिदम् अभिनयानुकूलम् । स्वयं भार्यया सह स्वसखेन परमादरेण सह श्रीकृष्णाराधनतत्परः जयदेवः स्वयम् उल्लिखति -

विहितपद्मावतीसुखसमाजे ।
भणति जयति जयदेवकविराजराजे ॥ इति ।

काव्यान्तरङ्गम्[सम्पादयतु]

गीतगोविन्दे द्वादशसर्गाः सन्ति । सर्गस्थेषु श्लोकेषु चतुर्विंशतिसङ्ख्यकासु अष्टपदीषु च पदबन्धः मधुरकोमलः सहृदहृदयान् आवर्जयति । सुकुमारबन्धच्छाया अत्र दरीदृश्यते । ध्वनिप्रधानार्थविशेषाननदानुभूतीः गीतगोविन्दात् अनुभवामः । प्रतिपदं कृष्णभक्तिद्योतकम् । प्रतिभावगीति परमरमणीयम् । अत्र जीवेश्वरयोः ऐक्यमेव उपपादितमिति वेदान्तसन्देशात्मकं काव्यमिदमिति पण्डिताः अभिप्रयन्ति । हृदयस्पृशः यमकबन्धाः पञ्चानुप्रासाश्च गीतगोविन्दस्य आपातरमणीयताम् आदधाति । व्यङ्ग्यार्थवैभवेन अन्तरालोचनामृतं सङ्गीतसाहित्योभयसर्वस्वरसकन्दं गीतगोविन्दं जग्रन्थ महाकविः ।
अस्मिन् काव्ये अष्टपादसम्भरिताः चतुर्विंशतिः अष्टपद्यः द्वादशसर्गेषु व्यभज्यन्त । अत्र द्विनवतिश्लोकाः सन्ति । एतन्महाकाव्यं श्रीमद्भागवतवत् द्वादशधा विभक्तम् । अष्टाक्षरीमन्त्रतुल्यम् अष्टभिः पदैः सङ्घटितं गायत्रीमन्त्राक्षरवत् चतुर्विंशतिधा सङ्कलितम् । गेयकाव्यमिदं सङ्गीतनाट्यानुकूलम् । प्रतिगेयं भावशृङ्गारभरितं हृदयशृङ्गाररसिकं बोभूयते ।
सदा यमुनातीरे सिकताभरिते सैकते शीतलमारुते वीजीते मुरलिगानलोलं श्रीकृष्णं हृदये निधाय स्मारं स्मारं जयदेवः उन्मत्त इव कृष्णमन्वेषते । अत एव चञ्चलो विहरति । विश्वात्मकस्वरूपः श्रीकृष्णः राधागोविकास्त्रीजीवात्मभिः कृता रासक्रीडा केवला इन्द्रियरतिर्न भवति आत्मरतिरेव । परमात्मनः सर्वजीवकोटेश्च मध्ये निरन्तरमनुभूयमाना आत्मरतिः । अहङ्कारावृतां राधाम् आचार्यस्थानीया सखी वृन्दावने विहरतः श्रीकृष्णस्य वैभवं कथयन्ती तम् उपेहि इति प्रोत्साहयति ।
पद्मावतीचरणचारणचक्रवर्ती जयदेवः राधामाधवतत्त्वम् उपास्य पद्मावत्यां नृत्यन्त्यां गीतगोविन्दकाव्यं पूरयामास ।

गीतगोविन्दस्य व्याख्यानानि[सम्पादयतु]

गीतगोविन्दस्य अनेकानि व्याख्यानानि समुपलभ्यन्ते . गीतगोविन्दव्याख्यातृषु जयदेवस्य शिष्यः उदयनः अन्यतमः । गीतगोविन्दकाव्यं नैकासु भाषासु अनूदितम् । एड्विन् अर्नाल्ड् नामकः पण्डितः आङ्ग्लभाषया, रिक्कर्ट् नामकः जर्मन् भाषया, कोर्टेल्लियर् नामकः फ्रेञ्चभाषया गीतगोविन्दम् अनूदितवन्तः ।

व्याख्यानाम् आवश्यकता[सम्पादयतु]

’जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसम्मतोऽयं समयः मदोन्मतङ्गजैरिव भिन्नः ।’ इति साक्षात् जयदेवं तस्य गीतगोविन्दे राधाकृष्णयोः शृङ्गारवर्णनम् अनुचितमिति आक्षिप्यते । एवमादीनाम् आक्षेपाणां व्याख्यासाहाय्यम् अपेक्षितम् । तत्रापि व्याख्यात्रा सकलकलाविदा समस्तविद्यावता भवितव्यम् । अत एव गीतगोविन्दस्य नैकाः व्याख्याः प्रवृत्ताः ।

आधारग्रन्थाः[सम्पादयतु]

  • गीतगोविन्दम् - सर्वाङ्गसुन्दरीसंस्कृतटीकोपेतम्, प्रधानसम्पादकः आचार्य हरेकृष्ण शतपथी, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः
  • श्रीजयदेवविरचितं गीतगोविन्दम्, डा एन् एस् आर् अयङ्गारः, पेन्मान् प्रकाशकाः, शक्ति नगर्, देहली

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गीतगोविन्दम्&oldid=270139" इत्यस्माद् पुनः प्राप्तिः