गीताजयन्ती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

प्रतिवर्षं मार्गशिर्षमासस्य शुक्लपक्षस्य एकादशीदिनं ‘मोक्षदा’ ‘गीताजयन्ती’ ‘समर्पणदिनम्’ इति आचरन्ति । यतः अस्मिन्नेव दिने भगवान् श्रीकृष्णः अर्जुनं प्रति गीतोपदेशं कृतवान्। सम्पूर्णे देशे गीताजयन्तीं भक्त्या आचरन्ति । महाभारतस्य भीष्मपर्वणि कुरुक्षेत्ररणाङ्गणे कौरवपाण्डवयोः सैन्ये युध्दसन्नध्दे स्तः । कौरवाणां सैन्ये भीष्मपितामहः गुरु द्रोणाचार्यः, कर्णः, शकुनिः इत्यादयः आसन् । पाण्डवानां सैन्ये विराटमहाराजः दृपदः, इत्यादयः आसन् । अर्जुनः सर्वान् दृष्ट्वा खिन्नः अभवत् । श्रीकृष्णः एव अर्जुनस्य रथे सारथिः आसीत् । प्रथमम् उभयोः सेनयोः मध्ये रथं स्थापयितुम् अर्जुनः उक्तवान् आसीत् । किन्तु पितामहं, बन्धून् गुरुं श्वशुरं दृष्ट्वा हे कृष्ण अहं युध्दं न इच्छामि । बन्धुहत्या न सन्तोषाय । इति वदन् रथादवरुह्य अतीव दुःखितः अभवत् । तदा श्रीकृष्णः अर्जुनाय हितकरम् उपदेशं कृत्वा ‘कर्तव्यं कुरु’ इति यदुक्तवान् तदेव ‘भगवद्गीता’ इति प्रसिध्दाऽस्ति ।

उपनिषदः एव गावः । दोग्धा गोपालनन्दनः कृष्णः पार्थः वत्सः । गीतामृतम् एव दुग्धम् इति भगवद्गीतायाः महत्वं वर्णितम् अस्ति । एषा भगवद्गीता व्यासकृता महाभारतकाव्ये ग्रथिता अस्ति । सप्तशताधिकश्लोकाः सन्ति । अष्टादशाः अध्यायाः सन्ति । मुख्यतः श्रीकृष्णार्जुनसंवादरुपः अस्ति एषःउपदेशः । आरम्भे धृतराष्ट्रमहाराजः कुरुक्षेत्रे प्रवृत्तं युध्दम् ईक्षितुम् असमर्थ इति व्यासमहर्षिभिः सञ्जयाय दिव्यदृष्टिः दत्ता आसीत् । तया सञ्जयः युध्दस्य वार्तांवर्णने प्रवृत्तः । धृतराष्ट्रः यदा कुरुक्षेत्रे मामकाः पुत्राः पाण्डवाः किं कुर्वन्तः सन्ति इति पृष्टवान् । एषः प्रश्नः एव भगवद्गीतायाः आद्यः श्लोकः । सञ्जयः अनन्तरं सर्ववृत्तं धृतराष्ट्राय उक्तवान् ।

भगवद्गीतायां कर्म भक्ति, ज्ञान, सन्यास त्रिगुणाः इत्यादिगुणाः बर्णिताः सन्ति । मध्ये श्रीकृष्णः विश्वरुपम् अर्जुनाय प्रदर्शितवान् । आध्यात्मिकोपदेशेन अर्जुनस्य मोहं दूरीकृतवान् । अन्ते च अर्जुनः मम मोहः नष्टः अभवत् । हे कृष्ण तव वचनानुसारं करिष्यामि इत्युक्तवान् । एवं भगवद्गीता सर्वेषां योगिनामपि दिव्यदर्शनम् इति ख्याता अभवत् । हिन्दुधर्मस्य रत्नत्रये एकमभवत् । सर्वे दार्शनिकाः भगवद्गीतायाः व्याख्यानं कृतवन्तः । भगवद्गीताम् ‘उपनिषत्’ इति वदन्ति ।

भगवद्गीतायां श्रीकृष्णेन अर्जुनाय दत्ताः उपदेशाः सन्ति । एते उपदेशाः मानवकल्याणाय दत्ताः सन्देशाः सन्ति । अर्जुनः नररुपः मानवानां प्रतीकः अस्ति । भगवान् सर्वेषां हिताय एव गीताम्रुतं दत्तवान् । सर्वे भारतीयाः भगवद्गीतां सगौरवं पठन्ति । गीताजयन्तीदिने गीतायाः विषये उपन्यासाः, कण्ठपाठ स्पर्धाः, सामूहिकगीतापठणम् इत्यादि कार्यक्रमाः भविष्यन्ति । भगवद्गीता सर्वसमर्पणभावं मुख्यतया बोधयति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

References[सम्पादयतु]

1. Hindu Fast and Festivals By Swami Sivananda

"http://sa.wikipedia.org/w/index.php?title=गीताजयन्ती&oldid=252301" इत्यस्माद् पुनः प्राप्तिः