गुजरातराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
गुजरातराज्यम्
गुजरात
—  राज्यम्  —

मुद्रिका
भारते गुजरातस्य स्थानम् ।
गुजरातराज्यस्य मानचित्रम् ।
Coordinates (गान्धिनगरम्): 23°13′00″N 72°41′00″E / 23.2167°N 72.6833°E / 23.2167; 72.6833Coordinates: 23°13′00″N 72°41′00″E / 23.2167°N 72.6833°E / 23.2167; 72.6833
राष्ट्रम्  India
Established सा.श. १९६०तमवर्षस्य मेमासस्य प्रथमदिनम् ।
राजधानी गान्धिनगरम्
बृहत्तमं नगरम् अहमदाबादनगरम् जनसम्ख्या दृष्ट्या, अहमदाबादनगरम्
मण्डलानि २६
Government
 • राज्यपालः डा। कमलः बेनिवालः
 • मुख्यमन्त्री नरेन्द्रमोदिः (भाजप)
 • Legislature Unicameral (182 seats)
 • गुजरातस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः जस्टिस् एस् जे मुख्योपाध्यायः
विस्तीर्णता
 • संहतिः १९६ Square km ( Square mile)
क्षेत्रस्तरः सप्तमम्
Population (सा.श.२०११)
 • संहतिः ६०
 • Rank दशमम्
भारतीयसर्वसाधारणकालमानम् (UTC+05:30)
ISO 3166 code IN-GJ
मानवसम्पन्मूलम् increase 0.621 (medium)
HDI rank चतुर्दशम् (२००५)
साक्षरताप्रमाणम् । ७९.३१%
राज्यभाषा गुजराती
जालस्थानम् http://www.gujaratindia.com

गुजरातराज्यं (Gujarat) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् अस्ति । पश्चिमसमुद्रतीरस्य राज्यं वर्तते गुजरातम् (गुर्जरराष्ट्रम्) । मुम्बैराजास्थानयोः मध्ये स्वेतिहासं संस्कृतिं स्वाभाविकीं सुन्दरतां च प्राप्तवान् अस्ति अयं प्रदेशः । श्रीकृष्णस्य अनेकैः पुण्यक्षेत्रैः सोमनाथमन्दिरेण च शोभितम् अस्ति इदं राज्यम् । गुजरातराज्यं सा.श. १९६० तमे वर्षे मे मासस्य प्रथमे दिनाङ्के रचितम् । एतस्य राजधानी गान्धिनगरम् । गुजरातराज्ये २५ मण्डलानि सन्ति । राज्येऽस्मिन् साबरमती, माही, नर्मदा, तपती नद्यः प्रवहन्ति । अरावली पर्वतश्रेणी अस्ति । अस्मिन् गिरनार् प्रदेशे सिंहाः स्वाभाविकतया अधिकसंख्यया जीवन्ति इति तु विशेषः । राज्यस्यास्य मूलसंस्कृतिः इतिहासे दृश्यते । लोथाल्हरप्पयोः आधुनिकशैल्याः संस्कृतिः, जैनतीयं दुर्गं (२००० वर्षाणि), जुनागडसमीपस्थम् अशोकचक्रवर्तिनः शिलाशासनं च । अशोकः कानिचन वर्षाणि अत्रैव व्यतीतवान् । महात्मनः गान्धिमहाभागस्य जन्मस्थानं पोरबन्दरनगरम् । गुजरातीयाः सात्त्विकाहारप्रियाः । अल्पाहारादिषु बहु मधुरं वर्तते । सूरतसदृशपत्तनेषु कौशेयवस्त्राणाम् उत्पादनम् भवति । करकुशलवस्तून्यपि उत्पाद्यन्ते । अतः राज्यमिदं बहु प्रसिध्दम् । अस्मिन् राज्ये अनेकानि पर्वाणि अत्यन्तम् आकर्षकाणि वर्तन्ते । एतद्विहाय धार्मिकदृष्ट्यापि गुजरातराज्यं प्रख्यातम् । सोपानवतां कूपानां रचना तु यात्रिकाणां विस्मयं जनयति । जैनानां हिन्दूजनाङ्गीयानां च पुण्यस्थलं मौण्ट् अबु । मोडेरस्थः सूर्यदेवालयः, पटाण्, गान्धीनगरं, बरोडा इत्यादयाः यात्रिकेभ्यः विविधरुपदेवानां दर्शनं कल्पयन्ति । चम्पानीर्, डाकोर् पालिटान् , गिरनारशैलः द्वारकादीनां दर्शनं सर्वस्य अपि भारतीयस्य पुण्यकारकम् ।

अन्तर्विषयाः

पौराणिकं गुजरातम् [सम्पादयतु]

पौराणिककाले गुजरातम् अनर्तदेशरूपेण परिचित: आसीत् । सोमनाथ-गिरनारयो: उल्लेख: पौराणिककथासु दृश्यते । सरस्वतीनद्या: प्रवाह: तस्मिन् काले गुर्जरराज्यपर्यन्तमम स्यात् इति एका धारणा अस्ति । महाभारतकाले भगवता श्री कष्णेन गुर्जरराज्यस्य पश्चिमे तटे द्वारिकानगरी प्रस्थापिता इति सर्वविदिता वार्ता अस्ति । अज्ञातवासे पाण्डवा: यत्र निवासं कृतवन्त: सा विराटनगरी अद्यतने कच्छप्रदेशे स्यात् इति मन्यते । महर्षि याज्ञवल्क्यः नर्मदाया: तटे वासम् अकरोत् पौराणिके काले गुजरातस्य महत्त्वम् एता: घटना: प्रतिवादयन्ति ।

ऐतिहासिकं गुजरातम् [सम्पादयतु]

लोथल, धोळावीर

गुर्जरराज्ये उपलब्धानि प्राचीनानि स्थापत्यानि, व्यापारकेन्द्राणि, पृथक राज्यानां एक स्मिन काले उदय: , सुदीर्ध: शासनकाले: एता: विशेषता: गुजरातस्य ऐतिहासिकं महत्त्वं प्रदर्शयन्ति । - सिन्धुसंस्कृत्या: समृद्धा: अवशेषा: गुजरातराज्यस्य लोथल, धोळावीर द्वाभ्यां स्थानाभ्यां प्राप्ता: । - मौर्य, गुप्तसाम्रज्ये अत्रस्य-नगराणि बन्दर एवं व्यापार केन्द्राणि आसन् । - विशाल: समुद्रतट: गुजरातराज्यस्य व़ष्टयम् प्राचीनकाला अस्ति । - कच्छ, सौराष्ट्र, पाटण तथा लाट चतुर्णां राज्या एकस्मिन् एक समये अस्तित्त्वं शासनस्य विस्तारं सूचयति । मुघल सम्राटेन अकबरेण गुजरातं प्ररी आक्रमणं कृतम् । तत्र तस्य जय: अभवत । तेन गुजरातराज्यं मुघलसम्राज्ये समाविष्टम् तस्मिन समये त्रयोदश शताब्दे: आराम्भत: पञ्चदश श्ताब्दी (१५७६) पर्यन्तं गुजरातस्य शासनम् (सत्ता) आसीत् । - अष्टादश शताब्दी - मराठा वीटा: अकबर पराजितवन्त: आड्गलशासन काले, स्वतन्त्रताप्राप्त्यनन्तरमपि १९६० एप्रिल मासस्य त्रिंशत दिनाड्क पर्यन्तं गुजरातराज्यं बृह्द् मुम्बई राज्यस्य एक: भाग: आसीत् ।

पश्चिमीशासनम् [सम्पादयतु]

गुजरातराज्ये युरोपीय सत्ताया: आरम्भ: पोर्टुगलस्य आगमनेन अभवत । इ.स. १६०० - स: गुजरातस्य समुद्रतटे स्थितानां दीव, दमण, दादरानगरहवेली इत्यादिषु स्थानेषु पृथक् पृथक् सत्ता केन्द्राणि स्थापितवान् । १६१४ ब्रिटन द्वारा सुरते एक: यन्त्रागार: स्थापित: । भारते ब्रिटीश सत्ताया: सारम्भ: इत: एव आसीत् । सुरतम् एव तेषां मुख्यं मथक आसीत् । १६६८ तमे वर्षे मुम्बई अनन्तरं सुरतस्य अपि तत्र समावेश: कृत: कुर्वन्तिस्म, किन्तु वतपत्तनम् (वडोदरा) तु भारतस्य गवर्नरजनरल आधिनम् आसीत् । इ.स. १८१८ त: इ.स. १९४७ पर्यन्तं गुजरातराज्यं अनेकेषु लघु लघु विस्तारेषु विभक्तम् आसीत् । यथा काठियावाड (सौराष्ट्र), कच्छ, उत्तरपश्चिमश्च । अमदावाद, भरुच, खेडा, पञ्चमहाल, सूरत आदि प्रान्ता: साक्षात् ब्रिटीशसर्वकाराधिना: आसन् ।

स्वातन्त्र्यप्राप्ते: अनन्तरं गुजरातराज्यम् [सम्पादयतु]

इ.स. १९४७ भारतदेश: स्वतन्त्र: अभवत् । स्वातन्त्र्यप्राप्ते: अनन्तरं सरदार वल्लभभाई पटेल महोदय: गुजरातस्य विभिन्नानां राज्यानां विलीनीकरणम् अकरोत् । गुजरातस्य लघु लघु राज्यानां त्रिषुभागेषु विभाजनम् अभवत् । कच्छ, सौराष्ट्र, बृहद् मुम्बई राज्यं च । इ.स. १९४८ महागुजरात सम्मेलनम् अभवत् । इ.स. १९६० मई मासस्य प्रथमे दिनाड्के मराठीभाषाणां जनानाम् आन्दोलन कारणात् मुम्बई राज्यं पृथक् अभवत गुजरातं महाराष्ट्रम् इति द्वयोः राज्ययोः पृथक् रचना अभवत् । गुजरातीभाषाणां विस्तारे गुजरातं, सौराष्ट्रं, कच्छ ऐतेषां समावेश: भवति । एवं प्रकारेण गुजरातं स्वतन्त्र राज्यम् अभवत् । अहमदाबाद नगरं गुजरातराज्यस्य प्रथमा राजधानी आसीत् । १९७० तमे वर्षे राजधान्या: स्थानं परिवर्तितम् । गुजरातस्य अद्यतनराजधानी गान्धीनगरम् अस्ति । इ.स. २००१ जनवरीमासस्य २६ दिनाड्के गुजरातप्रदेशे भुज इति स्थाने अत्यन्त: विनाशकारक: भूकम्प: आगत: । २०,००० ततोऽअधिका: जना: मृता:। लक्षाधिका: जना: भूकम्प प्रभाविता: अभवत् । अद्य अपि एतस्थाघटनाया: स्मरणं जनानां मनसि आतड्क जनयति । इ.स. २००२ फेब्रुआरीमासस्य २७ दिनाड्के पुन: एका दुर्घटना अभवत् । गुजरातराज्यस्य गोधरा इति ग्रामस्य रेलस्थानके साबराती एक्सप्रेस रेलयानस्य एकस्मिन् प्रकोष्ठे अग्नि: प्रज्वलिति: । तस्मिन् प्रकोष्ठे उपविष्टा: कारसेवका: भस्मीभृता: । एते कारसेवका: अयोध्याया: कारसेवां कृत्वा गुजरातं प्रति आगच्छन्त: आसन । जनानाम् आक्रोश: साम्प्रदायिक कलहस्य कारणम् अभवत् । सत्रस्याधिका: जना: मृता: ।

भूगोलम् [सम्पादयतु]

एशीयाई सिंह

गुजरातं भारतस्य पश्चिमे तटे आगतं राज्यम् अस्ति । तस्य पश्चिमदिशि अरबसमुद्र: अस्ति । उत्तरे राजस्थानं पूर्वेमध्यप्रदेशे: दक्षिणे महाराष्ट्रराज्यम् अस्ति । गिरनारपर्वत: गुजरातराज्यस्य सर्वाधिक: उन्नत: पर्वत: अस्ति । एष: पर्वत: बरडापर्वतमालाया: एक: भाग: अस्ति । एष: पर्वत: ११४५ मीटर उन्नत: १६० कि.मि. दीर्ध: अस्ति । तस्य उन्नतं शिखरं गिरखनाथ इति नामना प्रसिद्धः अस्ति । गुजरातस्य उत्तरभागे अरवल्ली पर्वतमाला अस्ति । एषा पर्वतमाला: आबु त: प्रविशति पावागठस्य समीपे विन्ध्याचल पर्वतमालायां समाविष्टा भवति । तारड्गा पर्वतमाला महेसाणा त: विसनगर पर्यन्तं प्रसृता अस्ति । अरवल्ली पर्वतमालाया: आरासुरशाखा दांता, खेडब्रह्मा इडर तथा शामळाजी भूत्वा विन्ध्याचले समाविष्टां भवति । सह्याद्री पर्वतमालायां गाठ वनानि सन्ति, सर्वाधिकावृष्टि: अपि तस्मिन् विस्तारे भवति । गुजरातस्य कच्छ जनपदे स्थानद्वये मयभूमि: अस्ति । गीरवनं गुजरातस्य सौराष्ट्र विस्तारे आगतम् अस्ति । एशीयाई सिंहानां कारणात् एवद वनं सुप्रसिध्धम् अस्ति । सापुतारा गुजरातराज्यस्य पर्वतीयं रमणीयं स्थानम् अस्ति । कच्छजनपदे तिस्त्र: पर्वतमाला: सन्ति । कच्छस्य प्रसिद्ध: कृष्णपर्वत: कच्छ एवं सिन्ध द्वयो: मध्ये आगतानां पर्वतमालानां भाग: अस्ति । पालीताणा समीपे आगता शत्रुञ्य पर्वतमाला जैनानां पर्वतमालानां पर्वतमालासु एका अस्ति । तलाजा इति पर्वतमालायां बौद्ध गुहा: सन्ति । बौद्ध गुहाया: कारणात् एतत् स्थानं प्रसिद्धम् । गुजरातस्य मुख्यानि नगराणि - अहमदावाद, गान्धीनगरम्, अमरेली, वडोदरा, सुरत, राजकोट, भावनगरं, जामनगरम्,आणन्दम्, नडीयाद:, पोरबन्दरं, जूनागठं, पाटणं, भूजं, भरुचं, नवसारी, महेसाणा च अहमदाबाद नगरस्य समावेश: मेट्रोपोलीटीन सीटी (महानगरेषु) भवति । गुजरातराज्ये अनेकानि अभयारण्यानि, राष्ट्रिय उद्यानानि च सन्ति । जूनागठ जनपदे गीरराष्ट्रियम् उद्यानं, भावनगर जनपदे वेळावदर काळियार राष्ट्रियम्‌उद्यानं, नवसारी जनपदे वांसदाराष्ट्रियम् उद्यानं, जामनगर जन्पदे दरियाई राष्ट्रियम् उद्यानं, इत्यादयानि राष्ट्रियम् उद्यानानि सन्ति । द्वावींशति: (२२) अभयारण्यानि सन्ति । गुर्जरराज्ये दर्शनीयानि नैसर्गिकानि स्थानानि सन्ति । एतानि वन्यस्थानानि रमणीयानि सन्ति ।

तेषां स्थानानां नामानि [सम्पादयतु]

बालाराम्, अम्बाजी, बरडा, ज्म्बुघोडा, जेस्सोर कच्छ मरुप्रदेश:, नळसरोवर:, नारायणसरोवर:, पाणिया, पूर्णा, रामपुरा, रतनमहाल, शूरणाणेश्वर, इत्यादयानि । एशिलाई सिंहवंशस्य अस्तित्त्वं गुजराते गीराभयारण्ये रक्षितम् अस्ति इति आनन्दस्य विषय: । नर्मदानदी गुजरातस्य विशाल, दीर्धा च नदी अस्ति भारतस्य मध्यभाग प्रवहन्ती एषा नदी भारतं भागद्वये विभाजनं करोति । सरदारसरोवर योजना नर्मदाया: उपरि निर्मिता अस्ति । गुजरातराज्यस्य अन्यासां नदीनामपेक्षया साम्भ्रामती दीर्घानदी वर्तते । साम्भ्रमत्या: उपरि साम्प्रतं ‘रीवरफ्रन्ट’ योजनाया: कार्यं प्रचलति ।

राजनीतिक्षेत्रे गुजरातराज्यम् [सम्पादयतु]

मुख्यमंत्री श्रीनरेन्द्रमोदी

१९४७ स्वातन्त्रप्राप्ते: अनन्तरम्पि गुजरातराज्यं मुम्बई रज्यस्य एव एक: भाग आसीत् । १९६० गुजरातं स्वायत्त राज्यम् अभवत् । गुजरातस्य प्रप्रथम मुखमंत्री श्री र्डा. जीवराज महेता आसीत् । स: १९६० त: १९६३ त्रीणि वर्षाणि यावत् शासनमकरोत् । १९९५ पर्यन्तं क्रोंग्रेसपक्षस्य शासनम् आसीत । आपातकाले अनन्तरं निर्वाचने क्रोंग्रेसपक्ष: पराजित:, भा.ज.प. पक्षस्य प्रभुत्वं वर्धितम् । गुजरातराज्ये दीर्धकालात् भारतीयजनता पक्षस्य सवल: प्रभाव: अस्ति । १९९५ निर्वाचने क्रोग्रेसपक्ष: पराजित: भा.ज.प पक्षस्य जय: अभवत् । केशुभाई पटेल मुख्यमंत्री अभवत् । केशुभाई पटेल मुख्यमंत्री अभवत् । वर्ष द्वयं तने गुजराते पुन: निर्वाचनम् अभवत् । भारतीय जनतापक्षस्य भाग द्वयम अभवत् । शड्करसिंह वाघेला पक्षंत्पक्ता रा.ज.प. इति नूतनं पक्षं रचितवान् । क्रोंग्रेस पक्षस्य साहाय्येन स: मुख्यमंत्री अपि अभवत् । १९९८ निर्वाचने जयं प्राप्त्वा पुन: भा.ज.प पक्ष: सत्तारूढ: अभवत् । नरेन्द्रमोदी मुख्यमंत्री अभवत् । इ.स. २००० वर्षे गुजरात् साम्प्रदायिक कलह: अभवत गोधरा रेलस्थानके साबरमती एक्सप्रेस रेलयानस्य एक्स्मिन् प्रकोष्ठे अग्नि: प्रञ्वलीत: तस्य करसेवका: मृता: । अनन्तरं (हिन्दु- मुस्लिम) हिन्द्‌अव: -यवना: द्वयो: सम्प्रदाय मध्ये कलह: अभवत् । नरेन्द्रमोदी हिन्दुसमर्थक: नेता अस्ति । साम्प्रदायिक कलहस्य दोषी स: अस्ति इति दोषारोपणम् अभवत् । नरेन्द्रमोदी मुख्यमंत्री पदात् त्यागपत्रं दत्तवान् । डीसेम्बर मासस्य २००२ वर्षे पुन: निर्वाचनमभवत, पुन: भा.ज.प. पक्षस्य जय:, नरेन्द्रमोदी मुख्यमंत्री पदे निर्वाचित: । गुजराते जून मासस्य प्रथमे दिनाड्के २००७ नरेन्द्रमोदी गुजरातस्य दीर्धकालपर्यन्तं शासनकर्तषु एकतम: । १९६० स्वायत्त गुजरात राज्यस्य स्थापना अनन्तरम् चतुर्दश मुख्यमन्त्रिण: गुजराते शासनं कृतवन्त: ।

अर्थतंत्रम् [सम्पादयतु]

गुजरातराज्यं भारतदेशस्य घनिकेषु राज्येषु एकम् राज्यम् अस्ति । कृषि उत्पादनेषु कार्यास: भूचणकम्, खर्जूर: इत्यादिन अन्य उत्पादनेषु पेट्रोलियम अस्ति । सुरतनगरं विश्वे रत्नानां व्यापारस्य मुख्यं केन्द्रम् अस्ति । महेसाणा नगरे दूधसागर देरी दुग्ध द्वारा निर्मित उत्पादनं कुर्वती संस्था अस्ति । विश्वे एतस्या: नाम अस्ति ।

सम्‍बद्धाः विषया: [सम्पादयतु]

कर्णावती (अहमदावाद), सूरत, भावनगरम्, गोध्रा, कच्छ गुजरात राज्यस्य विभागेषु कच्छ विभाग: , सौराष्ट्र विभाग: , उत्तर गुजरात दक्षिण गुजरात इति चत्वार: विभागा: सन्ति । गुजरातराज्यस्य विशालतमम् जनपदम् कच्छ जनपदम् अस्ति । अरबसागरस्य तटे एव स्थितम् अयं जनपदम् भौगोलिक दृष्ट्या विशिष्टमस्ति । कांडला समुद्रपत्तनम , मुँदरा पत्तनम, मांडवी पत्तनम , एते पत्तनानि सन्ति । नारायणसरोवर तीर्थमपि अत्रैव वर्तते । जैन तीर्थेषु भद्रेश्वर, ७२ जिनालय, भुज इत्यादीनी स्थलानि सन्ति। कच्छ जनपदे "स्वामिनारायण संप्रदायस्य" अनुयायिन: अपि अनेके सन्ति । भुज नगरे, अंजार नगरे, बीदड़ा , केरा , बड़दिया ग्रामेषु स्वामिनारायण संप्रदायस्य अनुयायिन: बहव: सन्ति । एतस्मिन जनपदे पटेल , रबारी , आहिर, गढवी , जत जना: निवसन्ति । कच्छजनपदीया: जना: हस्तकलायां बहु कुशला: सन्ति । कच्छ जिला भारतस्य पश्चिम भागे गुजरात राजयस्य एकम जनपदम अस्ति। भारतस्य विशालतमम् जनपदम् अस्ति यस्य भौगोलिक विस्तार: ४५६५२ कि.मी. परिमितम् अस्ति। कच्छ जनपदे शुष्कता आर्द्रता उभयो: दर्शनम् वयं कर्तुम् शक्नुम: , ग्रीष्मकाले अत्र अतीव शुष्कता वर्तते वर्षाकाले अत्र आर्द्रता दृश्यते । कच्छी रणम् एतस्य विस्तारस्य विशेषता अस्ति । संस्कृत भाषाया: कच्छभम् शब्दस्य उपयोग: एतदर्थम कृतमस्ति। कच्छस्य आकार: अपि कच्छभ सदृशमेव अस्ति। कच्छ रणे “लवणम” उत्पाद्यते। कच्छ जनपद: बन्नी विस्तारस्य तृणार्थम अपि बहु प्रसिद्धम अस्ति। सम्पूर्णविस्तारे सर्वत्र उन्नतम तृणम दृश्यते।

अदलाज् सोपानकूपानि [सम्पादयतु]

एतादृशनि सोपानकूपानि गुजरातराज्ये एव द्रष्टुं शक्यन्ते । गुजरातराज्ये आहत्य १२० स्थलेषु एतादृशनि सोपानयुक्तानि विशिष्टकूपानि सन्ति । तेषु अतिप्राचीनं तु राज्ञीकूपम् । एतत् द्वादशे शतके निर्मितम् । पटन् नगरतः ८० कि.मी. दूरे अस्ति । अदलाज्कूपं क्रिस्ताब्दे पञ्चदशशतके राज्ञ्या रुडाबायीवर्यया निर्मितम् । अहमदाबादतः १९ कि.मी. गान्धीनगरस्य समीपे एतदस्ति । अस्य अदलाज् कूपं इति वदन्ति । अह्मदाबाद् मेहसान् मार्गसमीपे एतदस्ति । एतेषां कूपाना रचनम् अतिविशिष्टम् अस्ति । आरम्भे सामान्यकूपमिव इव दृश्यन्ते । अधोऽधः गच्छति चेत् शिल्पकलायाः अद्भुतस्य दृश्यानुभवः भवति । हिन्दुजैनबौद्धजैनमहम्मदीयानां कलानां सम्मिश्रणम् अनुभवतं भवति । पुष्पलताः पत्राणि विविधाः प्राणिनः पक्षिसङ्कुलानि अश्वाः गजाः नवग्रहाः शक्तिदेवताः प्रधानतया विराजन्ते । बौध्दानां शिलाविशेषाः अपि सन्ति । जलस्थानं १०० पादपरिमितनिम्ने भवति । एतानि पञ्चस्तरनिर्मितानि भवनानि इव चित्रोर्कीर्णस्तम्भैः आश्रितान् । निदाधसमयेऽपि अतिशीतलं स्थानं दादाहरि इति स्थाने अपि एतादृशं कूपम् अस्ति । एतत् सा.श.१४९९तम वर्षे निर्मितम् ।

मार्गदर्शनम् [सम्पादयतु]

वाहनमार्गेण अहमदाबादतः १९ कि.मी. गान्धिनगरः ५ कि.मी अहमदाबाद मेहसान् राष्ट्रीयमार्गतः अर्ध कि.मी. दूरेऽस्ति । अहमदाबादनगरे वसतिं कर्तुं शक्यते । अहमदाबादनगरे विमाननिस्थानं धूमशकटनिस्थानानि च सन्ति ।

मोडेरा सूर्यमन्दिरम् [सम्पादयतु]

अहमदाबादतः १०६ कि.मी दूरे अत्यदभुतः सुन्दरः सूर्यदेवालयः अस्ति । एषः सोलङ्कीरजपूताना राज्ञा सृष्टिविशेषः अस्ति । गुजरातराज्यस्य कोनार्क् इति चाय देवालयः प्रसिध्दः अस्ति । एत प्रथमः भीमदेवः रचितवान् । सा.श.१०२६तवर्षतः१०२७ तमे वर्षमध्ये निर्माणमभवत् । आस्य देवालयस्य बहिर्भागः सुन्दरशिल्पैः समृध्दः अस्ति । प्रातः काले सूर्यकिरणाः साक्षात् गर्भगृहेस्थितस्य सूर्याविग्रहं भासयन्ति । देवालयस्य अर्धभागः भग्नः अस्ति । सोमनाथदेवालय इव अत्रापि गज़नीमहम्मदः महोदयस्य आक्रमण एव नारास्य कारणमस्ति । अत्र सूर्य देवालयेन साकं मातङ्गी अथवा मोधेश्वरी देवालयोऽपि अस्ति रायकुण्ड क्रमेण विरचित अस्ति । वाहनमार्गेण अहमदाबादतः १०६ कि.मी दूरे भवति । सुगमः वाहनस्म्पर्कः अस्ति । वसतिव्यवस्थाऽपि अत्र कल्पिता अस्ति धूमशकटमार्गः मेहसान् धूमशकटनिस्थानतः ४० कि.मी अहमदाबादनगरे विमाननिस्थानमपि अस्ति ।

अक्षरधाम [सम्पादयतु]

गान्धीनगरं तु गुजरातराज्यस्य राजधानी अस्ति । साबरमतीनदीतीरे स्थितम् एतत् नगरं नवीनतया निर्मितम् । एतत् क्रिस्ताब्दे १९७० तमे वर्षे पूर्णतया निर्मितम् । अनन्तर अत्रैव राज्य कार्याणि प्रचलन्ति । महात्मागान्धिनः स्मरणार्थ नगरस्य नाम गान्धीनगर इति अस्ति । अक्षरधामस्थले स्वामिनारायणदेवालयः निर्मितः अस्ति । स्वामिनारायणसंस्थानस्य पमुखैः स्वामिमहाराजैः देवालयस्य निर्माणं कारितास्ति । देवालयस्य निर्माणकार्याय शताधिकाः कुशलशिल्पिनः कार्यं कृतवन्तः । ६००० टन् परिमाणे रक्तशिलाः अत्र उपयुक्ताः । भारतीयशिल्पशाक्षानुसारं स्थपतयः सुन्दरतया निर्मितवन्तः । अस्य विस्तारः १००४ ३४९ वर्गपादमितम् अस्ति । अत्र ९३ स्तम्भाः ४० वातायनानि सन्ति । अत्र नरः नारायणः च अत्राराध्यौ स्तः । सप्तपादमितैः स्वर्णपत्रैः नरनारायणौ आवृतौ स्तः । अत्र हरिमण्डपः प्रसादमण्डपः विभूतिमण्डपश्चेति त्रयः मण्डपाः सन्ति । हरिमण्डपे ५०० परमहसाः सन्ति । अत्र वस्तुसङ्ग्रहालये स्वामिनारायणैः गुरवे लिखितानि पत्राणि, गुरो गृहस्य प्रतिरुप, प्राचीनवृक्ष भागाः गुरुणा उपयुक्तानि ऊर्णवस्राणि इत्यादि स्थापितवन्तः । देवालयस्योपरि १४८ गजाः सुन्दरतया शिल्पेषु सन्ति । ऋषिमुनीनामाचार्यणां च प्रतिमाः स्थापिताः । अत्र सहजानन्दवनम् इति १५प्रहलपादपरिमितविस्तृतं सुन्दरं सरोवरैः शिलावनैः जलपातैः सङ्गीतोत्सैः युक्तम् उद्यनवनम् अस्ति । अस्य विस्तारः ६ हेक्तरमितः अस्ति । एत स्थल प्रपञ्चस्य अष्टम अदभुत इति च कथयन्ति । अक्षरधाम इदानीं गिन्नीविश्वपुस्तकेऽपि अधिकृततया प्रविष्ट अस्ति । यात्रिकाना गुम्फैः विश्व एव महान् देवालय्ः एषः इति प्रकटनां कृत्वा अस्य प्रसिध्दिः विश्वगोचरी कृत अस्ति । स्वामिनारायणसंस्था द्वारा पञ्चक्षण्डेषु ७१३ सङ्ख्याकाः देवालयाः कृताः सन्ति । न्दुधार्मिकविधिप्रकारमेव अत्रत्यरणानि प्रचलन्ति । प्रतिवर्ष २० लक्ष्याधिक जनाः अक्षरधाम देवालयसङ्कीर्ण पश्यन्ति । दिल्लीनगरेऽपि ‘अक्षरधाम’ भव्यतया निर्मित अस्ति ।

साबरमती आश्रमः [सम्पादयतु]

अहमदाबादनगरे एव साबरमती नदीतीरे साबरमती आश्रमः महात्मागान्धिमहोदयेन स्थापिता आसीत्। आश्रमे शान्तवातावरणम् अस्ति । महात्मागान्धेः सम्बध्दानि वस्तूनि अत्र सङ्ग्रहीतानि सन्ति । इदानी आश्रमः एषः राष्ट्रीयस्यारकरुपेण सुरक्षितः अस्ति । अत्र ग्रन्थालयः अपि अस्ति । प्रातः ८.३० वादनतः १२ वादनपर्यन्तम् अपराह्णे २ वादनतः ६.३० वादनपर्यन्तं प्रवेशः अस्ति । चित्रप्रदर्शनमपि अत्र द्रष्टुं शक्यते । अहमदाबादतः नगर वाहनव्यवस्थास्ति ।

इतिहासपूर्वस्थानम् [सम्पादयतु]

भारतस्य प्राचीनेतिहासे सिन्धूनदीतीरस्य नगरीकतायाः अतीव महत्वमस्ति । प्रायः ४५०० वर्षपूर्वम् अत्र जनाः सुव्यवस्थितरीत्या वासं कृतवन्तः इति सरलमार्गः इष्टिकाभिः निर्मितैः गृहैः, सुष्ठु वैज्ञानिकरीत्या निर्मितैः अन्तर्नालाभिः च ज्ञातुं शक्यते । कदाचित् अयं प्रदेशः नौका निस्थानमासीत् इति तु विस्मयकारी विषयः अस्ति । मेसपोटोमिया इजिप्त् पर्शिया इत्यदिभ्यः प्रदेशेभ्यः अपि इतः सम्पर्कः आसीत् । इतिहासकाराः नौकानिस्थानस्य अवशेषानपि संशोधितवन्तः । हरप्पा मोहाञ्जोदारो स्थले इव अत्रापि सुव्यवस्थितायाः संस्कृत्याः लक्षणानि स्पष्टानि सन्ति । वाहनमार्गः - अहमदाबादतः ८० कि.मी. दूरे अहमदाबाद-भावनगर मार्गे अस्ति । धूमशकटमार्गः–अहमदाबाद भावनगरमार्गे ‘साठि भुरकि’ निस्थानतः वाहनैः गन्तुं शक्यते । अहमदाबादतः उत्तम लोकयान व्यवस्था अस्ति ।

पोरबन्दर् [सम्पादयतु]

भारतदेशे एव पोरबन्दरनगरं प्रसिध्दम् अस्ति । एतत् महात्मागान्धेः जन्मस्थलम् आसीत् पूर्वकाले एतन्नगरं सुदामपुरी इति सम्बोधयन्ति स्म । अत्रैव श्रीकृष्णः स्वबाल्यमित्रं सुदामं मिलितवान् इति ख्यातिः। कीर्तिमन्दिरम् इति भव्यं मन्दिरं ७९ पादपपरिमितोन्नतं महात्मागान्धीमहोदयस्य स्मरणार्थं निर्मितम् अस्ति । भारतस्य प्रथमप्रधानमन्त्रिणः नेह्रूमहोदयस्य स्मरणार्थम् अत्र ग्रहावलोकनस्य नेहरुतारालयः स्थापितः अस्ति । सर्वाणि भवनानि श्वेतवर्णीतानि इति कारणेन श्वेतनगरम् इति जनाः वदन्ति । द्वारकाविरावलोः मध्ये भूसञ्चारमार्गः अस्ति । अहमदाबादपोरबन्दरनगरयोः मध्ये कीर्ति एक्स्प्रेस् इति धूमशकटयानं सञ्चरति ।

नळसरोवरम् [सम्पादयतु]

विशेषतः हरिद्वर्णयुक्तः तृणवृक्षादिभिः आवृतः एषः प्रदेशः । गुजरातराज्ये विद्यमानेषु सरोवरेषु नलसरोवरः अतीव विशालः सुप्रसिध्दः अस्ति । ११६ व.कि.मी. विस्तारयुक्तः सरोवरः विश्रान्तिधाम प्रवासीस्थानं चा सन्ति । अत्र शतशः पक्षिणः देशविदेशैः आगच्छन्ति । बकपक्षीपोलिकन्, प्लेयिङ्गो इत्यादि शीतकाले सरोवरभागेषु वसन्तः सन्तानाभिवृध्दिं कुर्वन्ति । अत्र वासार्थं हालिडे होम् इति वसतिगृहमस्ति ।

अहमदाबाद् [सम्पादयतु]

अहमदाबादनगरं प्राचीननगरम् अस्ति । पूर्व गुजरात् राज्यस्य राजधानी आसीत् । प्रतमः अहमदषा क्रिस्ताब्दे १४११ तमे वर्षे एतन्नगर निर्मितवान् । अतः एव नगरस्य गुजरातराज्यस्य सुन्दरनगरेषु अहमदाबाद् अपि एकमस्ति । मोगलबादषाहस्य जहाङ्गीरस्य आस्थानमागतः आङ्ग्लराजः इतः सर्थामस् रो अहमदाबादनगरं लण्डन् नगरमिव अतीव सुन्दरं, भारते एव न विश्वेऽपि सुप्रसिध्दम् इति उक्तवान् । मोगलबादषाहः औरङ्गजेबः अहमदाबादनगरं भारतस्य आभरणं सौन्दर्यं च इति उक्तवान् । हिन्दुयवनशैल्याश्रितानि अनेकानि भवनानि अस्मिन्नगरे सन्ति । अहमदषाहस्य समाधौ हिन्दूजैनस्तम्भशिलालेखाभिलेखाः सन्ति । २६० स्तम्भाः १५ वर्तुलच्छदाः अत्र सन्ति । राज्ञीरूपमतीसमाधिः जामीयवनदेवालयः राजापुरबीबी, सिध्दिबषिरयवनदेवालयः अन्ययवनशिल्पाः च सन्ति । इत्तीसिङ्गजैनदेवालयः मौण्ट् अबू देवालयः इवास्ति । अत्र गोपुराणि पूर्वं दोलायमानानि आसन् इति वन्दन्ति । कङ्कारीसरोवरः ३४ कोणयुक्तः ६० मीटरदीर्घः अहमदाबादनगरस्य विहारस्थानमस्ति । एषः सा.श.१४५१ तमे वर्षे निर्मितः अस्ति । अहमदाबादनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु अपूर्ववस्तूनां सङ्ग्रहः अस्ति । कङ्कारीसरोवरः बालानां विहारस्थानमपि अस्ति । षादीवाग् उद्यानमपि अतीव सुन्दरम् अस्ति । अहमदाबादनगरं वस्तनिर्माणाय अतिप्रसिध्दम् अस्ति । प्राचीननगरभागे स्वामीनारायणमन्दिरम् अस्ति । अहमदाबादनगरस्य मुख्यवाहननिस्थानं लालदर्वाजा इति विख्यातमस्ति । प्रवासीनां सर्वत्रगन्तु इतः वाहनव्यवस्था ,एकदिनप्रवासव्यवस्था चास्ति । विमानमार्गः – अहमदाबादनगरं मुम्बै, देहली जैपुर इत्यादिनगरेभ्यः विमानयानसञ्चारः अस्ति । धूमशकटयानमार्गः मुम्बै, देहली नगरेभ्यः अपि धूमशकटयानसम्पर्कः अस्ति । वसतिव्यवस्थार्थं तु अनेकानि वसतिगृहाणि सन्ति । भूमार्गः देहलीतः ९३८ कि.मी मुम्बैतः ४९१ कि.मी. अबूतः १८६ कि.मी । रायल् ओरियण्ट् रैल् (प्रवासी धूमशकटयान) भारतस्य विविध स्थलाना दर्शनार्थ विशेषतया व्यवस्थितं धूमशकटयानमिदम् । अस्मिन् धूमशकटयाने सुवातव्यवस्थायाः चतुदशनिकटनि सन्ति । तेषु विश्रामस्थानानि शयनकोष्ठानि वाचनालयः सभाङ्गणं दूरदर्शनम् शितोदकोष्णोदकस्नानगृहाणि सङ्गीतव्यवस्था भोजनव्यवस्था इत्याद्याः विलाल्सव्यवस्थाः भवन्ति । एतत् धूमशकटयानं देहलीतः चित्तूरु उदयपुरं, जुनगड्, विरावल, सोमनाथः, सासनगिरम्, पालिटान् सर्केज् अहमदाबादनगरं जैपुरनगरं च नयन्ति । वीक्षणार्थं समीचीनं मार्गदर्शनं कुर्वन्ति । प्रवासार्थं गुजरातप्रवासोद्यमसंस्थया सम्पर्कः करणीयः भवति । अस्य सम्पर्ककेन्द्रं देहलीनगरे अपि अस्ति ।

सासणसिंहगिरिधाम [सम्पादयतु]

जुनागडतः ५४ किलोमीटर दूरे गिरनार्पर्वतप्रदेशः अस्ति । २४५० हेक्टेर्प्रदेशे सा.श.१९६५ तमे वर्षे एव एदद्वनं निर्मितम् अस्ति । अत्र ३०० अधिकाः सिंहाः सन्ति । भल्लूकाः श्रृगालाः मृगाः पक्षिसङ्कुलानि शुकाः मयूराः रासभविशेषाः अत्र सन्ति । प्राणिना दर्शनार्थ अरण्यविभागजनाः वाहनानां, दूरदर्शकानां च व्यवस्थां कुर्वन्ति। वासस्य व्यवास्थामपि कल्पयन्ति । समीपे तुलसीश्यामः इति प्रदेशे उष्णजलनिर्झरिणि अस्ति (१६५ कि.मी.दूरे) एतत्स्थानं जुनागडतः केशोड द्वारा ९० कि.मी. दूरं भवति । अक्टोबरमासतः जूनमासानां कालांशः सन्दर्शनार्थं सुखमयः भवति । वसतिस्थानानानि - केशोडतः ६०कि.मी.दूरे सर्वकारस्य अरण्यविभागस्य अतिथिगृहाणि, हालिडे होम्, सासन्गर विश्रान्तिगृहाणि सन्ति ।

जुनागढ - ऐतिहासिकं नगरम् [सम्पादयतु]

प्रख्यातस्य भक्तसज्जनस्य श्रीनरसीमेहता महोदयस्य प्रदेशः अयम् । इतिहासे गिरिनारदेवगिरिः इत्यादिभिः नामभिः प्रसिद्धमासीत् । महात्मागान्धेः अतिप्रियं वैष्णवजनतो गीतश्री नरसी मेहता महोदयेन लिखितमस्ति । जैनाना पुण्यक्षेत्रमिदरेवतिगिरि इति प्रख्यात मौर्यराजस्य अशोकस्य कालतः अपि जुनागडनगरं ख्यातमस्ति अत्रानेकानि यवनप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि नूरिषहसमाधी आदिचादि इत्यादि । अत्र समीपे १५०० वर्ष प्राचीनाः बौद्धगुहाः सन्ति । जुनागडमृगालयः सकरबाग्म्यूज़ियं, दरबारम्यूसियं, दर्शनीयानि सन्ति । अत्र स्थितानि दीपगुच्छानि किरीटानि शिबिकाः अतीव सुन्दराणि सन्ति । भगवान् दत्तात्रेयः शिखरे अदृश्यरूपेण वसति इति वदन्ति । गिरिनारगिरि देवालयमार्गे पू.श. २५० वर्षीयाः अशोकस्य कालस्य शिलाभिलेखाः सन्ति । आहत्य अत्र १४ एतादृशाः शिलाभिलेखाः सन्ति । रुद्रधाम्नि अपि मौर्यराजेन स्कन्धगुप्तेन लेखिताः शिलाभिलेखाः सन्ति । जुनागडतः ४ कि.मी. दूरे एते शिलाभिलेखाः सन्ति । गिरिनारगिरौ दामोदरकुण्डम् इति तीर्थम् अस्ति । पर्वतारोहणार्थं १०,००० सोपानानि चन्द्रशिलभिः निर्मितानि सन्ति । शिलानिर्मिताः ५ जैनदेवालयाः अत्र सन्ति नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलाया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः त्रिवलिदेवालयः च स्तः । गिरिशिखरे अम्बमातादेवालयः अस्ति । अत्रनूदम्पतयः अत्रागत्य सुखजीवनाय देवीं प्रार्थयन्ति ।

वेखेलसोमनाथज्योतिलिङ्गस्थानम् [सम्पादयतु]

पाश्चिमगारारतीरे स्थित वेखेलपत्तज अहमदाबादतः ४५९ कि.मी. दूरे अस्ति । अत्र समीपे सोमनाथमन्दिरं विश्वप्रसिध्दम् आसीत् । वेरवेलतः ४ कि.मी. दूरे स्थितं प्रभासपत्तनं सोमनाथपुरम् इति च ख्यातम् आसीत् । चन्द्रः एवात्र मन्दिरं निर्मितवान् इति प्रतीतिः अस्ति । अत्र स्वर्णेन रावणः, रजतेन कृष्णः दुरुभिः भीमः च मन्दिराणि निर्मितवन्तः इति उदन्तः अस्ति । घज़नी महम्मदः देवालयान् विनष्टान् कृतवान् । त्रयोदशशतकादनन्तर मन्दिरं पुनः निर्मितम् । पुनः सप्तदशे शतके देवालयः विनष्टः । तृतीयवारं देवालयनिर्माणं सा.श.१९८९ तमे वर्षे सम्पन्नम् । देशस्य उपप्रधानमन्त्री सरदार् वल्लभभायी पटेलः देवालयनिर्माणकार्ये श्रमितवान् । तस्य मूर्तिः देवालयस्य पुरतः स्थापितः अस्ति । सोमनाथलिङ्गम् अत्र सम्यक् शोभते । अवशेषाः वस्तुसङ्ग्रहालये स्थापिताः सन्ति । पूर्वमत्र सूर्यदेवालयोऽप्यासीत् । पुनर्निर्माणमपि पूर्ववदेव कृतमस्ति । द्वारकातः ३० कि.मी. दूरे जामनगरम् अस्ति । सरोवरं परितः नगरसौधानि निर्मितानि । सरसः मध्ये लघुद्वीपः तिष्ठति । द्वीपे लकोटदुर्गः लघुदुर्गः अपि निर्मितः। तस्य नाम लकोटदुर्ग । तत्र अनेकाः मूर्तयः सङ्गृहीताः सन्ति । झामनगरतः पश्चिमे १४५ कि.मी दूरे श्रीकृष्णस्य राजधानि द्वारकापुरी आसीत् । गोमतीनद्याः सागरसङ्गमस्थले एव द्वारकापत्तनमासीत् । अत्र गोमती तीर्थम् इति किञ्चन पुण्यसरः अस्ति । अत्रस्थिते दुर्गे द्वारकाधीशस्य मन्दिरमस्ति । द्वारकामन्दिरं विश्वकर्मणा निर्मितम् । पञ्चस्तरीयं गोपुरम् उन्नतम् आकर्षकम् च अस्ति । गर्भगृहे शङ्खचक्रगदाधारी कृष्णः विराजते । मुख्यमन्दिरं १५० पादपरिमितोन्नतम् अस्ति । आचार्यशाङ्करैः स्थापित एकनमठयात्र अस्ति । द्वारकापत्तनतः ३० कि.मी. दूरे ओखाडीपम् इति स्थाने द्वारकानाथमन्दिरमस्ति । श्रीकृष्णस्य कृष्णशिलामूर्तिः अत्रास्ति । कृष्ण जन्माष्टमी अत्रविशेषपर्व आचरन्ति । द्वीपं गन्तुं उत्तमा व्यवस्था अस्ति ।

भावनगरम् [सम्पादयतु]

अहमदाबादतः २४४ कि.मी. दूरे वाणिज्यकेन्द्रं भावनगरे प्रसिध्दम् अस्ति । तत्र गान्धीस्मृतिः इति ग्रन्थभाण्डारः वस्तुसङ्ग्रहालयः गौरीशङ्करसरोवरः तक्तेश्वर देवालयाः दर्शनीयाः वसन्ति । भावनगरतः ५६ कि.मी. दूरे ८६३ देवालयानां समूहः १९०० पादपरिमोतोन्नपर्वते अस्ति । एतत् [[जैनमतम्|जैनयात्रास्थलम् अस्ति । सर्वे देवालयाः जैनदेवालयाः सन्ति । बृहदाकाराः शिल्पैः विन्यस्ताः आदिनाथादिदेवालयाः आकर्षकाः सन्ति ।

राजकोटनगरम् [सम्पादयतु]

अहमदाबादतः २४६ कि.मी. दूरे राजकोटनगरम् अस्ति । सुन्दरं पत्तनमेतत् सौराष्ट्रसंस्थानस्य राजधानी आसीत् । आङ्ग्लानां प्रशासनकेन्द्र प्यासीत् । महात्मा गान्धी अत्र बाल्ये अध्ययनं कृतवान् । अत्रस्थिते जान् वाटसन् वस्तुसङ्ग्रहालय हरप्पमोहज्जोदारो संस्कृतेः अवशेषाः सन्ति । अमृतशिल्पयां निर्मिता विक्तोरिया मूर्तिरत्रास्ति राजकोटतः ५० कि.मी दूरे वाङ्कनीर राजगृह अतीव सुन्दरम अस्ति । अत्रापि वस्तुसङ्ग्रहालयः अस्ति ।

कछ् प्रान्त्यभुज् [सम्पादयतु]

कछ् प्रदेशस्य मुख्यपत्तनं भुज् इत्यस्ति । सिन्धप्रान्तः काथेवाडः पाकिस्तानदेशः च परितः सन्ति । अत्र घर्ग्युवन् म्यूज़ियम् अपूर्वमस्ति । प्राचीनचित्राणि वस्त्रोद्यमवस्तूनि आयुधानि सङ्गीतवाद्यानि प्राणिनामाकृतयः अमृतशिल्पभवनं हस्तिदन्तैः कृतानि द्वारशिल्पानि आकर्षकानि सन्ति ।

सपुतारगिरिधाम [सम्पादयतु]

सागरस्तरतः १००० मीटर् उन्नतप्रदेशे स्थितं एतत् गिरिधाम अतीव शीतलं शान्तं चास्ति । सुन्दरवनं, जलपातानि, अतीव सन्तोषं जनयन्ति । नदीतीरेऽत्र पवित्रनागमूर्तिः अस्ति । कुचक्वाटीगर्दभसाम्राज्यम् । गुजरातराज्ये पाश्चिमे भागे रान् आफ कुच् प्रदेशे द्वीपसह्रशे स्थले भारतीय गर्दभाः विशिष्टाः सन्ति । अत्र गर्दभाः यथेष्ट सञ्चरन्ति एतादृश्म् स्थलम् अन्यत्र यत्रकुत्रापि न मिलति ।

गुजरातराज्यस्य सागरतीरम् [सम्पादयतु]

गुजरातराज्ये पश्चिमे भागे सिन्धुसागरस्य (अरब्बीसागरस्य) तीरम् अस्ति । अहमदाबादसमीपे क्याम्बे सागरतीरमस्ति । एतत् नौकानिस्थानम् । पोरबन्दरस्य समीपे चौपट्टी बीच अति सुन्दरमस्ति जुनागडसमीपे अहमदपुरमाण्डव । आकर्षकानि सन्ति । अत्र जलकेळिः विनोदाय भवति । डेखाड् धूमशकटनिस्थानतः १ कि.मी.दूरे एतदस्ति । सूरत् नगरसमीपे डुमास् (१६ कि.मी.) हाजीर् (२८ कि.मी) उब्रात् (४२ कि.मी) दाण्डी (५० कि.मी) दूरे उत्तमसागरतीराणि सन्ति । चोरवाडतीरम्, द्वारकातीरम्, गोपनाथम् अपि उत्तमानि सन्ति । समीपतमं विमाननिस्थानं केशोड् अस्ति । धूमशकटयानमार्गः मुम्बै एव । अहमदाबादमार्गः उन्य निस्थानतः समीपे माण्डवा अस्ति । एतेषा सूरत् आनन्दपुर, जुनागड्, द्वारका नगरतः वाहनसम्पर्कः अस्ति ।

गुजरातराज्यस्य मण्डलानि [सम्पादयतु]

गुजरातराज्यस्य मण्डलानि

List [सम्पादयतु]

मण्डलस्य सूच्याङ्कः मण्डलस्य नाम नगरम् जनसङ्ख्या (2001)[१] Population (2011)[१] Area (km²) Density (/km²)
AH अहमदाबाद् अहमदाबाद् ५ ,८०८,३७८ ७२०८२०० ८,७०७ ६६७
AM अम्रेलीमण्डलम् अम्रेली १,३९३,२९५ १५१३६१४ ६,७६० २०६
AN आणन्द आणन्द १,८५६,७१२ २०९०२७६ २,९४२ ६३१
BK बनासकाठामण्डलम् पालम्पुर २,५०२,८४३ ३११६०४५ १२,७०३ १९७
BR भरुच् मण्डलम् भरुच् १,३७०,१०४ ५५०८२२ ६,५२४ २१०
BV भावनगर भावनगर २,४६९,२६४ २८७७९६१ ११,१५५ २२१
DA दहोडमण्डलम् दहोड १,६३५,३७४ २१२६५५८ ३,६४२ ४४९
DG दङ्गमण्डलम् अह्वा १८६,७१२ २२६७६९ १,७६४ १०६
GA गान्धिनगरमण्डलम् गान्धिनगरम् १,३३४,७३१ १३८७४७८ ६४९ २,०५७
JA जामनगरमण्डलम् जामनगर १,९१३,६८५ २१५९१३० १४,१२५ १३५
JU जुनागढमण्डलम् जुनागढ २,४४८,४२७ २७४२२९१ ८,८३९ २७७
KA कच्छमण्डलम् भुज् १,५२६,३२१ २०९०३१३ ४५,६५२ ३३
KH खेडमण्डलम् खेड २,०२३,३५४ २२९८९३४ ४,२१५ ४८०
MA मेहसाणामण्डलम् मेहसाणा १,८३७,६९६ २०२७७२७ ४,३८६ ४१९
NR नर्मदामण्डलम् राजपिप्ला ५१४,०८३ ५९०३७९ २,७४९ १८७
NV नवसारिमण्डलम् नवसारि १,२२९,२५० १३३०७११ २,२११ ५५६
PA पटाणमण्डलम् पटाण १,१८१,९४१ १३४२७४६ ५,७३८ २०६
PM पञ्चमहलमण्डलम् गोध्रा २,०२४,८८३ २३८८२६७ ५,२१९ ३८८
PO पोरबन्दरमण्डलम् पोरबन्दर् ५३६,८५४ ५८६०६२ २,२९४ २३४
RA राजकोटमण्डलम् राजकोट ३,१५७,६७६ ३७९९७७० ११,२०३ २८२
SK साबरकाठामण्डलम् हिम्मतनगर २,०८३,४१६ २४२७३४६ ७,३९० २८२
SN सुरेन्द्रनगरमण्डलम् सुरेन्द्रनगर १,५१५,१४७ १७५५८७३ १०,४८९ १४४
ST सूरतमण्डलम् सूरत ४,९९६,३९१ ६०१९२३१ ७,६५७ ६५३
TA तापीमण्डलम् व्यारा ७१९६३४ ८०६४८९
VD वडोदरामण्डलम् वडोदरा ३,६३९,७७५ ४१५७५६८ ७,७९४ ४६७
VL वल्साडमण्डलम् वल्साड १,४१०,६८० १७०३०६८ ३,०३४ ४६५

बाह्यानुबन्धः [सम्पादयतु]

Government
अन्ये


  1. १.० १.१ Ranking of Districts by Population Size, 2001 and 2011. 2011 census of India. Government of India. दिनांकः 3 May 2012.