गुजरितोडिरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



गुजरितोडिरागः

आरोहणम् स रे ग म ध नि स
अवरोहणम् स नि ध म ग रे ग रे स
थाट्तोडि
समयःप्रातः ६ तः ९ वादनपर्यन्तम्
पक्कड(छायास्वराः)म ध नि ध म रे ग रे स

गुजरितोडिरागः (Gujaritodi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः। 'शुद्धतोडिरागस्य' उत 'मीया कि तोडिरागस्य' पञ्चमं स्वरं वर्जयामश्चेत् 'गुजरीतोडिरागः' भवति । उत्तराङ्गप्रधानः रागः भवति । अस्य रागस्य वादिस्वरः दैवतः (ध) भवति। संवादिस्वरः ॠषभस्वरः (र) भवति । प्रातः कालस्य प्रथमयामस्य कालः अस्य रागस्य प्रशस्तः कालः भवति । भक्तिरसस्य तथा करुणरसयोः प्रधानः रागः भवति।

श्यामा सुकेशी मलयद्रुमाणाम्,
मृदूल्लसत् पल्लवतल्पमध्ये।
श्रुतिस्वराणां दधती विभागम्
तन्त्रीमुखाद् दक्षिणगुर्जरीयम्॥

रामक्री तोडिसंयुक्ता वराटीमिश्रिता पुनः।
गुर्जरी जायते विद्वन् आद्ययामे प्रगीयते॥

  • आरोहः- स रे ग म ध नि स
  • अवरोहः- स नि ध म ग रे ग रे स
  • पक्कड – म ध नि ध म रे ग रे स

समयः[सम्पादयतु]

प्रातः ६ तः ९ वादनपर्यन्तम् उत्तमसमयः भवति।

थाट्[सम्पादयतु]

  • तोडि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुजरितोडिरागः&oldid=388659" इत्यस्माद् प्रतिप्राप्तम्