गुडः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुडः
गुडराशिः

अयम् आहारपदार्थः अपि भारते सर्वत्र उपयुज्यते एव । अयं गुडः अपि सस्यजन्यः आहारपदार्थः एव । अयं गुडः आङ्ग्लभाषायां jaggery इति वदन्ति । इक्षुरसं यदा उष्णीकुर्मः तदा अन्ते दृढः घनः च कश्चन पदार्थः प्राप्यते सः एव गुडः । इक्षुरसम् उष्णीकृत्य शुद्धीकृत्य गुडं सज्जीकुर्वन्ति । मधुरभक्ष्याणां निर्माणे गुडः एव प्रमुखं स्थानं वहति । सदा सर्वदा पाके अपि उपयुज्यते गुडः । इक्षुः किञ्चित् सस्यम् । ततः गुडस्य निर्माणं क्रियते ।


आयुर्वेदस्य अनुसारम् अस्य गुडस्य स्वभावः[सम्पादयतु]

गुडनिर्माणम्

गुडः न अत्यन्तं कफकरः । अयं मलमूत्रस्य प्रवृत्तिम् उत्पादयति । गुडस्य कालावधिं मनसि निधाय द्विधा विभज्यते । नूतनः गुडः, पुरातनः गुडः च इति ।

“नाति श्लेष्मकरो धौतः सृष्ट मूत्र शकृत् गुडः ।
वॄष्याः क्षतक्षीण हिताः रक्तपित्तानिरापहा ।
हृद्यः पुराण पथ्यश्च नवः श्लेष्माग्निसाधकृत् ॥“ (वाग्भट.सू.५-७)
राशीकृताः इक्षुदण्डाः
१. गुडः बलवर्धकः इति कारणतः व्रणितानां, श्रान्तानां च हितकरः ।
२. गुडः वातरोगं, रक्तपित्तं च शमयति ।
३. इक्षुरसस्य सम्यक् क्वथनावसरे स्वीकृत्य सज्जीकृतः उष्णः गुडः मधुरः, स्रोतसाम् अवरोधकः, त्रिदोषस्य परिहारकः (वातः, पित्तं, कफः च) च भवति ।
४. नूतनः गुडः जीर्णशक्तिं न्यूनीकरोति ।
५. गुडः मलमूत्राणां प्रवर्तकः ।
६. गुडः न बहु कफकरः ।
७. पुरातनः गुडः सर्वरीत्या अपि अत्युत्तमः ।
८. पुरातनः गुडः आम्ल-मधुररुचिमिश्रितः भवति । त्रिदोषान् निवारयति इति कारणतः पुरातनः गुडः मधुस्थाने औषधैः सह उपयोक्तुं शक्यः ।
९. गुडः शरीरे मेधस्, कीटं च जनयति । अतः उदरे कीटबाधा अस्ति चेत् गुडः अधिकप्रमाणेन न उपयोक्तव्यः ।
१०. मधुमेहे गुडः अपि न उपयोक्तव्यः एव ।
११. गुडेन सह काकमाचिफलं न खादनीयम् । तथा सेवनेन रक्तदोषः, चर्मव्याधिः च जायते ।
१२. क्षारयोजितः गुडः आहारेषु उपयोक्तुम् अत्युत्तमः । किन्तु औषधत्वेन न उपयोक्तव्यः ।
"http://sa.wikipedia.org/w/index.php?title=गुडः&oldid=270141" इत्यस्माद् पुनः प्राप्तिः