गुण्टूरुमण्डलम्
| గుంటూరు गुण्टूरुमण्डलम् |
|||||||
| City of chillies, City of Spices | |||||||
| — मण्डलम् — | |||||||
|
|
|||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| भूप्रदेशम् | आन्द्रप्रदेशः | ||||||
| राज्यम् | आन्ध्रप्रदेशः | ||||||
| मण्डलानि | गुण्टूरुमण्डलम्, | ||||||
| Mayor | रामाञ्जनेयुलु (अधिकारे वर्तते) | ||||||
| Municipal Commissioner | एन् । सुधाअकरः | ||||||
| M.P | आर् । सदाशिवराव् | ||||||
| सांसदक्षेत्रम् | गुण्टूरुमण्डलम् | ||||||
| योजनायोगः | GMC, VGTMUDA | ||||||
| जनसङ्ख्या • महानगरम् |
(2007[update]) • १४ (2007[update]) |
||||||
| लिङ्गानुपातः | 984[१] ♂/♀ | ||||||
| व्यावहारिकभाषा(ः) | तेलुगु, उर्दू[२] | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् • औन्नत्यम् |
६३.१५ square kilometres (. sq mi) • ३० metres ( ft) |
||||||
| वायुमण्डलम् • तलस्पर्षी |
Tropical (कॊप्पेन्) • ९८९.१ mm (. in) |
||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | www.gunturcorporation.org | ||||||
गुन्टूरु मण्डलम् आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं गुन्टूरुनगरम् ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
शौर्यपराक्रमादीनां जन्मभूमिः जातीयोद्यमान्ध्रोद्यमयोः स्पूर्तिप्रदायकं, बहूभिः राजकुटुम्बैः पालित- राजधानी गुण्टूरुमण्डलम् । शातवाहनराजाः धान्यकटकनाम्ना अमरावतीम्, इक्ष्वाकवः विजयपुरीनाम्ना नागार्जुनसागरम्, आनन्दगोत्रिजः चेजेर्लम्, विष्णुकुण्डिनः विनुकोण्डग्रामम्, वेलनाटिचोलराजाः तेनालि- समीपस्य धनपुरम्, इत्यादीः राजधानीः कृत्वा तेषु कालेषु सम्यग्रीत्या अपालयन् । एते सर्वे अपि अस्मिन् मण्डले विद्यमानाः एव । पल्नाडुसङ्ग्रामः कारम्पूडिमाचर्लप्रान्तयोः मध्ये संवृत्तः । ब्रीटिषाधिकारं निरुध्दवान् अत्रैव कन्नेगण्टि हनुमन्तमहाशयः । चीराल-पेरालशुल्कदान-निराकरणोद्यमः, दुग्गिराल-गोपालकृष्णय्यवर्येण चालितः अत्र ।
भौगोलिकम् [सम्पादयतु]
अस्य मण्डलस्य उत्तरस्यां दिशि नल्गोण्ड –कृष्णा मण्डले, दक्षिणदिशि प्रकाशमण्डलम्, पश्चिम- दिशि महबूबनगरमण्डलम्, प्राग्दिशि च बङ्गलाखातसमुद्रः कृष्णामण्डलं च वर्तन्ते । मण्डलेस्मिन् नल्लमला- रण्यम्, उन्नतपर्वताः च सन्ति । नीलशिलाः, वज्राणि, ताम्रम्, अयः इत्यादीनि खनिजानि उपलभ्यन्ते । सत्तेनपल्लीसमीपस्य कोल्लूरुग्रामपरिधौ वज्राणाम् उपलब्धिः आसीत् । माडुगुल, मल्लवरम्, सारङ्गपल्ली इत्यदिप्रान्तेषु वज्रनिधिः, पिडुगुराल्ल्- माचर्लमध्यप्रान्तेषु च नेलशिलानां निक्षेपाः सन्ति । मण्डले बहुलार्थसाधकसेतोः निर्माणम् आसीत् । नागार्जुनसागरप्रान्ते कृष्णानद्याः उपरि अस्य दक्षिणे भागे विद्यमानया कुल्यया मण्डलस्य कृषिभूमये जलं प्रेष्यते । अस्मिन् मण्डले पञ्चरेल्मार्गाः वर्तन्ते ।
कृषिः वाणिज्यं च [सम्पादयतु]
प्रधान-विनियोगसेद्यं धान्यम् । वाणिज्यनिमित्तं कलायः, कार्पासः, मरीचानां सेद्यं भवति । पञ्जसु स्थानेषु कृषिपरिशोधनकेन्द्राणि वर्तन्ते । मण्डले रेल् तथा रोड्मार्गः भूरि विस्तृतः । मण्डले बहूनि वाणिज्यक्षेत्राणि सन्ति वड्लमूडिप्रान्ते क्षीरोत्पत्तिकर्मागारः, जम्पनिप्रान्ते शर्कराकर्मागारः माचर्ला- सीतापुरप्रान्तयोः सिमेण्ट्- कर्मागारः च वर्तन्ते । बापट्ल्ग्रामे कृषिमहाविद्यालयः मङ्गलगिरिग्रामे कुटीरपरिश्रमाः सन्ति । कृषकाणां आसक्तिः वर्जिनिया तम्बाकु तथा उत्तमकार्पासस्य उत्पादने ।
वीक्षणीयस्थलानि [सम्पादयतु]
अमरावती- ग्रामे पुरातत्त्वशाखायाः प्रदर्शनशाला, चेजेर्लप्रान्ते कपोतेश्वरस्वामिदेवालयः वर्तते । अमरावती, पोन्नूरु, माचर्ला, चेब्रोलु, बापट्ल् च इत्यादिषु प्रान्तेषु प्राचीनशिल्पकलावैभवं प्रतिभाति । १९७६ तमे वर्षे गुण्टूरुसमीपे नागार्जुननगरे आचार्यनागार्जुननाम्ना विश्वविद्यालयः संस्थापितः । मण्डले विद्यमानाः विद्यालयाः सर्वे नागार्जुन- विश्वविद्यालयपरिधौ आयान्ति ।
तालुकाः [सम्पादयतु]
- ↑ "ZP chief talks tough on pre natal tests", The Hindu, 2007-09-04.
- ↑ http://www.languageinindia.com/april2003/urduinap.html