गुब्बि वीरण्ण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गुब्बिवीरण्णः इत्यस्मात् पुनर्निर्दिष्टम्)
Gubbi Veeranna
जन्म 1890
Gubbi, Kingdom of Mysore, India
मृत्युः 1974 (aged 83–84)
वृत्तिः Theatre director

चलच्चित्राणां कालस्य आगमनात् पूर्वं जनानां मनोरञ्जनकेन्द्राणि नाटकानि एव आसन् । कर्णाटके नाटकरङ्गस्य उन्नत्यै असंख्याकाः परिश्रमं कृतवन्तः सन्ति । तादृशेषु महानुभावेषु अत्यन्तं प्रमुखः अस्ति श्रीगुब्बिवीरण्णः(Gubbiveeranna)। कर्णाटके अत्यन्तं सुपरिचितायाः गुब्बिनाटकसंस्थायाः संस्थापकः आसीत् वीरण्णवर्यः। नटः निर्देशकः पोषकः च एषः समग्रं जीवनं रङ्गभूम्याः निमित्तं एव समर्पितवान् आसीत् । श्रीगुब्बि वीरण्णमहोदयः अनुभवेषु अभिनयेषु च प्रवीणः तथा वयसि अपि ज्येष्ठः इति कारणतः कन्नडवृत्त्तिरुपकरङगस्य पितामहः इति प्रसिद्धः अस्ति ।

जीवनं बाल्यं च[सम्पादयतु]

श्रीमतः हम्पण्णस्य श्रीमत्याः रुद्राम्बायाः पुत्रः वीरण्णः ।१८९० तमे वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे वीरण्णस्य जन्म अभवत् । प्राथमिकशालां प्रति गमनसमये एव सः नाटकरङगं प्रविष्टवान्। तदारभ्य तस्य कलासेवा निरन्तरं प्राचलत् । सः बाल्यादारभ्य नाटकमन्डल्याम् अभिनयति स्म ।

नाटकमण्डल्याः आरम्भः[सम्पादयतु]

१९१७ तमे वर्षे मण्डल्याः सः एव स्वामी अभवत् । एषा मण्डली एव अग्रे गुब्बि श्रीचेन्नबसवेश्वर- नाटक- मण्डली इति प्रसिद्धा अभवत् । एतस्याः मण्डल्याः द्वारा अनेकेषाम् उत्तमानां कलाविदां निर्माणं कृत्वा देशाय समर्पितवान्।

अभिनेता निर्देशकः च[सम्पादयतु]

श्रीवीरण्णमहोदयः उत्तमः हास्यकारः। सदारमे, नाटके चोरस्य पात्रं कृतवान् आसीत् । तत्र तेन कृतं हास्यपूर्णम् अभिनयं दृष्ट्वा जनाः आनन्दम् अनुभवन्ति स्म । सः मूकी –टाकि (सम्भाषणयुतानि, सम्भाषणरहितानि) चित्राणि च सज्जीकृत्य तेषु अभिनयं करोति स्म । श्रीवीरण्णमहोदयस्य इयं नाटकसंस्था ”’गुब्बिकम्पनी’” इत्येव प्रसिद्धा अभवत् । तैः प्रदर्शिर्तेषु नाटकेषु सदारमे , कृष्णलीला, कुरुक्षेत्रं , दशावतार , लव-कुश च प्रसिद्धानि अभवन्। वैभवयुतं रङगमण्डपं निर्माय आधुनिकैः तन्त्रै: यथा जना: इच्छेयु: तथा निपुणै: कलाविदै: अभिनयं कारयति स्म। अतः तस्य नाटकनि प्रसिद्धानि अभवन् । कुरुक्षेत्रं, दशावतार, लव –कुश इत्येतेषु नाटकेषु नैजं गजम् अश्वं हरिणं कपोतं च उपयुक्तवान्।

प्रशस्तयः[सम्पादयतु]

श्री वीरण्णमहोदय: हास्यपात्रणि अधिकतया करोति स्म । नाटकप्रेमिणः ”’नाटकरत्न"’, ”’विनोदरत्नाकर"’ इति बिरुदं दत्त्वा तस्य सम्माननं कृतवन्तः । तस्य अमूल्यसेवाम् अभिलक्ष्य मैसूरु -विश्वविद्यालयिया: गौरवडाक्टरेट्पदविं दत्तवन्त्त:। एषु दिनेषु नाटकसंस्थायाः शतमानोत्स्व: प्राचलत्। एतादृशी सुप्रसिद्धा वृत्तिनाटकसंस्था राज्ये अन्यत् नास्ति । एतादृश्याः श्रेष्ठतायाः भाजनभूतः डा जि एच् वीरण्णमहोदयः१९७२ तमे वर्षे दिवङगतः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुब्बि_वीरण्ण&oldid=481527" इत्यस्माद् प्रतिप्राप्तम्