गुरु गोविन्द सिंह

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गुरुगोविन्दसिंहः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुरुः गोविन्द सिंह
ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ
Guru Gobind Singh
जननम् गोबिन्द राय (जन्मनाम)
२२ डिसेम्बर् १६६६
पाटलीपुत्रम्, भारतम्
मरणम् ७ अक्टोबर् १७०८ (वयः आसीत् ४१)
नान्देड, नान्देडमण्डलम्
इतरनामानि दशमगुरुः, श्येनधारी, नीलाश्वचारी
प्रख्यातिः खालसा पन्थानः प्रवर्तकः
पूर्वगमः गुरु तेगबहादुर
पादानुध्यातः गुरु ग्रन्थ साहिब
पतिः/पत्नी माता जीतो अका माता सुन्देर कौर,
तथा माता साहिब कौर
अपत्यानि साहिबजादा अजीत सिंह, साहिबजादा जुझार सिंह,
साहिबजादा जोरावर सिंह, साहिबजादा फतेह सिंह
मातपितरौ गुरु तेगबहादुर, माता गुजरी

सिखमतम्
विषयेऽस्मिन् एकस्याः श्रेण्याः भागः

ॐ
सिखमतस्य गुरवः एवं भक्ताः
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव
सद्गुरुः अमर दास  · सद्गुरुः राम दास ·
सद्गुरुः अर्जन देव  ·सद्गुरुः हरि गोविन्द  ·
सद्गुरुः हरि राय  · सद्गुरुः हरि कृष्ण
सद्गुरुः तेग बहादुर  · सद्गुरुः गोबिन्द सिंह
भक्तः कबीर  · शेख फरीद
भक्तः नामदेव
धर्मग्रन्थाः
आदि ग्रन्थ साहिब · दशमग्रन्थः
सम्बन्धितविषयाः
गुरद्वारा · चण्डी ·अमृतम्
लङ्गर · खालसा पन्थ


गुरुगोविन्दसिंहः(Guru gobind singh) व्यक्तित्वम् अतीव विशिष्टम् | गुरुगोविन्दस्य प्रतापं, समाजमुद्दिश्य तस्य विचारधारां परिचाययन् विवेकानन्द:"स्मरतु ! भवान् देशसौभाग्यं यदि इच्छति तर्हि गुरुगोविन्दसिंहः इव भवतु । अस्माकं देशवासिन: सहस्रदोषाणां अन्वेषणावसरे तेषु हिन्दुरक्तं प्रवहतीति विषयं न विस्मरतु भवान् । ते भवतः हानिं कर्तुम् उद्यता: चेत् अपि न चिन्तयतु, तान् आराध्यदेवान् भावयित्वा पूजयतु । भवन्तं ते दूषयन्ति चेदपि तैः सह सस्नेहं सम्भाषणं करोतु । ते भवन्तं बहिष्कुर्वन्ति चेत् दूरं गत्वा शक्तिमान् गुरुगोविन्दसिंह इव मृत्युगुहायां सुखं निद्रातु । तादृशः एव नैजहिन्दुरुपेण स्थातुं शक्नोतीति आदर्शः अस्माकं पुरतः सर्वदा भवेत् । आगच्छतु वयं विवादान् सर्वान् अपसार्य आत्मीयताधाराः सर्वत्र प्रवाहयामः " इति अवदत्। अग्रे अपि तस्य विषये विवेकानन्दस्वामिनः वचनानि एवम् आसन्- "किञ्चित् लक्ष्यं स्वीकृत्य जनैः सह एकीभूय युद्धं कुरु । पक्षिभिः साकम् अपि युद्धं भवतु मिलित्वा युद्धं कुरु । तदा एव भवान् गुरुगोविन्दसिंहसदृश: भवितुम् अर्ह:"इति उक्तवान् ।अग्रे "पक्षिभिः साकं वा भवतु मिलित्वा युद्धं कुरु "इति उक्ति: लोकोक्तिरूपेण प्रसिद्धा अभवत्। सामान्यपक्षिषु अपि एतावतीं शक्तिं जागरयितुं आत्मविश्वासः यस्मिन् आसीत् स एव सिक्खानां दशमगुरुः गुरुगोविन्दसिंह इति ज्ञातव्यम् अस्माभि:। गुरुनानकेन आरब्धा गुरुपरम्परा दशमगुरुणा समाप्ता ।' अस्मदनन्तरं गुरुग्रन्थसाहिबः एव गुरु: इति भावनीयम्’ इति गुरुगोविन्दसिंहेन कृता व्यवस्थैव इदानीमपि आचरणे प्रचलति । समाजं संस्कर्तुम्, एकात्मताम्, अखण्डतां, धर्मे निष्ठां च समाजे निर्मातुं, तदद्वारा एकं शुभपरिणामं साधयितुमेव गुरुनानकः सिक्खपथम् आरब्धवान् । अनेकान् विघ्नान् अस्मिन् प्रयत्ने सः सधैर्यं सम्मुखीकृतवान् । गुरुतेजबहदूरस्य आत्मार्पणानन्तरं तस्य अनुयायिभि: अनेकसमस्याः सम्मुखीकृता: । त्यागस्य आत्मसमर्पणस्य च अपेक्षां पूरयितुं एकं नायकत्वम् आवश्यकम् आसीत् । तदा निकषोपले परीक्षितमिव गुरुगोविन्दसिंहस्य स्वरूपं प्रकटितम् अभवत् ।

बाल्यम्[सम्पादयतु]

गुरुगोविन्दसिंहस्य जन्मस्थानम्

गुरुगोविन्दस्य बाल्ये जाता काचित् घटना । औरङ्गजेबस्य अत्याचारान् सोढुम् अशक्ता: केचन काश्मीरब्राह्मणाः गुरुतेजबहदूरस्य समीपमागतवन्तः । तेभ्यः अत्याचारेभ्यः विमोचनं प्राप्तुं 'कमपि उपायं सूचयतु' इति प्रार्थितवन्तः । गुरुतेजबहदूरः विचारे मग्नः । पितरं विचारमग्नं दृष्ट्वा बालः गोविन्दसिंहः कारणं पृष्टवान् । गुरुतेजबहदूरः -"कस्यापि महापुरुषस्य आत्मसमर्पणेनैव एषा समस्या परिहृता भविष्यति"इति विवृतवान् । तस्या: समस्याया: परिहारं सूचयितुम् इव बालगोविन्दः अवदत् -"भवतः अपेक्षया महापुरुषः अन्यः अपेक्ष्यते किम् ?" इति । तदा गोविन्दस्य वयः केवलं नववर्षाण्येव । एतावति लघुवयसि तस्य मनोस्थैर्यं,दृढविश्वासं स्पष्टं वच: दृष्ट्वा श्रुत्वा च गुरुतेजबहदूरस्य हृदये आनन्दतरङ्गा: उद्भुता:। तदनन्तरं देहल्यां गुरुतेजबहदूरस्य आत्मसमर्पणं नूतनेतिहासम् एव अजनयत् । गुरुपीठस्वीकरणात् पूर्वमेव गुरुगोविन्दस्य एतादृशदूरदृष्टिः आसीत् । पितरमेव समर्पयितुं सिद्धः एषः वीरकिशोरः एतामेव भावनां स्वकुटुम्बजनानां मनस्सु अपि दृढमारोपितवान् । गुरुगोविन्दस्य द्वौ पुत्रौ हसन्तौ एव युद्धरङ्गे कूर्दनं कृतवन्तौ । अन्यौ द्वौ कनिष्ठपुत्रौ सजीवसमाधिं प्राप्तवन्तौ । तयोः मुखतः 'परित्रायताम्’ इति बाधाकरः दीनः आर्तस्वरः अपि न निर्गतः । तथा स्वकुटुम्बं सर्वमपि समर्प्य समाजस्य पुरतः, देशस्य पुरतः एकम् आदर्शं स्थापितवान् गुरुगोविन्दसिंहः । तावदेव न संन्यासं, वैराग्यं प्राप्तवतः एकस्य युवकस्य हृदये नवीनमुत्साहं, सम्यग्जीवनदृष्टिं च सः निर्मितवान् । अनन्तरकाले सः युवक एव बन्दाबैरागी भूत्वा विदेशीयसर्वकारस्य यमराजः जातः । देशहितार्थं सर्वस्वार्पणे एव स्वजीवनसाफल्यमस्तीति अनुभूतिं प्राप्तवान् च । अक्बरेण निर्मिता राजकीयपरा शान्तिः यदा नष्टा अभवत् तदा गुरुगोविन्दः जातः । तदा एव औरङ्गजेबस्य कुटिलविधानानां कारणेन पञ्जाबे, महाराष्ट्रे च सङ्घर्षाणाम् आरम्भः अभवत् । सत्यमेवमस्ति यत् अन्यमतानां विषये असहिष्णुता औरङ्गजेबतः न आरब्धा, शाहजहानकालतः एव सा अनुवर्त्यमाना आसीत् । १६३२ ईशवीयाब्दे शाहजहानः स्वराष्ट्रे नूतनदेवालयानां निर्माणं न करणीयमिति शासनं कृतवान् । निर्मीयमाणानां देवालयानां भञ्जनं कारितवान् । अक्बरेण कृतः गोवधनिषेधः अपि तदा अपनीतः । एतेषां सर्वेषां फलस्वरुपेण मुघलशासनं प्रति जनानां विरोधः वर्धते स्म । अम्धुरासमीपे जाटजातीयाः भूस्वामिनः गोकुलस्य नायकत्वे क्रान्तिं कृत्वा मुघलसेनानायकं, तस्य सैनिकान् च अमारयन् । तदा गुरुगोविन्दस्य वयः केवलं त्रीणि वर्षाण्येव । यद्यपि पालकाः तस्य विप्लवस्य शमनं कृतवन्तः तथापि अन्तरग्निः ज्वलन्नेवासीत् । गुरुगोविन्दे पञ्चवर्षप्राये सति राजा छत्रसालः औरङ्गजेबं विरुध्य युद्धं कुर्वन्नासीत् । अनन्तरवर्षे एव 'नारनेल' प्रान्तीयाः सतनामीसम्प्रदायजनाः युद्धं कृतवन्तः । तेन औरङ्ग्जेबस्य सेनानिवहाः अकम्पन्त । 'दुर्गादास'स्य, 'महाराणाराजसिंह'स्य च वीरगाथाः श्रुत्वा त्रयोदशवर्षीयस्य गुरुगोविन्दस्य शरीरं पुलकितं भवति स्म ।

तत्कालीनसमाजस्थितिः[सम्पादयतु]

तस्मिन् स्मये हिन्दुसमाजः कुलमतादिद्वेषैः बहुधा विभक्तः बलहीनः च आसीत् । विदेशीयानाम् आक्रमणं विरोद्धुमपि अशक्तः आसीत् । एतादृशस्थितेः कारणतः पञ्जाबप्रान्तस्य अन्तिमपालकस्य अनङ्गपालस्य अनन्तरं गुरुनानकपर्यन्तं तन्नाम ४५० वर्षाणि यावत् हिन्दुसमाजस्य सहयोगं दातुम् एकोऽपि पुरतः नागतवान् । 'गुरुनानकः' पञ्जाबे स्थितान् पीडितान्, उपेक्षितान्, आत्मविस्मृतिमतः जनान् ऐदम्प्राथम्येन जागरितवान् । एतादृशसामाजिकराजकीयपरिस्थितिषु गुरुगोविन्दस्य जननम् अभवत् । विक्रमशकवर्षे १७२३ तमे वर्षे (ईशवीये१६६६) ४७६८ कलियुगाब्दे कार्तिकशुद्धसप्तम्यां तस्य जन्म अभवत् । गुरुतेजबहदूर: स्वपत्न्या गुजारि इत्यनया अन्यैश्च कैश्चित् शिष्यैः सह प्राग्भारतयात्रायै प्रस्थितः । अन्तर्वत्नीं पत्नीं कैश्चित् शिष्यैः सह 'पाट्ना’ नगरे त्यक्त्वा सः असमप्रदेशं गतावान् । तत्र एव सः गुरुगोविन्दस्य जन्मवार्तां ज्ञातवान् । पितुः आत्मसमर्पणानन्तरं गुरुगोविन्दः गुरुपीठं स्वीकृतवान् । तदा तस्य वयः नववर्षाण्येव । तदनन्तरम् अष्टवर्षाणि यावत् सः आनन्दपुरे एव स्थित्वा शस्त्रशास्त्रादिविद्याः अभ्यस्तवान् । तस्य शिष्याणां कृतेऽपि शिक्षणव्यवस्थां कृतवान् । बहुदूरप्रदेशेभ्यः आगतेभ्यः कविभ्यः आश्रयं कल्पितवान् । सुदूरप्रान्तेषु व्याप्तानां सिक्खजनानां कृते आज्ञापत्रं प्रेषयित्वा शस्त्राणि, धनं च एकत्रीकृतवान् । एकां लघुसेनां निर्माय तान् सैनिकान् सर्वयुद्धविद्यासु निपुणान् कृतवान् ।

गुरुगोविन्दस्य प्रथमः सङग्रामः[सम्पादयतु]

१६८९ तमे वर्षे एप्रिल् मासे गुरुगोविन्दः स्वजीवने प्रथमसङ्ग्रामे भागं गृहीतवान् । गुरुगोविन्दस्य प्रवर्धमानां शक्तिं दृष्ट्वा अन्येषु राजसु भीतिरवर्धत । जातीयताभावप्रेरकान् गुरुगोविन्दस्य प्रयत्नान् विफलान् कर्तुं ते सर्वे एकीभूताः । कलिहारराज -भीमचन्द्रपुत्रस्य अज्मीरचन्द्रस्य विवाहसन्दर्भे सर्वे राजानः गढवाले स्वसेनाभिः सह समाविष्टाः । विवाहानन्तरं गोविन्दसिंहम् आक्रान्तुं सिद्धाः जाताः । एतां वार्तां ज्ञात्वा 'पावुटा’ ग्रामे स्थित: गोविन्दसिंहः युद्धव्यूहे भागरूपेण 'भङ्गानि’ ग्रामे सैन्यं निवेश्य स्वयमपि सङ्ग्रामे भागं गृहीतवान् । पञ्जाबे 'सिंहीरा’ प्रान्ते फकीरेण (महम्मदीयसंन्यासिना ) सय्यद् बहदूरशाहेन सह ग्रुरुतेजबहदूरस्य घनिष्ठसम्बन्धः आसीत् । तस्य सूचनानुसारं गुरुगोविन्दसिंहः पञ्चशतं पठानसैनिकान् स्वसैन्ये स्वीकृतवान् । किन्तु कालेखान् इति सेनानायकं विहाय सर्वेपि सैनिकाः शत्रुपक्षे सम्मिलिताः । सय्यद् बहदूरशाहः एतं विषयं ज्ञातवान् । अनुक्षणं स: स्वीयसप्तशतशिष्यैः, चतुर्भिः पुत्रैश्च सह गुरुगोविन्दस्य साहाय्यं कर्तुं प्रस्थितवान् । सय्यदबहदूरस्य पुत्रद्वयम्, अनेके शिष्याः च युद्धे मृताः । तस्मिन् युद्धे गुरुगोविन्दः जयं प्राप्तवान् । पर्वतीयराजाः स्वसेनया सह पलायिताः । गुरुगोविन्दसिंहः विजयलक्ष्म्या सह आनन्दपुरं प्राप्तवान् । समुचिते समये सहकृतवानिति सय्यदं सवैभवं सत्कृतवान् । अनन्तरं सः लोहगढ, आनन्दगढ, केशगढ, फतेगढ इत्यादिदुर्गाणि निर्मितवान् । पराजिताः राजानः सर्वेऽपि गुरुगोविन्दसिंहेन सह सन्धिं कृतवन्तः । ते राजानः औरङ्गजेबाय करप्रदानमपि परित्यक्तवन्तः । अत: मुघलसेनाः तेषां राज्यानि आक्रान्तुम् आगताः । किन्तु गुरुगोविन्दसिंहस्य साहाय्येन ते मोघलसैनिकान् पलायितान् कृतवन्तः । केषाञ्चन दिनानामनन्तरं पुनः ते राजानः स्वदौर्बल्यकारणतः मुघलचक्रवर्तिना सह सन्धिं कर्तुं सिद्धाः अभवन् । औरङ्गजेबस्य आदेशेन सुबेदारस्य दिलावरखानस्य सेना तस्य पुत्रस्य रुस्तुमस्य नेतृत्वेन गुरुगोविन्दसिंहम् आक्रान्तुं प्रस्थिता । पक्षद्वयं युद्धाय सिद्धम् अभवत् । किन्तु युद्धप्रारम्भसमये तत्र प्रवहन्त्यां नद्यां दुर्भरजलाप्लावकारणतः मुघलसैनिकाः प्रवाहिता: । तदनन्तरं हुसेनखानः इति सेनापतिः राजभ्यः धनं लुण्ठितुम् आरब्धवान् । गुरुगोविन्दसिंहस्य सेना तमपि पराजित्य पलायितं कृतवती । तस्मिन् समये दक्षिणे स्थितः औरङ्गजेबः तां वार्तां श्रुत्वा स्वपुत्रं मुआज्झमं सेनया सह प्रेषितवान् । मुघलसेना अन्यान् राज्ञः जितवती, आनन्दपुरं तु सुरक्षितमासीत् । एतान् सर्वान् विषयान् गुरुगोविन्दसिंहः स्वस्य "' विचित्रनाटकम्"' इति ग्रन्थे लिखितवान् । मुघलसैनिकाः परिवृत्य गताः, तथापि यदाकदापि तैः सह सङ्घर्ष: अनिवार्य: इति गुरुगोविन्दसिंहः जानाति स्म । अत एव सः सर्वदा पुनरपि सन्नद्धः सन् योग्यं बलं सिद्धं कर्तुं प्रयतमानः आसीत् । समाजे स्थितः सम्पन्नवर्गः समाजे परिवर्तनम् आनेतुं नाङ्गीकरोतीति, तेन परिवर्तनेन स्वस्य विशिष्टं स्थानं नष्टं भवतीति भयमनुभवतीति च सः जानाति स्म । अत एव समाजस्थान् सामान्यजनान् समीकर्तुम् प्रयत्नं प्रारब्धवान् ।

वैशाखीपर्वदिनम्[सम्पादयतु]

गुरुगोविन्दसिंहः वैशाखीपर्वदिनस्य सन्दर्भे सहस्रश: उपस्थितानां शिष्याणां पुरतः उपविष्टवान् आसीत् । तदा सर्वान् विस्मितान् कुर्वन् सः स्वस्य कोशतः खड्गं निष्कास्य पृष्टवान् -‘युष्मासु केऽपि धर्मार्थं प्राणत्यागं कर्तुं सिद्धाः सन्ति वा ?’इति । प्रश्नश्रवणेनैव सभायां कलकलरवः आरब्धः । स च कोलाहलः वर्धमानः आसीत् । तदा गुरुगोविन्दसिंहः पुनः द्वित्रवारं तमेव प्रश्नं पृष्टवान् । तावता लाहोरप्रान्तीयः क्षत्रिययुवकः दयारामः उत्थाय 'अहमस्मि’ इति वदन् पुरतः आगतः । गुरुगोविन्दसिंहः तम् अन्तः नीतवान् । ततः पूर्वमेव तत्र बद्धस्य अजस्य शिरः कर्तयित्वा रक्तसिक्तेन तेन खड्गेन बहिरागतवान् । पुनः तमेव प्रश्नं पृष्टवान् । इदानीं देहलीतः आगतः जाट् जातीयः युवा धर्मदासः पुरतः आगतवान् । तमपि अन्तः नीतवान् । बहिरागत्य पुनः तमेव प्रश्नं पृष्टवान् । तृतीयपर्याये द्वारिकानिवासी रजकः मोहनचन्दः पुरतः आगतवान्, तमपि पूर्वजनद्वयमिव अन्तः नीतवान् । एवं पुनः द्विवारं पृष्टे सति जगन्नाथपुरीवासी पाचकः हिम्मतः, बीदरवासी क्षौरिक: साहबचन्दः पुरतः आगतवन्तौ ।

प्रतिज्ञास्वीकारः[सम्पादयतु]

गुरुगोविन्दसिंहः एतेषां पञ्च जनानां कृते सुन्दरवस्त्राणि धारयित्वा तान् 'पाञ्चप्यारे '(प्रिया: पञ्चजना:) इति सम्बोधितवान् । तान् यदा सः सभां प्रति आनीतवान् सदस्या: साश्चर्यं लज्जया च नताः । एतेषु पञ्चप्रियजनेषु एकः एव क्षत्रियः अन्ये सर्वेऽपि निम्नवर्ग इति भाव्यमानवर्गीया एव आसन् । गुरुगोविन्दसिंहः प्रथमं तेभ्य: दीक्षां दत्तवान् । सर्वान् विस्मापयन् स्वयमपि तां दीक्षां स्वीकृतवान् । यद्यपि स: एव गुरु: आसीत् तथापि गुरुस्थाने खालसां स्थापयित्वा सामान्यखालसा इव तान् सेवितवान् । अनन्तरं तैः सह उपविश्य भोजनं कृतवान् । स्वस्य सर्वाधिकारान् तेभ्यो दत्तवान् । तैः प्रतिज्ञां कारितवान् स्वयमपि तां प्रतिज्ञां कृतवान् च । एवं गुरुगोविन्दसिंहः स्वस्मात् पूर्वं नवपुरुषेभ्यः खालसापद्धतिं प्रति आनीतवान् । सः - 'ईश्वरस्य निश्चलाराधने एव तीर्थयात्रा, दानं दया,तपः, संयमनं च अस्तीति यः भावयति, यस्य हृदये पूर्णज्योतिषः प्रकाशोऽस्ति सः पवित्राकार एव "खालसा" इति’तथैव 'धनिक-निर्धन-कुल-वर्गभावान् नाशयित्वा सर्वे समाना एव' इति प्रकटितवान् । सर्वेषामपि नाम्नामन्ते सिंहशब्दः भवेदिति आदिष्टवान् च । अस्मिन् समये एव स्वकीयं नाम अपि गुरुगोविन्दसिंह इति परिवर्तितवान् ।

ईश्वरस्य विजयो निशिचतः[सम्पादयतु]

गुरुगोविन्दसिंहः बाह्यकार्याणां , चिह्नानां च अद्भुतां शक्तिं ज्ञातवान् । तेन प्रारब्धस्य दीक्षासंस्कारस्य "पहुल" इत्यस्य वास्तविकः अर्थः एष एव । पहुलसंस्कारे सर्वे मिलित्वा कयाचित् विशिष्टया प्रक्रियया स्वीकृतं जलं अमृतमिति भावयन्ति । सः एकं नूतनम् उद्घोषं कृतवान्- "वाहे गुरुजीका खालसा -वाहे गुरुजी के फते"खालसा ईश्वरीयं भवति - ईश्वरस्य विजयो निशिचतः इति तस्य अर्थ:। सः एतां दीक्षां स्वीकृतवन्तं सर्वमपि सिक्खजनं पञ्चबाह्यचिह्नानि धारयितुं आदिष्टवान् । पञ्चककाराणि इति व्यवह्रियमाणानि तानि सन्ति - केशबन्धनं (केश), शिरसि कङ्कतिकास्थापनं (कङ्गा), कङ्कणधारणं (कडा), कट्यां पट्टवस्त्रधारणं (कच्छ), सर्वदा खड्गधारणं (कृपाण) इति । एतान् नियमान् सर्वोऽपि दीक्षापरः अवश्यं पालयेत् इति सः निश्चितवान् । समर्पणं, परिशुद्धता, दैवभक्तिः, शीलं, शौर्यं इत्येतान् भावान् एतानि चिह्नानि स्मारयन्तीति सः भावितवान् । खालसापन्थस्य निर्माणे बहुविघ्नाः जाताः । 'पहुल्’ दीक्षास्वीकरणानन्तरं सिक्खजनाः स्वगृहाणि गत्वा तस्याः प्रचारं प्रारब्धवन्तः । किन्तु कहलूरस्य राजा एतां दीक्षां दुष्टाम्, आपत्कारिणिञ्च मत्वा भीतः । गुरुगोविन्दसिंहः एकं मतसम्प्रदायं सम्पूर्णराजनैतिकव्यवहारेषु मेलयतीति कहलूरुराजः नेच्छति स्म । सः एकस्मिन् पत्रे गुरुगोविन्दसिंहम् आनन्दपुरं त्यक्त्वा कुत्रापि गच्छ्तु इति प्रार्थितवान् । किन्तु गुरुगोविन्दसिंहः नाङ्गीकृतवान् । एतमेव समुचितसमयं भावयित्वा पर्वतीयराजाः विंशतिसहस्रसंख्याकैः सैनिकैः सहिताः गुरुगोविन्दसिंहेन सह युद्धं कर्तुम् आगतवन्तः । गुरुगोविन्दसिंहस्य समीपे केवलम् अष्टसहस्रसंख्याकाः एव सैनिकाः आसन् । तथापि खालसासेनया एव जयः प्राप्तः । 'रोपार्’ पर्यन्तं खालसासेना शत्रून् पलायितान् कृतवती । एषः सङ्ग्रामः ईशवीये १७००तमवर्षे जातः । पराजिताः राजानः निराशया औरङ्गजेबस्य समीपे एकं प्रतिनिधिं प्रेषितवन्तः । तेन सह प्रेषिते पत्रे गुरुगोविन्दसिंहस्य शक्तिं तद्द्वारा वर्धमानाः समस्याः, तेन धृतानां राजचिह्नानां विषयं च सूचितवन्तः आसन् । गुरुगोविन्दसिंहः स्वयमेव चक्रवर्तीति आत्मानं भावयतीति, एतेन औरङ्गजेबस्य शासनं सङ्कटे पतितमिति च भयम् उत्पादितवन्त: । औरङ्गजेबः सत्वरं योग्याः प्रतिचर्याः कृतवान् । सरहिन्दे, एवं लाहोरे स्थितं सुबेदारद्वयं गुरुगोविन्दसिहम् आक्रान्तुं प्रेषितवान् । किन्तु अस्मिन् युद्धेऽपि मुघलसेना पराजिता । कहलूरुराजः पुनः प्रयत्नं कृत्वापि निराशः एव जातः । पर्वतराजानां मनोबाधा अवर्धत । समयं दृष्ट्वा गुरुगोविन्दसिंहं प्रहर्तुं ते प्रयतमानाः आसन् । तदा एव सय्यदबेग्, अलीखान् इत्येतौ मुघलसेनान्यौ लाहोरतः देहलीम् आगच्छन्तौ आस्ताम् । पर्वतीयराजाः ताभ्यां प्रतिदिनं द्विसहस्ररूप्यकाणां प्रदाननियमेन गुरुगोविन्दसिंहेन सह योद्धुम् आहूतवन्तः आसन् । तयोः सेनायां दशसहस्रम् आयुधधारिणः सैनिकाः आसन् । गुरुगोविन्दसिंहः चमकौत इति स्थाने स्वसेनया सह सिद्धः आसीत् । तत्रैव तेषां मध्ये युद्धं प्राचलत् । गुरुगोविन्दसिंहस्य पराक्रमेण, सौजन्येन प्रभावितः सय्यदबेगः तस्य पक्षं प्रविष्वान्। स्वस्य मित्रेण कृतम् एतत्कार्यम् आलीखानस्य मनःस्थैर्ये कुठाराघात इवाभवत् । सः युद्धभूमिं त्यक्त्वा पलायितवान् ।

आनन्दपुरनिर्बन्धः[सम्पादयतु]

पर्वतराजानां, बलवतां स्वीयसेनानायकानां च पराजयं श्रुत्वा औरङ्गजेबः चिन्ताक्रान्तः अभवत् । बृहतीं सेनावाहिनीं अप्रेषयत् । तस्यां सेनायां सरहिन्दस्य, लाहोरस्य जम्मुप्रान्तस्य च राज्ञां सेनापि सम्मिलिता आसीत् । द्वाविंशतिः पर्वतराजाः स्वसेनाभिः सह तत्रासन् । गोविन्दसिंहः स्वशक्त्यनुसारं युद्धाय सिद्धोऽभवत् । प्रारम्भे पर्वतराजानां सेना, मुघलसेना च खालसासेनायाः पुरतः स्थातुं नाशक्नोत्त् । किन्तु केषुचित् दिनेष्वेव विशाला मुघलसेना आनन्दपुरम् आक्रान्तवती । आनन्दपुरस्य बाह्यजगता सह सम्बन्धः त्रुटितः । अपि च तस्मिन् पट्टणे धान्यस्य जलस्य चाभावः अजायत । क्षुधया, तृषया च सैनिकाः क्षुब्धाः । "दुर्गं त्यक्त्वा बहिरागच्छन्ति चेत् सुरक्षितं त्यजाम" इति मुघलसेनानायकः खुराने, पर्वतराजाः गीतायां च शपथं कृत्वा सन्देशान् प्रेषयन्ति स्म । केचन सैनिकाः 'अङ्गीकरोतु’ इति गुरुं पीडयन्तः आसन् । तदा गुरुः "ये गन्तुमिच्छन्ति ते गन्तुमर्हन्ति, किन्तु 'गुरुशिष्यसम्बन्धं स्वयं त्रोटयामः’ इति लिखित्वा यच्छन्तु" इति अवदत् । ४० सिक्खजनाः तथा विलिख्य दत्वा दुर्गं त्यक्त्वा गतवन्तः । दुर्गस्य निर्बन्धः इतोऽपि दृढः जातः । अष्टमासानाम् अनन्तरं गुरुगोविन्दसिंहः अपि दुर्गं त्यक्त्वा गमनं निश्चितवान् । स्वमातरं, पत्नीः, चतुरः पुत्रान् अजितसिंहं, जुजुरसिंहं, जोरावरसिंहं, फतेसिंहं, स्वमित्राणि च स्वीकृत्य सः दुर्गं त्यक्त्वा बहिर्गतवान् |

कालरात्रिः[सम्पादयतु]

ईशवीय १७०४ तमे वर्षे डिसेम्बर् मासे २१ दिनाङ्कस्य अर्धरात्रम् । गुरुगोविन्दसिंहः दुर्गात् बहिः आगतवानिति शात्रवः ज्ञातवन्तः । ते स्वशपथान् विस्मृत्य गुरुगोविन्दसिंहं ग्रहीतुं सरसानद्याः तटे वृष्टौ अपि युद्धम् आरब्धवन्तः । गुरुगोविन्दसिंहः स्वपुत्रौ अजितसिंहं, जुजुरसिंहं, अन्यान् च ४० संख्याकान् शिष्यान् स्वीकृत्य चमकौरदुर्गं प्राप्तवान् । तस्य अन्ये कुटुम्बसदस्या: तेन वियुक्ताः । अन्तिमबालकद्वयं जोरावरसिंहः, फतेसिंहः च मात्रा सह पूर्वतनपाचकस्य गङ्गारामस्य ग्रामं गतवत् । किन्तु सः विश्वासघातुको भूत्वा एतान् वञ्चितवान् । बालकद्वयं सरहिन्दस्य सुबेदाराय वजीरखान् इत्यस्मै द्त्तवान् । वजीरखानः तयो: द्वयो: बालकयो: ईशवीये १७०४ तमे वर्षे डिसेम्बरमासे २७ तमे दिनाङ्के सजीवसमाधिं कारितवान् । गुरुगोविन्दस्य माता एतां वार्तां श्रुत्वा मनोवेदनया प्राणान् त्यक्तवती । तयो: सजीवसमाधेः पूर्वं राजा महम्मदीयमतस्वीकरणार्थं प्रेरितवान्, भवन्तौ यद् इछतः तद् ददामीति च प्रलोभं दर्शितवान् । किन्तु तौ नाङ्गीकृतवन्तौ । " अस्माकं धर्मः अस्माकं प्राणेभ्योऽपि प्रियतरः । आवयोः अन्तिमश्वासपर्यन्तं आवां तं न त्यजावः । आवां गुरुगोविन्दसिंहस्य पुत्रौ । आवयोः पितामहः गुरुतेजबह्दूरः धर्मरक्षणार्थं स्वजीवनस्य आहुतिं कृतवान् ।" इति दृढं समाहितवन्तौ । तेन कोपोद्रिक्तः राजा तयोः सजीवसमाधिं कारितवान् । समाधिनिर्माणसमये ज्येष्ठस्य नेत्रयोः अश्रूणि दृष्ट्वा कनिष्ठः "अग्रज ! भवतः नेत्रयोः जलं किमर्थं निर्गच्छति ? भवान् आत्मसमर्पणात् भयं प्राप्नोति वा ?" इति पृष्टवान् । ज्येष्ठः समादधत् अक्तवान् - "भवान् अमायकः, अहं ,मृत्युं दृष्ट्वा न बिभेमि । अपि च मृत्युरेव मां दृष्ट्वा बिभेति। अत एव सा प्रथमं भवत: समीपम् आगच्छन्ती अस्ति । कनिष्ठः भवान् प्रथमम् आत्मसमर्पणं करोतीति अहं दुःखितोऽस्मि " इति । विश्वेतिहासे एतादृशं विशिष्टं प्राणदानं प्रायः कुत्रापि नोदाहृतम् । एतादृशौ लघुबालकौ धर्मार्थम् आत्मार्पणं कृतवन्तौ इति घटना इतिहासे कुत्रापि न दृश्यते । गुरुगोविन्दसिंहस्य सुन्दरी, साहिबादेवी इति द्वे पत्न्यौ स्वसोदरेण मणिसिंहेन सह देहलीं गतवत्यौ । चमकौरदुर्गे जाते युद्धे गुरुगोविन्दस्य ज्येष्ठौ पुत्रौ मृतौ । दुर्गमाश्रित्य स्थितवभ्दिः ४० जनैः तत्र स्थातुमश्कयमिति ज्ञात्वा गुरुगोविन्दसिंहः अवशिष्टमित्रत्रयं स्वीकृत्य दुर्गं त्यक्तवान् । अन्यान्यदिक्षु ते प्रस्थिताः । 'माचीवाडा’ अरण्येषु कण्टकानां मध्ये, पादरक्षारहिताभ्यां पादाभ्यां, पर्णादीनि खादन् गुरुः अटन्नासीत् । वस्त्राणि जीर्णानि । पादरक्षाभ्यां विना अटनेन पादयोः किणाः जाताः । अतः अटितुमशक्तः कुत्रचित् विश्रान्तिं स्वीकृतवान् । तदा तत्रैव सः नजीखान, गनीखान् इत्येताभ्यां पठानाभ्यां मिलितवान् । तयोः गुरौ अत्यन्ता भक्तिः आसीत् । गुरुगोविन्दसिंहः यदा आनन्दपुरे आसीत् तदा तौ मध्य-आसियातः अश्वान् आनीय तस्मै विक्रयणं कुरुत: स्म । पश्चात् मुघलसेना अस्ति, स्वयम् आपदि पतिष्यावः इति ज्ञात्वापि तौ गुरुं रक्षितवन्तौ । गुरुगोविन्दसेनं महम्मदीयसन्न्यासिनं (फकीर्) इव कृष्णवर्णवस्त्राणि धारयित्वा 'उच्च-का-पीर्’ इति वदन्तौ एकस्यां शिबिकायाम् उपवेश्य प्रस्थितौ । उच्च इत्यस्य अर्थद्वयमस्ति । प्रथमः अर्थः अस्ति -उन्नतः इति, द्वितीयः अस्ति -मुल्ताननगरसमीपस्थं महम्मदीयानां पुण्यक्षेत्रम् इति । कदाचित् मुघलसेनायां केषाञ्चन सन्देहः जातः । प्रश्नोत्तरानन्तरमपि तेषां सन्तृप्तिः नाभवत् । विचारणार्थं काजी पीरमहम्मदम् आहूतवन्त: । भाग्यवशात् सः काजी (महम्मदीयपुरोहितः)गुरुगोविन्दसिंहस्य बाल्ये तस्मै पारशीभाषां बोधयन् आसीत् । अतः स तत्रत्यस्थितिं ज्ञात्वा समीकर्तुं किमपि उक्त्वा मुघलसेनां प्रतिप्रेषितवान् । गुरुगोविन्द: तत्रैव निवसति स्म। केषाञ्चन दिनानामनन्तरं जोरावरसिंहः फतेसिंहश्व मृताविति हृदयविदारिका वार्ता प्राप्ता । शनैः शनैः पूर्वतनमित्राणां मेलनं प्रारब्धम् । पुनः शक्तिवर्धनम् आरब्धम् । तस्मिन्नेव समये सरहिन्दस्य सुबेदारः वजीरखानः गुरोः अन्वेषणमारब्धवान् । गुरोः सेना यदा 'खिण्डराणा’ मध्ये आसीत् तदा पक्षद्वयं परस्परसम्मुखमभवत् । युद्धं जातम् । तत्र वजीरखानस्य सेना पराजिता । सिक्खसेनया आनन्देन उत्सवः कृतः । मुघलसेना विषादे मग्ना आसीत् ।

औरङ्गजेबस्य आह्वानम्[सम्पादयतु]

अस्मिन् युद्धे विशेषोऽस्ति । ४० सिक्खवीराः अत्यन्तं वीरोचितं युद्धं कुर्वन्तः प्राणार्पणं कृतवन्तः । ते चत्वारिंशत् एव आनन्दपुरदुर्गतः गुरुशिष्यसम्बन्धं त्रोटयित्वा गतवन्तः आसन्। स्वप्राणान् समर्प्य ते पूर्वतनस्य अपराधस्य प्रायश्चित्तं कृतवन्तः । तदारभ्य सिक्खजनाः स्वकीयदैनन्दिनप्रार्थानायां "चत्वारिंशत् मुक्ताः"इति नाम्ना तान् सश्रद्धं स्मरन्ति । एतद् युद्धं खिण्डराणा इत्यत्र यत् अभवत् सः प्रदेशः एतेषां वीरत्वसूचकः 'मुक्तसर्’ इति नाम्ना प्रसिद्धः । प्रतिवर्षं माघमासे एतेषां स्मरणे अत्र महान् उत्सवः भवति । गुरुगोविन्दसिंहः ततः 'तल्वण्डिसाहब्’ ग्रामे स्थितस्य स्वमित्रस्य डल्ला इत्यस्य समीपं गतवान् । वस्तुतः एषः प्रदेशः श्रेष्ठतमः । पञ्जाबे स्थितानां अत्यन्तपुरातनवंशानां ज्येष्ठाः, अन्यराजवंशीयाश्च अत्र आसन् । ते सर्वे गुरुतः दीक्षां स्वीकृत्य खालसापथम् आगतवन्तः । अत्र आगमनानन्तरं गुरुः गुरुग्रन्थसाहिबं पुनः रचितवान् । शनैः शनैः सः प्रदेशः अध्ययनस्य केन्द्रम् अभवत्। एवमेव न, सः प्रदेशः 'सिक्खजनानां काशी’ इति प्रसिद्धश्च । चरित्रकाराणां कथनानुसारम् अत्र यदा गुरुः निवसन् आसीत् तदा औरङ्गजेबः गुरुगोविन्दसिंहं मेलितुम् आहूतवान् । तस्य उत्तररूपेण गुरुः औरङ्गजेबेन पूर्वं कृतां विश्वासघातुकरीतिं स्मारयन् लेखं लिखितवान् । औरङ्गजेबः अनुक्षणं स्वीयसेनापतीन् आहूय गुरुगोविन्दसिंहस्य काऽपि समस्या न भवेदिति उक्त्वा गौरवपूर्वकं तं स्वसमीपमानेतुम् आज्ञप्तवान् । तदा औरङ्गजेबः अहम्मदनगरे आसीत् । १७०६तमे वर्षे अक्टोबरमासे गुरुः राजस्थानतः दक्षिणां दिशं प्रस्थितः । मार्गे राजपुत्राः राजानः तस्य विषये हार्देण स्वागतेन गौरवं प्रदर्शितवन्तः । प्रयाणमध्ये एव १७०७ वर्षे फेब्रवरि मासे २० दिनाङ्के औरङ्गजेबः दिवङ्गत इति वार्ता श्रुता । तदा गुरुगोविन्दसिंहः देहलीं गत्वा स्वपत्नीद्वयेन मिलितवान् । औरङ्गजेबस्य मरणानन्तरं तस्य पुत्राः सिंहासनार्थं परस्परं कलहायमानाः आसन् । तदा तेषु अन्यतमः मुअज्जम् गुरुगोविन्दसिंह्स्य आशीर्वादं प्राप्तुम् आगतवान्। अनन्तरं स एव बहदुरशाह नाम्ना देहलीसिंहासनम् अधिष्ठितवान् । केषाञ्चन दिनानामनन्तरं बहदुरशाहः गुरुगोविन्दसिंहम् आहूय सत्कृतवान् च । सत्कारसन्दर्भे सम्प्रदायानुसारं स्वस्मै दत्तं मुकुटं धर्तुं गुरुः न अङ्गीकृतवान्। मुकुटं स्वशिष्यद्वारा स्वनिवासं प्रति प्रेषितवान् । बहदुरशाहः तं एकम् ऋषिपुङ्गवम् इव भावयति स्म । देहलीचक्रवर्ती गुरुगोविन्दसिंहं गुरुमिव यद्यपि पश्यति स्म तथापि गुरुः बहदुरशाहं स्वमित्रमिव भावयति स्म । बहदूरशाहः स्वसोदरस्य कम्बख्तस्य दुष्कृत्यानि शमयितुं सेनया सह यदा दक्षिणां दिशं प्रस्थितवान् तदा गुरुः अपि तेन सह प्रस्थितवान्। मुघलसेनाः पुरतः गच्छन्त्यः आसन्, किन्तु गुरुः गोदावरीतीरस्थे नान्देड् ग्रामे स्थितवान् ।

माधवदासनामा विरागी[सम्पादयतु]

उज्जयिन्यां दावूद् धर्मसम्बन्धिनं नारायणदासेन गुरुगोविन्दसिंहः यदा मिलितवान् आसीत् तदा सः नारायनदस:-'नान्देड् ग्रामे कश्चन विरागी अस्ति, सः अद्वितीयशक्तियुतः, भवता स: द्रष्टव्य:' इति उक्तवान् ।तं विरागिणं माधवदासं गुरुगोविन्दसिंहः नान्देड्पट्टणे मिलितवान् । गुरुगोविन्दसिंहः तस्य आश्रमं यदा गतवान् तदा सः आश्रमे नासीत् । गुरुः तस्य पीठे उपविष्टवान् । माधवदासः आगत्य गुरुगोविन्दसिंहं आसनतः अवरोहयितुं स्वस्य मन्त्रविद्याः प्रयुक्तवान्, ताः गुरौ अप्रयोजकाः अभवन् माधवदासः गुरोः महत्त्वं ज्ञातवान् । गुरुगोविन्दसिंहः तस्मै कर्मसन्देशं श्रावितवान् । देशस्थाः परिस्थितीः विवृतवान् । विरागी माधवदासः गुरोः उपदेशेन प्रभावितः स्वयं तस्य बन्दा(दासः) इति प्रकटितवान् । एवं विरागी माधवदासः बन्दाविरागी (बन्दाबैरागी) जातः । स्वजीवनसर्वस्वं गुरवे समर्पितवान् । गुरुगोविन्दसिंहः स्वस्य उत्तराधिकारिरूपेण तं पञ्जाबं प्रेषितवान् ।

गुरुगोविन्दस्य मृत्युः[सम्पादयतु]

नान्देड् प्राप्त्यनन्तरं एकमासाभ्यन्तरे एव गुरुगोविन्दसिंहस्य जीवनलीला समाप्ता अभवत् । ईशवीये १७०८त्मे वर्षे अक्टोबर सप्तमदिनाङ्के कश्चन पठान् सैनिकः तं खड्गेन आक्रान्तवान् । गुरुः तस्मिन् समये विश्रान्तिम् अनुभवन् आसीत् । समीपे तस्य रक्षकरूपेण कोऽपि नासीत् । गुरुः पार्श्वस्थं खड्गं निष्कास्य तं पठानं मारितवान् । गुरोः आक्रोशेन शिष्याः आगत्य पठानस्य अनुचरद्वयं मारितवन्तः । अनुक्षणं गुरोः व्रणेषु औषधं लेपयित्वा उपशामितवन्तः । त्रिचत्वारि दिनानि अतीतानि । किन्तु स्वस्य अन्तिमसमयः आसन्न इति ज्ञात्वा गुरुगोविन्दः शिष्यान् समीपम् आहूय 'वाहे गुरुजी के फते’ इति वदन् प्राणपरित्यागं कृतवान् मरणसमये तस्य आयुः केवलं ४२ वर्षणि । नान्देडे तस्य स्मरणार्थं निर्मितं गुरुद्वारामन्दिरं 'हुजूरसाहेब्’ नाम्ना तीर्थक्षेत्रमेव जातम् अस्ति । भगवद्गीतायां भगवता श्रीकृष्णेनोक्तम् -‘यदा यदा धर्मस्य हानिः भवति, तदा अहम् अवतारं स्वीकरोमि।’ इति गुरुगोविन्दसिंहः अपि एवमेवोक्तवान् । 'धर्मपरिरक्षणं कृत्वा, साधुसज्जनान् रक्षितुमेव अहं जन्म प्राप्तवान् ।’ इति । साधुजनरक्षणं , दुष्टानां विनाशनं भवति चेदेव धर्मः लोके स्थिरः भवति । एतद् ज्ञात्वा एव गुरुगोविन्दसिंहः आयुधधारणं कृत्वा युद्धं कृतवान् ।

तेगस्य जयो भवतु[सम्पादयतु]

गुरुः दारिद्र्येण पीडितोऽपि स्वजीवनं सर्वमपि आत्मविश्वासं नष्टवति समाजे पुनः आत्मविश्वासस्य, साहसस्य च प्रतिष्ठापनाय समर्पितवान् । डा. नारङ्गेन उक्तं कृपाणात्, गोलकास्त्रतः च दूरे तिष्ठन्तः सामान्यजनाः अपि वीराः भूत्वा युद्धं कृतवन्तः । क्षुरकाः, रजकाः, चर्मकाराः अपि सर्वेषां विस्मयं जनयन्तः वीराः जाताः । गुरुगोविन्दसिंहः स्वरचनेषु परमात्मानं बहुविधं वर्णितवान् । तस्मै 'काल’स्य नाम अत्यन्तं रोचते स्म । " सज्जनानां शुभकल्पनाय, दुष्टानां विनाशाय, विश्वं सुस्थिरं कर्तुं च मया कृतायाः प्रतिज्ञायाः सम्पादनार्यं तेग (खड्गः) एक एव साधनम् । तेग की जय हो (खड्गस्य जयोऽस्तु) ।" इति सः लिखितवान् ।

कवित्वम्[सम्पादयतु]

हिन्दीभाषायां वीरकविषु चान्द बरदाय्, भूषण इति नामद्वयं अधिकतया श्रूयते । भूषणकविः वीररसे अग्रस्थाने अस्ति। किन्तु गुरुगोविन्दसिंहः वीररसे सहजकविः । धर्मयुद्धार्थमेव सः कवित्वं लिखितवान् । एतादृशलेखकः अन्यः कोऽपि न दृश्यते । स्वस्य 'चण्डीचरित' काव्ये 'स्वयं वीरगतिं प्राप्नुयाम्’ इति आकाङ्क्षामपि अभिव्यक्तवान् गुरुगोविन्दसिंहः । डाक्टर् महेशसिंहः गुरुगोविन्दसिंहस्य तत्त्वमुद्दिश्य एवं लिखितवान् -" एषः विषयः अस्माभिः अवगन्तव्यः । गुरुगोविन्दसिंहः महम्मदीयान् विरुध्द्य युद्धं कृत्वा आवेशं न प्रदर्शितवान् । केवलं तुर्कजनान् विरुध्द्य एव सः सङ्ग्रामं कृतवान् । सः म्लेच्छशब्दं प्रयुक्तवान् । एष एव विशेषः भूषणस्य कवित्वेऽपि दृश्यते । छत्रपतिः शिवाजी, गुरुगोविन्दसिंहः इत्यादयः यां शक्तिं विरुध्द्य युद्धं कृतवन्तः तां राजनैतिकशक्तिं तुर्कशब्दः सूचयति।"

वीरभक्तः[सम्पादयतु]

गुरुगोविन्दसिंहः सर्वामपि हिन्दुशक्तिं सङ्घटितवान् इत्यत्र शैव-शाक्तेय-वैष्णव-साहित्यानुवादः प्रमाणरूपेण दृश्यते । तस्य स्वभावोऽपि अद्वितीयः अस्ति । सः कश्चन भक्तः । अन्यायं विरुद्ध्य प्रजाभिः कर्तव्यस्य उद्यमस्य महानायकः अपि सः । सूरदासः,कबीरदासः|कबीरदासः]],गुरुनानकः इत्यादयः सर्वेऽपि भक्ता एव । किन्तु गुरुगोविन्दसिंहः वीरत्वयुक्तः भक्तः । एवमेव मानवाः सर्वे समाना इति, सर्वेषां हृदयेषु एकम् एव भगवतः ज्योतिः ज्वलतीति तस्य अचलः विश्वासः।

रणोत्साहः[सम्पादयतु]

गुरुगोविन्दसिंहस्य जीवनसमये देशः महत्यां विपदि आसीत् । विदेशीयानाम् आक्रमणमारभ्य ६०० वर्षाणि अतीतानि । प्रजानाम् उपरि अत्याचारैः कञ्चित्कालं, सङ्घर्षणैः कञ्चित्कालं, मध्ये,मध्ये सज्जनत्वेन च कञ्चित्कालं देशे विदेशीयानां शासनं प्रचलितम् । स्वीयां सर्वां शक्तिं भारतदेशसंस्कृतेः धार्मिकविश्वसानां विनाशायैव उपयुक्तवतां औरङ्गजेब- इत्यादीनां शासनं प्रचलितम् । तादृशस्थितौ तां राक्षसशक्तिं निग्रहीतुं देशप्रजानां पालने पीड्यमानजनानां सङ्घटनं रचितवान् । सामान्यजनानां विचारेषु परिवर्तनस्यैव सः अधिकप्राधान्यं दत्तवान् । आत्मविस्मृतिं दूरीकृत्य तेषु आत्मविश्वासं जनयितुं सः "लक्षेणापि जनैः एको भूत्वा युद्धं कुरु" इति रूपेण उत्साहं जनितवान् । अत एव भारतदेशेतिहासे तस्य विशिष्टं स्थानं कल्पितमस्ति ।

"http://sa.wikipedia.org/w/index.php?title=गुरु_गोविन्द_सिंह&oldid=278330" इत्यस्माद् पुनः प्राप्तिः