गुरु नानक देव

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गुरुनानकः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुरु नानक देव
ਗੁਰੂ ਨਾਨਕ ਦੇਵ
गुरु नानक-देवः अन्यसिखगुरुभिः सह
१९ शतकस्य तञ्जोर्-चित्रकला यत्र १० सिक्खगुरवः चित्रिताः ।
मध्ये विराजते - गुरुनानकः
जननम् नानक देव
१५ एप्रिल् १४६९
राइ भोइ की तल्वाण्डी,

देहलीसुलतानसाम्राज्यम्
(वर्तमाने गुरद्वारा जनमस्थान,

नानक साहिब, पाञ्जाब, पाकिस्तान)
मरणम् २२ सेप्टेम्बर् १५३९ (वयः आसीत् ७०)
करतारपुर, मुघलयुगः
मरणस्थानम्/समाधिः गुरद्वारा दरबार साहिब करतारपुर,
पाञ्जाब, पाकिस्तान
सक्रियवर्षाणि १४९९–१५३९
पादानुध्यातः गुरुः अङ्गद देव
पतिः/पत्नी माता सुलाखनी
अपत्यानि बाबा श्री चान्द तथा बाबा लखमी दास
मातपितरौ बाबा मेहता कलु तथा माता तृप्ता

सिखमतम्
विषयेऽस्मिन् एकस्याः श्रेण्याः भागः

ॐ
सिखमतस्य गुरवः एवं भक्ताः
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव
सद्गुरुः अमर दास  · सद्गुरुः राम दास ·
सद्गुरुः अर्जन देव  ·सद्गुरुः हरि गोविन्द  ·
सद्गुरुः हरि राय  · सद्गुरुः हरि कृष्ण
सद्गुरुः तेग बहादुर  · सद्गुरुः गोबिन्द सिंह
भक्तः कबीर  · शेख फरीद
भक्तः नामदेव
धर्मग्रन्थाः
आदि ग्रन्थ साहिब · दशमग्रन्थः
सम्बन्धितविषयाः
गुरद्वारा · चण्डी ·अमृतम्
लङ्गर · खालसा पन्थ


गुरु नानक (About this sound उच्चारणम् )[१] (पञ्जाबी: ਗੁਰੂ ਨਾਨਕ; हिन्दी: गुरु नानक, उर्दू: گرونانک, ऐ पी ए-[ˈɡʊɾu ˈnɑnək] Gurū Nānak)'सत्यं सर्वश्रेष्ठम् । तदपेक्षया सत्यजीवनम् अतीव श्रेष्ठम् । सत्यमिदम् अङ्गीकर्तुं जातिमतकुलादयः अवरोधाः नैव भवन्ति । मानवीयता आवश्यकी 'इति वदति स्म ।


जीवनम्[सम्पादयतु]

गुरुनानकः १४६९ तमे वर्षे एप्रिल्मासस्य १५ दिनाङ्के जन्म प्राप्नोत् । अद्यत्वे इदं दिनं 'प्रकाशदिन'त्वेन आचर्यते । हिन्दु खत्रिकुटुम्बे राय् भोय् दि तल्वाडिग्रामे सः जातः । अधुना अयं प्रदेशः पाकिस्थाने लाहोरसमीपे 'ननकानासाहिब्'नामकः अस्ति । अद्यत्वे तस्य जन्मस्थानं 'गुरुद्वार जनम् अस्थान्' इति निर्दिश्यते । अस्य पिता कल्याणचन्ददासबेडी, 'कालू मेहता' इति परिचितः आसीत् । सः तल्वाण्डिग्रामस्य पट्वारी (गणनापरिशोधकः) आसीत् । माता तृप्तादेवी । तस्य अग्रजा आसीत् बीबिनानकी या आसीत् धर्मपरायणा ।

नानकी जयरामेण परिणीता । ततः सा तेन सह सुल्तान्पुरम् अगच्छत् यत्र जयरामः लाहोरस्य राज्यपालस्य दौलतखान्लोदेः साहायकः आसीत् । भारतीयसम्प्रदायानुगुणं गुरुनानकः अपि अग्रजया सह सुल्तानपुरम् अगच्छत् । १६ वर्षीयः गुरुनानकः दौलतखानस्य कार्यालये एव कार्यं प्राप्नोत् ।

बालकनानकस्य विद्यालयगमनम्

बाल्यकालादेव गुरुनानके प्रज्ञाविकासः दृश्यते स्म । पञ्चमे वयसि एव दैविकविषयेषु तदीया आसक्तिः दृश्यते स्म । सप्तमे वयसि तं पिता कालूमेह्ता ग्रामस्य विद्यालयं प्रेषितवान् । बालः नानकः प्रथमस्य वर्णस्य साङ्केतिकम् अर्थं शिक्षकं व्यवृणोत् । कदाचित् मध्याह्ने सुप्तवतः शिशोः नानकस्य आतपात् रक्षणाय उद्युक्तः सर्पः रायबुलारेण दृष्टः इति श्रूयते । तदारभ्य रायबुलारः गुरुनानकं दैवस्वरूपं मन्यते स्म ।

सर्पेण छायाकृतं नानकं दृष्ट्वा नतमस्तकः रायः

गुरुसमाजेन तस्य गुरुनानक् इति बिरुद: दत्त: । कार्तिकपूर्णिमादिने गुरुनानकजयन्ती सर्वत्र प्रचाल्यते । पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । "तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति" इति वदति स्म। न केवलं तत्, " दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति" इति स: प्रतिवदति स्म। "तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति" इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । 'कृषिं कुरु' इति पिता प्रार्थितवान् । "मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति" इति भागवततत्त्वं ज्ञापयति स्म । "प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् " इत्यवदत् । बाह्यसौन्दर्यसहितानां कर्मणामपेक्षया आत्मसौन्दर्यमेव श्रेष्ठम् । तदेव भगवतः समीपं प्रापयतीति तस्य विश्वासः। अद्वितीयः, सद्रूपः, सत्यस्वरूपः, सर्वव्यापकः, सृष्टिकर्ता, पुरुषोत्तमः, निर्भयः, निर्वैरः, कालातीतः, अभवः, स्वयंभूः, विज्ञानदाता, दयामयः इति भगवच्छब्दस्य निर्वचनं दत्तवान् स:। जातस्य हि ध्रुवो मृत्यु:। गुरुनानकः कर्तारपुरग्रामे अन्तिमसन्देशं दत्त्वा समाधिस्थितिं प्राप्तवान् । गुरुनानकः अस्माकं प्रातःस्मरणीयेषु अन्यतमः । देहदण्डनमात्रेण का मुक्तिरविवेकिनाम्। वल्मीकताडनादेव मृतः किन्नु महोरगः ॥ गुरुनानकः (पञ्जाबी: ਗੁਰੂ ਨਾਨਕ; हिन्दी: गुरु नानक, उर्दु: گرونانک)(१५ एप्रिल् १४६९ - २२ सेप्टेम्बर् १५३९) सिक्खमतस्य संस्थापकः । दशसु सिक्खगुरुषु अयं प्रथमः । सिक्खजनानां विश्वासः वर्तते यत् अग्रिमाः गुरवः गुरुनानकस्य दैविकतां धार्मिकपाण्डित्यं प्राप्तवन्तः इति । अतः एव ते सर्वे अपि 'नानक'पदेनैव निर्दिश्यन्ते स्म ।

जीवनचरितम्[सम्पादयतु]

गुरुनानकस्य जीवनचरितं 'जनम्सखीस्' 'वार्स्' ग्रन्थयोः उपलभ्यते । समीपसहवर्तिना भाईबालेन सुप्रसिद्धः जनम्सखीग्रन्थः लिखितः अस्ति । तस्य ग्रन्थस्य लेखनशैल्याः भाषायाः च परिशीलनेन ज्ञायते यत् मरणोत्तरं लिखितं स्यात् इति । गुरुग्रन्थसाहिबस्य लिपिकारः भाई गुरुदासः अपि गुरुनानकस्य विषये अलिखत् । इदमपि गुरुनानकस्य निर्गमनानन्तरम् एव लिखितमस्ति । जनम्सखिस्-ग्रन्थे यावत् विवरणम् उपलभ्यते तावत् अत्र नास्ति । जनम्सखीस्ग्रन्थे तस्य जननावसरस्य विवरणं सूक्ष्मतया लिखितमस्ति । गुरुनानकस्य जातकं लेखितुं यः आगतः सः शिशुं नमस्कुर्वन् उक्तवान् इति - 'एतस्य जीवनदर्शनस्य भाग्यं मम नास्ति इति मे मनः खिद्यते' इति ।

सिक्खमतम्[सम्पादयतु]

गुरुननकस्य भ्रमणमार्गः

स्थानीयभूस्वामी राय् बुलरः गुरुनानकस्य अग्रजा बीबिनानकी च आदौ तस्य दैवगुणान् अभिज्ञातवन्तौ । अध्ययनाय प्रवासाय च तौ नानकं प्रोत्साहितवन्तौ । सिक्खसम्प्रदाये उल्लिख्यते यत् १४९९ तमे वर्षे यदा सः ३० वर्षीयः आसीत् तदा तेन दर्शनं किञ्चित् प्राप्तम् इति । तीर्थस्नानार्थं गतः गुरुनानकः न प्रत्यागतः । तदीयानि वस्त्राणि स्थानीयतीरप्रदेशे दृष्टानि । दिनत्रयम् अतीतम् । नद्या नीतः स्यात् इति सर्वे अचिन्तयन् । दौलत्खानः नद्याः शरीरं प्राप्तुं प्रायतत । किन्तु न प्राप्तम् । चतुर्थे दिने प्रत्यक्षः गुरुनानकः मौनम् आश्रितवान् । परेद्यवि तेन घोषितम् - 'कोऽपि हिन्दुः न । न वा यवनः । कस्य मार्गम् अनुसरेयम् ? अहं देवस्य मार्गम् अनुसरामि । अहं देवेन नीतः आसम् । तत्र देवः अमृतं दत्त्वा अवदत् - 'इदं देवस्य नाम्नः महिम्ना पूर्णः । पीयताम् । अहं भवता सह अस्मि । भवति मम अनुग्रहः अस्ति । भवन्तं ये स्मरेयुः ते मम अनुग्रहभाजः भवन्ति । गम्यताम् । मम नाम् अनुभूयताम् । अन्यान् अपि बोधयतु । इदं भवतः कर्तव्यम् ।' इति । ततः सिक्खमतस्य उगमः जातः । नानकः गुरुः इति अङ्गीकृतः ।

मक्कानगरे गुरुननकः

तेन चत्वारः प्रमुखप्रवासाः कृताः इति निर्दिश्यते । आदौ तेन पूर्वदिशि असम-वङ्गप्रदेशं प्रति अगच्छत् । द्वितीये प्रवासे सः तमिलुनाडुराज्यं प्रति अगच्छत् । तृतीयप्रवासवसरे काश्मीर-लडख्-टिबेट्प्रति अगच्छत् । अन्ते तु पश्चिमदिशि भाग्दाद्-मेक्का-मदीनां प्रति अगच्छत् इति श्रूयते । गुरुनानकः अरुणाचलप्रदेशं प्रविष्टवान् । आदौ सः ल्हासा (टिबेट्) प्रदेशं तवाङ्गद्वारा भूतानतः प्राविशत् ।

वैयक्तिकजीवनम्[सम्पादयतु]

गुरुनानकस्य पत्नी माता सुलख्नी । षोडशवयसि एव तस्य विवाहः बतलनगरे जातः । तयोः पुत्रद्वयं श्रीचन्दः लक्ष्मीचन्दश्च ।

दैवे ऐक्यम्(Jyoti Jyot Samaye)[सम्पादयतु]

'भाई लेह्ना' अग्रिमः गुरुः इति नियुक्तवान् गुरुनानकः । तस्मै गुरु अङ्गदः इति पुनः नामकरणम् अकरोत् । घोषणस्य अनन्तरं केषुचित् एव दिनेषु गुरुनानकः दैवे ऐक्यतां प्राप्नोत् । तदा तस्य वयः आसीत् ७० वर्षाणि ।

उपदेशः[सम्पादयतु]

गुरुनानकस्य उपदेशाः सिक्खधर्मग्रन्थे गुरुग्रन्थसाहिबे उपलभ्यते । नीतिबोधकाः श्लोकाः गुरुमुखौ विद्यन्ते ।

गुरुनानकः अहङ्कारस्य अपायान् व्यवृणोत् । देवनामस्मरणात् एव मुक्तिः इति बोधयति । देवस्य पूजा निस्वार्थयुता भवेत् । देवनाम व्यक्तिं शुद्धीकरोति । ततः पूजां कर्तुं शक्यते । इतः अवगम्यते यत् देवः एव कर्ता । तं विना अन्यः नास्ति इति । असत्यं कपटस्वभावश्च मानवान् अधोमार्गं नयन्ति । ततः कृतानि धार्मिककार्याणि अपि व्यर्थतां गच्छन्ति । गुरुनानकस्य उपदेशाः त्रिधा आचर्यन्ते -

  1. वण्ड छक्को - अन्यैः संविभज्य जीव्यताम्, अन्येषाम् आवश्यकताम् अवगत्य साहाय्यं क्रियताम् ।
  2. कीरत् करो - जीविका ऋजुमार्गेण अर्जयितव्या, शोषणद्वारा अन्यायमार्गेण कदापि न ।
  3. नाम जपना - नामजपद्वारा देवः सर्वदा भजनीयः ।

गुरुनानकः नामजपस्य अत्यन्तं महत्त्वम् अयच्छत् । 'गुरुमुख' - ज्ञानिनः आश्रयितव्याः । 'मनमुख' - मनसः इच्छानुसारं न वर्तनीयम् ।

टिप्पणी[सम्पादयतु]

  1. गुरु नानक इति पदं कदाचित् भिन्ननाम-उपाधेः वाच्यं भवति । यथा बाबा नानक, नानक शाह इत्यादि ।

बाह्यशृङ्खला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गुरु_नानक_देव&oldid=278327" इत्यस्माद् पुनः प्राप्तिः