गुरुरावदेशपाण्डे

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुरुरावदेशपाण्डे
Gururao Deshpande 1.jpg
व्यैक्तिकतथ्यानि
मूलतः भारतीयः
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
वृत्तिः गायकः




गुरुरावदेशपाण्डे (Gururao Deshpande) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः गायकः। गुरुरावः १८८९ तमे वर्षे गौरवान्विते देशपाण्डेकुटुम्बे अजायत । तस्य पिता नारायणरावः माता गङ्गाबाई । मातापित्रोः कलासाहित्यादिषु विशेषासक्तिः आसीत् । नारायणरावः कर्णाटकसङ्गीतज्ञः आसीत् । किन्तु पुत्रः न्यायवादी भवेत् इति तस्य आशयः आसीत् । किन्तु गुरुरावः हिन्दुस्तानीसङ्गीतात् नितराम् आसक्तः आसीत् इत्यतः पितुः आशयः पूर्णः न जातः । गुरुरावः अपूर्वेण मधुरध्वनिना अनुगृहीतः आसीत् । हिन्दुस्तानीसङ्गीते तस्मिन् विद्यमानं प्रीत्यतिशयम् अभिज्ञातवन्तौ मातापितरौ तस्य सङ्गीताभ्यासाय योग्यां व्यवस्थाम् अकल्पयताम् । दशवर्षीयं पुत्रं सङ्गीताध्ययनाय श्री दत्तोपन्तजोषी, श्री टि के पित्रे इत्यनयोः प्रसिद्धसङ्गीतज्ञयोः समीपं प्रेषितवन्तौ । १९१९ तमे वर्षे गुरुरावः सङ्गीतस्य गभीरं ज्ञानं प्राप्तुं सुप्रसिद्धस्य ग्वालियर्-घरानातज्ञस्य पण्डितस्य रामकृष्ण बुवा वझे वर्यस्य समीपं बेळगावनगरं प्रति अगच्छत् । ग्वालियर्-गायकि-विषये समीचीनं मूलज्ञानं प्राप्तवान् गुरुरावदेशपाण्डे विविधानाम् उस्ताद्-नामकानां सङ्गीतज्ञानां सङ्गीतं श्रोतुमेव उत्तरदिशि दीर्घप्रवासम् अकरोत् । श्रेष्ठानां सङ्गीतस्य श्रवणात् तेन अपूर्वः अनुभवः गभीरं ज्ञानं च सम्पादितम् । उस्ताद् अब्दुल् करीम् खान्, उस्ताद् फियाझ् खान्, उस्ताद् मञ्जि खान्, श्रीमती केसर्बाई केर्कर् - इत्येतेषाम् आदर्शयुतं जीवनम्, शास्त्रीयसङ्गीतविषयिणी बद्धादरता च तस्मिन् महान्तं परिणामम् अजनयत् ।

बाल्यजीवनम्[सम्पादयतु]

कदाचित् कोल्हापुरे प्रसिद्धस्य सरोदिया उस्ताद् हफिझ् अलि खानस्य सङ्गीतसभा, जैपुर-अत्रौलि-घरानायाः पिता इति ख्यातस्य उस्ताद् अल्लादिया खानस्य गृहे आयोजिता आसीत् । तद्दिने तस्य आगमने विलम्बः भविष्यति इति ज्ञातम् । तदा अल्लादिया खान् साहेबस्य पुत्रः शिष्यश्च उस्ताद् मञ्जिखानः तत्र विद्यमानं युवगायकं 'तस्य आगमनपर्यन्तं भवान् गायतु' इति अवदत् । तत्र उपस्थितानां सङ्गीतदिग्गजानां पुरतः गानं न सामान्यकर्म । किन्तु युवगायकः अग्रे आगत्य नटबिहागरागालपनेन सर्वेषां मनः अतोषयत् । तस्य गानात् उस्ताद् अल्लादियाखानः नितरां प्रभावितः जातः । सः युवगायकम् उद्दिश्य अवदत् - 'पुत्र, भवतः गानम् अत्युत्तममस्ति । गायतु, गायतु' इति । ततः सः पुत्रम् उद्दिश्य अपृच्छत् - 'एषः कस्य शिष्यः ?' इति । पुत्रः मञ्जिखानः अवदत् - 'एषः वाझे बुवाशिष्यः अस्ति' इति । खानसाहेबः अपृच्छत् - 'किन्तु पुत्र, एषः अस्माकं घरानायाः गानं कथं गायन् अस्ति ?' इति । मञ्जिखानः अवदत् - 'एषः मां गुरुः मन्यते' इति । सन्तुष्टः अल्लादियाखानः अवदत् - 'एतं शीघ्रं शिक्षकं करोतु' इति । अयं युवगायकः आसीत् गानाचार्यः गुरुरावदेशपाण्डे

गुरुरावस्य गानम्[सम्पादयतु]

निर्दिष्टस्य घरानामात्रस्य गानस्य सम्प्रदायः गुरुरावेण परित्यक्तः । सः आसीत् अत्युत्तमः सङ्गीतज्ञः । तदीयं सङ्गीतं बहूनां घराणानां सङ्गमरूपम् आसीत् । सीमातीतस्थितिं प्रति नयनयोग्यम् आसीत् । तदीयं सङ्गीतं सर्वदा मनोहारि भवति स्म । साधारणाः जनाः, विमर्शकाः, सङ्गीतज्ञाश्च सर्वेऽपि तस्य सङ्गीतस्य श्लाघनं कुर्वन्ति स्म । आलापः, तान्, लय, लयकारी, कृतिः वा स्यात् सः तस्य पूर्णाभिव्यञ्जने समर्थः आसीत् । ग्वालियर्-घरानाशैल्यां कृतभूरिपरिश्रमः सः सर्वासां घरानाशैलीनां सौन्दर्यावगमे अत्युत्सुकः आसीत् । किराणा-घराणालापे सुरे 'सुर्', सुरे 'रस्', विविधरागाणां कृते योग्यस्य 'लय'स्य उपयोगः, जैपुरघरानायाम् अप्रसिद्धानां रागाणां निरर्गलप्रस्तुतिः, आग्राघरानायां धाङ्ग् (शैली), 'नाम्-ताम्'आलापः, 'चीझ् भाव्' (कृतिः)उपस्थापनम् इत्यादीनि तदीयानि वैशिष्ट्यानि । गुरुरावः मान्त्रिकगायकः आसीत् यः प्रत्येकस्मिन् बिन्दौ सिन्धोः समग्रतायाः आनयने, विविधघराणानां वयनेन नूतनस्य एकीभावस्य आविर्भवने च सुनिपुणः सः । अत एव परिपूर्णगायकः इति सर्वैः अभिज्ञातः आसीत् । तस्य सङ्गीतं सरलमाधुर्येण श्रव्यमनोहरम् आसीत् । अत्युत्कृष्टस्य अपूर्वरीत्या परिष्कृतस्य आशुप्रतिभायाश्च संयोगरूपम् आसीत् तदीयं सङ्गीतम् । अशीत्यधिके आयुषि अपि तस्य शक्तिः उत्साहश्च अनुकरणयोग्यौ आस्ताम् । रागाणां नूतनविस्तारे सर्जनेन तेषाम् अपूर्वतायाः पवित्रतायाः समचित्ततायाश्च दर्शनं कारयति स्म सः ।

सपत्नीकः गुरुरावः

गुरुरावः साम्प्रदायिकगायकत्वेन अपि अत्यन्तं यशस्वी, सर्वघरानापद्धतेः तद्विद्यः सन् स्वीयं गानं सम्पूर्णतया ससन्तोषम् अनुभवन् अन्यानपि तोषयति स्म । अतः एव तस्य सङ्गीतं गुरुराव-घराना इत्येव प्रसिद्धं जातम् । अनुपमगायकाः अपि उत्कृष्टसङ्गीतस्य विषये कथनावसरे अस्य उल्लेखं कुर्वन्ति स्म । अद्यत्वे अपि उपलभ्यमानं तदीयं यमन्-बसन्त्-खम्बवति- कन्नडनाट्यसङ्गीतादीनां ध्वनिमुद्रणम् इमम् अंशं सप्रमाणं प्रतिपादयन्ति । गुरुरावः ठुम्रि-टप्प-इत्यादिभिः युक्तस्य लघुशास्त्रीयसङ्गीतस्य अपि भावपूर्णगायकः आसीत् । ठुम्रिराजः इति ख्यातात् मौझुद्दीन् खान् साहिब्वर्यात् तेन प्रेरणा प्राप्ता आसीत् । मराठी-कन्नडनाट्यसङ्गीतस्य तदीयं गानम् अत्यपूर्वम् आसीत् । तेन भजन-अभङ्ग-कन्नडभक्तिगीतादीनि अत्यन्तं भक्त्या गीयन्ते स्म । पितुः सकाशात् तेन कर्णाटकशैली अधिगता आसीत् । कन्नडभक्तिगीतानि तेन कर्णाटकशैल्या गीयन्ते स्म । इदं बहु प्रसिद्धिं प्राप्नोत् । तदीयं पोगदिरेलो रङ्ग इत्येतत् पुरन्दरदासेन विरचितं गीतम् अत्युत्पन्नकर्मत्वेन प्रसिद्धम् । सार्वजनिककार्यक्रमाणां प्रस्तुतीकरणाय गुरुरावदेशपाण्डेवर्येण आभारतम् अटितम् । सम्प्रतं पाकिस्थानं प्रति अपि तेन गतमासीत् सङ्गीतकार्यक्रमस्य प्रस्तुत्यै । तेषु दिनेषु कोऽपि प्रमुखः सङ्गीतकार्यक्रमः गुरुरावस्य सङ्गीतकार्यक्रमरहितः न भवति स्म । यदा नई देहलीस्थेन भारतीय-आकाशवाणीकेन्द्रेण कर्णाटकस्य धारवाडनगरे प्रसारकेन्द्रम् आरब्धव्यम् इति निश्चितं तदा सङ्गीतनिर्मापकरूपेण कर्तव्यनिर्वहणाय कस्यचन सुशिक्षितस्य सङ्गीतज्ञस्य आवश्यकता आसीत् । गुरुरावस्य सामर्थ्यम् अवगत्य तं तस्मिन् पदे नियोजितवन्तः । सः षोडश वर्षाणि यावत् तत् उत्तरदायित्वं समीचीनतया निरवहत् ।

प्राप्ताः प्रशस्तयः[सम्पादयतु]

भारतीयसङ्गीतपरम्परायां, गुरुरावदेशपाण्डेवर्यस्य कालपर्यन्तमपि सङ्गीतज्ञानां प्रशस्ति-सम्माननादीनां परिकल्पना नितरां भिन्ना एव आसीत् । उत्तमगुरोः प्राप्तिः, 'मेह्नत्/तालीम्', गुरुजनानां पुरतः गुणीनां पुरतः गानं प्रस्तूय तेभ्यः साधुवादप्राप्तिः एव महत् सम्माननम् इति परिगण्यते स्म । स्वस्य गुरोः पण्डितस्य रामकृष्णबुवावझेवर्यस्य पुरतः, उस्ताद् अल्लादिय खान्, मञ्जि खान् साहेब्, केसर्बाई केर्कार्, अब्दुल् करीम् खान् साहेब् इत्यादीनां श्रेष्ठगायकानां पुरतः गानावसरः एव महत् सम्माननम् इति भावयति स्म गुरुरावः । विनयशीलः सः सर्वविधप्रसिद्धितः दूरं तिष्ठति स्म । महात्मनः सवायी गन्धर्वस्य २४ पुण्यस्मरणावसरे कर्णाटकस्थे कुन्दगोलप्रदेशे सम्पन्ने सङ्गीतोत्सवे पण्डितः गुरुरावः गायनाचार्यः इत्येतेन बिरुदा सम्मानितः जातः । अद्यत्वे तेनैव नाम्ना सः प्रसिद्धः अस्ति । १९७१ तमे वर्षे सः सङ्गीतनृत्याकादमीद्वारा सम्मानितः जातः । स्वीयं सङ्गीतज्ञानं वाणिज्यलाभाय तेन कदापि न उपयुक्तम् ।

षष्ट्यब्दसमारोहः[सम्पादयतु]

भीमसेनजोशिना सह गुरुरावः

देशस्य प्रसिद्धतमेषु गायकेषु अन्यतमः सङ्गीतसम्राट् पण्डितः भीमसेनजोषीवर्यः बाल्ये गुरुराववर्यस्य सङ्गीतस्य श्रवणावसरात् कदापि च्युतः न भवति स्म । स्वस्य गदगप्रदेशात् दूरे कार्यक्रमः भवति चेदपि अवश्यं तत्र उपस्थितः भवति स्म । समीपात् श्रोतुम् अवसरः लभ्यते इत्यतः एव सह सहगानस्य अवसरम् अङ्गीकरोति स्म । गुरुरावदेशपाण्डेवर्येण हिन्दुस्तानीसङ्गीतक्षेत्राय कृतस्य अपूर्वस्य योगदानस्य गौरवसूचनाय भीमसेनजोषीवर्येण १९६२ तमस्य वर्षस्य एप्रिल्मासस्य १४ दिनाङ्के गुरुरावदेशपाण्डेवर्यस्य 'षष्ट्यब्दसमारोहः' आचरितः महाराष्ट्रे पुणेनगरे । तत्र बहवः श्रेष्ठाः कलाविदः सङ्गीतकार्यक्रमं प्रस्तुतवन्तः । तस्मिन् कार्यक्रमे सम्मानितातिथिरूपेण उपस्थितः ज्येष्ठः गायकः कृष्णराववर्यः गुरुरावदेशपाण्डेवर्यम् उद्दिश्य अत्युत्कृष्टैः मौक्तिकैः युक्तः इति अवर्णयत् ।

व्यक्तित्वम्[सम्पादयतु]

तदीयं व्यक्तित्वं नितरां प्रभावयुक्तम् आसीत् । सर्ववयस्काः विद्वज्जनाः गुणिनः च अन्तःप्रेरणया एव तं नितराम् आद्रियन्ते स्म । तदीयं शिक्षणं कौटुम्बिकपृष्ठभूमिका च जीवने बहुमुखव्यक्तित्वसम्पादने सहाकरोत् । अननुशासनस्य दर्शनेन यद्यपि सः कुपितः भवति स्म तथापि आसीत् सहृदयी मृदुभाषी च । तदीयसमकालीनाः सहोद्योगिनश्च तं सरलं, करुणापूर्णम्, अन्येषां भावविषये सूक्ष्मज्ञं च मन्यन्ते । समयपालनं स्वच्छता च तस्य सहजस्वभावः आसीत् । सः कदापि अननुशासनं न सहते स्म । 'सः स्वयं घटीरूपः' इति वदति स्म भीमसेनजोषी यच्च वचनं तस्य समयपालनविषये भूरि भाषते । गुरुरावः शिक्षणतज्ज्ञः आसीत् । शिक्षणं मानवं सुसंस्कृतं करोति, सुसंस्कृतः कलाविद् एव स्वस्य सहोद्योगकलाविद्भिः, श्रोतृभिः, आयोजकैः, सार्वजनिकैश्च समीचीनं व्यवहर्तुम् अर्हति । अतः एव गुरुरावः पण्डितस्य विनायकतोरविवर्यस्य सङ्गीताभ्यासेन सह शैक्षिकाभ्यासस्य समापनविषये आग्रहवान् आसीत् । गुरुरावस्य कलाविदः पुत्राः सर्वे अपि अत्युत्तमं शैक्षणिकार्हतां सम्पादितवन्तः सन्ति । गुरुरावस्य सङ्गीते सार्वलौकिकप्रभावः दृश्यते स्म । तस्य प्रेरणास्रोतः आसीत् परमधार्मिकः तत्त्वज्ञानी श्री गुरुदेवः रानडेवर्यः । तस्य तत्त्वानाम् अभिव्यक्तिरूपा एव आसीत् गुरुरावस्य जीवनशैली सरलता च । गुरुदेवस्य राम्भवुरानडेवर्यस्य प्रवचनानि श्रोतुं नियतरूपेण गुरुरावः गच्छति स्म । स्वस्य गन्धर्वगानेन स्वीयाध्यात्मगुरोः मनः सन्तोषयति स्म गुरुरावः । नित्यं तेन ध्यानं क्रियते स्म, 'ज्ञानेश्वर्याः' 'दासबोधस्य' पारायणं च क्रियते स्म ।

गुरुरावः साहित्यञ्च[सम्पादयतु]

सः कन्नडभाषाम् आङ्ग्लभाषां च समीचीनतया अधीतवान् आसीत् इत्यतः भाषाद्वयस्य साहित्ये अपि तस्य विशेषासक्तिः आसीत् । कुमारव्यासभारतम् लक्ष्मीशभारतम् इत्येतयोः कन्नडसाहित्यस्य प्राचीनग्रन्थयोः आमूलाध्ययनं तेन कृतमासीत् । हिन्दुस्तानीसङ्गीतस्य गमकशैल्या अनयोः कृतयोः वाचनं तस्य एव नूतनः परिक्रमः । अस्य प्रेरणा तेन भरतबिन्दूराववर्यात् प्राप्तं यस्य गुरुरावः महान् अभिमानी आसीत् । कन्नडसाहित्याय तदीयं महत् योगदानं नाम उत्कृष्टं गमकवाचनम् । कुमारव्यासस्य लक्ष्मीशभारतस्य सुदीर्घप्रवचनानि बहु जनप्रियाणि आसन् । गमकवाचनाय तेन आकर्णाटकम् अटितम् । तदा व्याख्यानदानाय प्रसिद्धः लेखकः श्री बेटगेरे कृष्णशर्मा तेन सह सर्वत्र अगच्छत् । कर्णाटकस्य हुब्बल्लीनगरे प्रवृत्ते गमकसम्मेलने गुरुरावः गमकगौरीशङ्करः इत्येतेन बिरुदा सम्मानितः । ज्ञानपीठप्रशस्तिविजेता डा द रा बेन्द्रेवर्यः गुरुराववर्यस्य आत्मीयेषु अन्यतमः आसीत् । उभौ अपि कन्नडसाहित्यस्य विविधेषु विषयेषु सुदीर्घां चर्चां कुरुतः आस्ताम् । आङ्ग्लसाहित्ये अपि गुरुरावः कृतभूरिपरिश्रमः आसीत् । 'इण्टर् आर्ट्स्' इत्येतां तदानीन्तनकालस्य महत्त्वपूर्णां परीक्षाम् उत्तीर्णः गुरुरावः, वर्ड्स् वर्त्, मिल्टन्, शेक्स्पियर् इत्यादीनां प्रसिद्ध-आङ्ग्लकवीनां महान् अभिमानी आसीत् । तेषां काव्यानि तेन गभीरतया पठितानि आसन् । बहुधा तानि तेन उल्लिख्यन्ते स्म । गुरुरावेण ज्यौतिषम् अधीतम् आसीत्, स्वसमीपे आगतानां दुःखीनां साहाय्यं ज्योतिष्यसहाय्येन प्रवृत्तिरूपेण कदाचित् तेन क्रियते स्म ।

शिष्याः[सम्पादयतु]

छात्रैः सह गुरुरावः
पण्डितः नारायणराव मजुम्दारः
पण्डितः विनायक मल्हार्राव् तोरवी
श्रीमती लता नाडिगिर्
श्री बि एन् लोङ्खडि
श्रीमती मालादीक्षित्
श्रीमती विजया लिङ्गसूर्
श्री धीरेन्द्र हावनूर्
श्रीमती सुनन्दा कडपा
श्रीमती रत्नप्रभा जोशी
श्री चिदम्बर तोरवी

आधारः[सम्पादयतु]

http://www.gururaodeshpandesangeetsabha.com

"http://sa.wikipedia.org/w/index.php?title=गुरुरावदेशपाण्डे&oldid=236340" इत्यस्माद् पुनः प्राप्तिः