गोकाकजलपातः
गोकाकजलपातः – कर्णाटकराज्ये बेळगावीमण्डले मण्डलकेन्द्रतः ७२कि.मी.दूरे गोकाक् पत्तनमस्ति । ततः ७कि.मी.दूरे एव कर्णाटकस्य नयागरा इति कथ्यमाना गोकाक् जलपातः दृश्यते । तत्र घटप्रभा नदी १८०मी. गहने कन्दरे पतति । एतस्या: वैशाल्यं १७६ मीटर् । जलपातस्य उच्चघोषः कर्णकुहरं बाधते । एषः जलपातः वर्षाकाले केवलं गर्जति ग्रीष्मकाले क्षीणजलः भवति । अगाधा जलराशिः निसर्गोत्कीर्णात् शिलाकन्दरात् कूर्दति । अस्य जलपातस्य सौन्दर्यम् आस्वादयितुं, ग्रामजनानां सौकर्याय च अत्र १७७मी. दीर्घः दोलासेतुः निर्मितः । इतः दृष्टुम् अधिकं धैर्यम् आवश्यकं भवति यतः नद्यः प्रवाहस्य बलाधिक्यात् जलपातः भयानकः अस्ति । नदीजले कुत्रापि स्नानस्य जलखेलनस्य धैर्यं न प्रदर्शनीयं यतः जलप्रवाहस्य वेगः तावान् अस्ति । यः स्पृशति सः निमज्जति एव । जूनमासतः अक्टोबर पर्यन्तं जलपातविक्षणार्थं सुकालः । अधोभागे जलविद्युदुत्पादनस्य केन्द्रम् अस्ति ।
बहुकालपर्यन्तम् एषः जलपातः अदृष्टः एव आसीत् । कयामल् नाम आङ्गलाधिकारी मृगयार्थं आगतः जलपतनशब्दं श्रुत्वा अत्र अगतवान् । अतीवसुन्दरं जलपातं दृष्ट्वा बहुसन्तुष्टः अभवत् । घटप्रभानद्या निसर्ग निर्मितः जलपातः भारतीयनयागराजलपातः इति ख्यातः अस्ति । १७६ मीटरोन्नतप्रदेशात् १८० पादविस्तृतवक्रप्रदेशतः जलं पतति । त्रिकिलोमीटरतः एव जलपातशब्द- श्रवणं भवति । पुरतः यदा सूर्यः आगच्छति तदा इन्द्रधनुषः निर्माणम् अतीव सुन्दरं भवति । जलधारासु वर्णविन्यासः अपूर्वः भवति । जलं कार्पासः इव अधः पतति । परितः वनप्रदेशः वृक्षाः सुन्दरवातावरणं च आकर्षकाणि सन्ति । वृक्षेषु पक्षिणां कलरवः सदा भवति । अत्रैव समीपे नदीतरणाय कृतः २०१ मीटरदीर्घः तोलनसेतुः अस्ति । क्रिस्ताब्दे १८८७ तमे वर्षे अयोरज्जुभिः निर्मिता इयं सेतुः इदानीमपि कार्यरता अस्ति । वर्षकाले एव जलपातदर्शनं मनोहरम् । प्रतिदिनं जनाः सहस्रशः आगच्छन्ति । जलबन्धकारणात् सर्वदा जलं भवति । तथापि विशेषतः ग्रीष्मकाले जलम् अल्पं पतति ।
मार्गः [सम्पादयतु]
धूमशकटमार्गः [सम्पादयतु]
पुणे-हुब्बळ्ळीमार्गे गोकाकधूमशकटनिस्थानम् अस्ति । ततः १५.कि.मी ।
वाहनमार्गः [सम्पादयतु]
बेळगावीतः ५८ कि.मी । बेङ्गळूरुतः ५३६ कि.मी । बेळगावीतः प्रति पञ्चदशनिमेषेषु एकं वाहनं गच्छति । समीपस्थं विमान निस्थानम् –बेळगावी
अस्य जलपातस्य विशेष: नाम अत्र प्रस्तरभङ्गेन एतस्य जलपातस्य सृष्टि: अभवत् । शिला: उपरितनेन भारेन भग्ना: भूत्वा ताः द्विधा विभक्ताः भवन्ति । एक: भाग: अध: अपसरति । नद्या: जलं उपरिष्टात् अध: अपसृतं भागं प्रति कूर्दति इति कारणेन अत्र जलपात: रचित: अस्ति । अत: एतस्य विशालता अधिका अस्ति ।