गोपालकृष्ण अडिग

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गोपालकृष्ण अडिग
जननम् 18 February 1918(1918-02-18)
दक्षिणकन्नडमण्डलम्, कर्णाटकराज्यम्, भारतम्
मरणम् नवम्बर् १४, १९९२ (वयः ८५)
वृत्तिः प्राध्यापकः, कविः
राष्ट्रीयता भारतीयः Flag of India.svg
कालः क्रि.श.१९१८ तः क्रि.श.१९९२ ।
प्रकारः परिकल्पना
विषयाः पद्यसाहित्यम् ।
साहित्यकान्दोलनम् कन्नडसाहित्यम् - नव्यकाव्यम्
प्रमुखकृतयः भूमिगीत

कर्णाटकराज्यस्य नवोदयसाहित्यरचनाकारेषु गोपालकृष्णअडिगवर्यः अग्रगण्यः। कन्नडसाहित्यक्षेत्रे नवां क्रान्तिम् असृजत् एषः। तस्य विशिष्टशैल्या कर्णाटकस्य जनानां हृदये चिरं स्थानं प्राप्तवान् अस्ति एषः।

जीवनम्[सम्पादयतु]

गोपालकृष्णअडिगस्य(Gopalkrishna Adiga) जन्म १९२८ तमे वर्षे कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य मोगोरि ग्रामे अभवत् । आङ्गलभाषया स्नातकोत्तरपदविं प्राप्तवान् । विविधेषु विद्यालयेषु एषः अध्यापकः प्राध्यापकः प्रांशुपालः च आसीत् । ”’न्याषनल् बुक ट्रस्ट अफ् इन्डिया”’ इत्यस्य उपनिर्देशकः, शिम्लानगरस्य ”’इन्डियन् इन्स्टीटयूट् अफ अड्वान्सड् स्टडीस्”’ इत्यस्य अतिथिप्राध्यापकः अपि आसीत् । १९९२ तमे वर्षे मरणं प्राप्तवान् ।

काव्यशैली[सम्पादयतु]

अडिगः स्वातन्त्र्योत्तरकन्नडकाव्याय प्रवाहस्य वेगं शक्तिं च दत्तवान् । तदानीन्तनसाहित्ये अधिकतया शिथिलता जायमाना आसीत् । स्वतन्त्र्यपूर्वतनाः स्वप्नाः भग्नाः आसन् । तदा एव अडिगः भ्रमनिरसनतायाः आक्रोशयुक्तानि नवपरम्परायाः पद्यानि लिखितवान् । जीवनस्य सङ्कीर्णतायाः अभिव्यक्त्यर्थं प्रतिमालङ्कारम् उपयुक्तवान् । एतेन कारणेन तदानीन्तनाः नवोदयसाहित्यकाराः आश्चर्याघातम् अन्वभवन् । एतादृशमपि काव्यं भवितुम् अर्हति वा ? इति वाग्विवादः आरब्ध्ः । किन्तु तावता नूतनकाव्यस्य मार्गः आरब्धः आसीत् । तदेव नव्यकाव्यम् । अडिगः एव् तस्य निर्मापकः ।

कृतयः[सम्पादयतु]

एतस्य प्रथमः पद्यसङ्ग्रहः ”’भावतरङ्ग"” । १९४६ तमे वर्षे एतस्य प्रकटनम् अभवत् । द्वितीयः पद्यसङ्ग्रहः 'कट्टुवेवुनावु’ १९४८ तमे वर्षे प्रकटितः । एतस्य नाम एव सूचयति यत् 'भावतरङ्गः नवोदयकाव्यस्य भावप्राधान्यतां, 'कटटुवेवुनावु’ प्रगतिशीलस्य सहित्यस्य आशयान् च स्वीकृतवन्तौ स्तः इति ।

अडिगस्य ”’नडेदु बन्द दारि”’, ”’पुष्पकविय पराकु” ”’नन्न अवतार"’, ”’इन्दु नवनाडु” कवितासु प्राचीनस्य अर्वाचीनस्य च दैन्यस्थितेः विषये विषादः प्रकटीकृतः अस्ति । ”‘चण्डमद्दले”’ (१९५४) मध्ये एषः विषयः इतोपि तीव्ररूपेण अस्ति । एतस्मिन् विद्यमानाः ”‘हिमगिरियकन्दर"’, ”’गोन्दलपुर"’ कविताः च समाजस्य अत्यन्तं भीभत्सचित्रणं दर्शयन्ति । उभयत्र अपि समाजस्य उपरि विद्यमानः अडिगमहोदयस्य आक्रोशः व्यक्तः अस्ति ।

अडिगवर्यस्य विचारधारा[सम्पादयतु]

काव्यं नाम अडिगस्य दृष्ट्या इष्टदेवतायै क्रियमाणः उद्यमः। ”‘भूमिगीत'”. ”’भूत"’ ”‘कूपमण्डूक"’, ”’श्रीरामनवमियदिवस"’, ”’वर्धमान"’ ”’चिन्तामणियलि कण्ड मुख"’ एतादृशीः श्रेष्ठकविताः लिखितवान् । भूमीगीते भूमी-मनुष्ययोः सम्बन्धं, मनुष्य-कालयोः सम्बन्धम् अन्विष्यति। अत्र काव्यनायकः भूम्याकाशयोः आकर्षणेन बद्धः सन् अस्तित्वम् अन्विष्यन् त्रिशङ्कुस्थितौ भवति। अनाथप्रज्ञाम् अनुभवन् 'जन्मदात्रीं मातरं भोगसाधनकार्यार्थं योजितवतः’ इडिपसस्य गूढ्पापप्रज्ञाम् अनुभवति। तदानीन्तनसंयमानाम् अभिमुखं गतस्य मनुष्यस्य परकीयप्रज्ञाम् अडिगवर्यः सम्यक् चित्रितवान् अस्ति। 'चिन्तामणियलि कण्ड् मुख' इत्यत्र व्यक्तित्वस्य अपरमुखस्य विषये संशोधनं कृतम् अस्ति। अडिगस्य एतादृशं संशोधनं कवनानां कृते केवलं सीमितं नास्ति। अपूर्णः मानवः पूर्णत्वं प्राप्नोतु इति एव एतस्य आशयः । एषः एकत्र साम्यवादस्य(कम्युनिसम्) तथा बण्डवालशाहि इत्यस्य विरोधं कृतवान् । एतस्य अभिप्रायेण क्रान्तिः तु सर्वदा व्यक्तिमानसे । नव्यसाहित्यस्य दृष्टिः तु समाजस्थस्य व्यक्तेः प्रकाशे भवति।

अडिगः अनुवादः विमर्शा, चिन्तनशीलतेखनानि च लिखितवान् अस्ति । यद्यपि कथाः धारावाहिनीः अपि लिखितवान् तथापि तस्य काव्यानि एव तस्मै प्रसिद्धिम् अयच्छन् ।

प्राप्ताः गौरवप्रशस्तयः[सम्पादयतु]

राज्यसाहित्यअकाडेमी प्रशास्तिः (१९७४), केन्द्रसाहित्यअकाडेमी प्रशास्तिः (१९७५), वर्धमानप्रशस्तिः (१९८०), कुमार आसान् प्रशस्तिः (१९८६), कबीर- सम्मान प्रशस्तिः (१९८६), पम्पप्रशस्तिः (मरणोत्तरं १९९६), धर्मस्थलस्य ५५ तमस्य अखिलभारतकन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानम् (१९७३)

”’नेनपिन गणि”’ एतस्य आत्मचरितम्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गोपालकृष्ण_अडिग&oldid=279993" इत्यस्माद् पुनः प्राप्तिः