गोमयम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गोमयम्

प्रादेशिकभाषायाम् ‘अमृतपानी’ इति कथ्यमानं भूसारवर्धकं (सस्यानाममृतपानम्) एकं योगं सज्जीकुर्वन्ति निपुणा: कृषिका: । निर्माणप्रक्रिया एवमस्ति - 20 किलोग्राम् गोमयं जले संस्थाप्य घण्टाद्वयं यावत् आदौ आलोडनीयम् । अनन्तरं 250 ग्राम् घृतं योजयित्वा पुन: घण्टाद्वयं यावत् आलोडनीयम् । तस्मिन् पुन: 500 ग्राम् मधु योजयित्वा घण्टाद्वयं यावत् आलोड्य, लीटर्द्वयं जलं संयोज्य पुन: घण्टाद्वयं यावत् सम्यक् आलोडनीयम् । एतदेव सस्यानाम् अमृतपानम् । एतत् मिश्रणं जले संमिश्र्य कृषिभूमौ प्रोक्षणेन सस्यपोषककीटा: भूमौ क्रियाशीला: भवन्ति, भूसार: अपि विशेषरूपेण सङ्घटित: भवति । एतं प्रयोगं महाराष्ट्रेषु, कर्णाटकेषु, आन्ध्रेषु च केचन कृषका: कुर्वन्ति ।

मानवचिकित्सायां गोमयम्[सम्पादयतु]

Cow patty Varansi

मानवचिकित्सायां गोमयं बहुधा उपयुज्यते । यथा -

  • अर्शरोगचिकित्सायां स्वेदनार्थम् गोमयस्य उपयोग: क्रियते ।
  • कुष्ठे गोमयेन घर्षणं कुर्वन्ति ।
  • गोमयरस: कफजशिरोरोगेषु नस्यप्रयोगार्थम् उपयुज्यते ।
  • रक्तपित्तरोगे गोमयस्य उपयोगो भवति ।
  • गलगण्डरोगे गोमयभस्मसेवनं कारयन्ति ।
  • गोमयरस: मधुना सह कासरोगेषु प्रयुज्यते ।
  • हिक्कारोगे गो - अश्व - मक्षिकाशकृतां नस्यं प्रयच्छन्ति ।
  • गोमयस्वरसेन लेह्यं अञ्जनं च कुर्वन्ति ।
  • यक्ष्मा तथा शोषरोगे गोमयादिना सिद्धं घृतम् उपयुज्यते ।
  • गोशकृत् दृष्टिवर्धकम् इति कारणत: तिमिररोगे तस्य नस्यं प्रयच्छन्ति ।
  • गोमयं क्रिमिनाशकमपि भवति । अत एव स्थलशुद्धिं कर्तुं गोमयजलेन प्रोक्षणं कुर्वन्ति । भोजनानन्तरं भुक्ते स्थले गोमयजलस्थापनेन शुद्धि: सम्पाद्यते ।

गव्यस्य वस्तुशुद्धिकारकगुणविषये मनु: इत्थं वदति -

क्षौमवच्छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥
सम्मार्जनेनोपाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमि: शुध्यति पञ्चभि: ॥ (म. स्मृ.)
  • उत्सवादिसन्दर्भेषु गृहाङ्गणे गोमयलेपनं भवति । तस्मिन् समये भूगन्धमिश्रित - गोमयगन्ध: समुत्थितो भवति । स च गन्ध: आरोग्याय भवति ।
  • गोमयं विषहरं च भवति । अत एव गृहाङ्गणे कदाचित् विषजन्तूनां मारणं भवति चेत् तत्र गोमयलेपनं कुर्वन्ति ।
  • गोमयं किञ्चित्प्रमाणेन विकिरणनिरोधकत्वेनापि कार्यं करोति ।
  • धान्यशोधनार्थं य: शूर्प: उपयुज्यते तदुपरि गोमयलेपनं कुर्वन्ति ।
  • विधिवत् महाशिवरात्रौ भस्मीकृतं भस्म त्रिपुण्ड्रधारणयोग्यं भवति ।
22opx

गोमयेन पाकानिल:, विद्युत् , यानचालनं च गोमयस्य शुष्करोटिका: (कारीषा:) इन्धनरूपेण उपयुज्यन्ते स्म प्राचीनकाले । (इदानीमपि ग्रामेषु उपयुज्यन्ते एव ।) आधुनिककाले तु अनिलचुल्य: शोभन्ते पाकगृहेषु । ‘गोमय - अनिलेन’ अपि तादृश्य: अनिलचुल्य: ज्वालयितुं शक्यन्ते । एतदर्थं गोमयानिलस्थावरत: पाकशालां प्रति नालिकाद्वारा अनिल: आनीयते । ‘गो - अनिल’ चुल्या: उपयोगम् इदानीं बहुत्र कुर्वन्ति । गोमयानिलेन गृहोपयोगिविद्युत: अपि उत्पादनं भवति । सामान्य- (लघु) - गो - अनिलस्थावरत: प्राप्तेन अनिलेन 8-20 दीपा: ज्वालयितुं शक्यन्ते । गोमयानिलेन स्कूटर्, कार् इत्यादीनि यानानि अपि चालयितुं शक्यन्ते । अयं प्रयोग: कर्णाटकेषु कृत: अस्ति । अनेन विधानेन (यानेषु गो - अनिल योजनेन) 25 रूप्यकाणां व्ययेन 250 किलोमीटर् दूरं प्रयाणं कर्तुं शक्यते इति वदति प्रयोगशील: राजेन्द्र हेगडे ।

"http://sa.wikipedia.org/w/index.php?title=गोमयम्&oldid=232557" इत्यस्माद् पुनः प्राप्तिः