गोवाराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गोवा इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
गोवाराज्यम्
—  राज्यम्  —

मुद्रिका
भारते गोवाराज्यम्
गोवाराज्यस्य मानचित्रम्
Coordinates (पणजी): 15°33′47″N 73°49′05″E / 15.563°N 73.818°E / 15.563; 73.818Coordinates: 15°33′47″N 73°49′05″E / 15.563°N 73.818°E / 15.563; 73.818
राष्ट्रम्  भारतम्
Established 30 May 1987
राजधानी पणजी
बृहत्तमम् नगरम् वास्को-डा-गामानगरम्
राज्यम् 2
विस्तीर्णता
 • संहतिः ३,७०२ Square km (१,४२९.४ Square mile)
क्षेत्रस्तरः 28th
Population (2011)
 • संहतिः १४,५७,७२३
 • Rank 25th
भारतीयसामान्यकालमानम् (UTC+05:30)
ISO 3166 code IN-GA
HDI rank 3rd (2005)
साक्षरतापरिमाणम् 87% (3rd)
अधिकृतभाषा कोङ्कणी
जालस्थानम् www.goa.gov.in
^* कोङ्कणी is the sole official language but मराठी is also allowed to be used for any or all official purposes.[१][२][३]

गोवाराज्यम् (Goa) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् अस्ति । ‘गोवा’ इति पदस्य मूलं गोशब्दात् अथवा गोमन्तशब्दात् भवितुम् अर्हति । महाभारते भीष्मपर्वणि गोमन्तशब्दस्य प्रयोगः अस्ति । हरिवंशे स्कन्दपुराणेऽपि गोमन्तपदप्रयोगः दृश्यते । गवाम् पालनम् अस्मिन् प्रदेशे भवति स्म । गोपालकानां प्रदेशः अयम् इति कथ्यते । एतं प्रदेशं परशुरामः समुद्रं दूरं संप्रेष्य प्राप्तवान् इति पुराणानुसारं ज्ञातं भवति ।

इतिहासानुसारं क्रिस्ताब्दे चतुर्थे शतके शातवाहनाः, चालुक्याः, कोङ्कणशिलहराः, गोवाकदम्बाः (९८०-१५५५), कोङ्कणभोजाः च प्रशासनं कृतवन्तः । अग्रे यादवान् पराजित्य मोगलवंशीयाः अधिकारं प्राप्तवन्तः । अनन्तरं विजयनगरराजानः बहमनीसुल्तानाः च अत्र प्रशासनाधिकारम् प्राप्तवन्तः आसन् ।१४ शतके बिजापुरस्य आदिलशाहीनाम् अधीनम् आसीत् । क्रिस्ताब्दे १५१० तमे वर्षे पुर्तुगालदेशीयाः अत्राधिकारम् आरब्धवन्तः । क्रिस्ताब्द १९६१ तमे वर्षे डिसेम्बर १९ दिनाङ्कतः भारतसर्वकारस्य अधीनं राज्यम् अभवत् । पुर्तुगालदेशीयाः अत्र ४५० वर्षाणि यावत् प्रशासनम् कृतवन्तः ।

गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां पश्चिमदेशीयानां च संस्कृतिसङ्गमः। सुन्दरसागरतीराणि, प्रकृतिसौन्दर्यं. घट्टप्रदेशानां दर्शनं हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, देवालयाः, प्रार्थनामन्दिराणि, उपहारवसतिगृहाणि गोवाराज्यस्य प्रमुखाकर्षणानि ।

गोवाराज्यस्य विस्तीर्णम् ३७०२ चतुरस्रकि.मी। ‘पणजी’ नगरं राजधानी अस्ति । वास्को फोंडा मडगांव म्हाप सा इतरनगराणि सन्ति । मांडवी नदीतीरे पणजी नगरमस्ति। गोवाराज्ये सागरतीरं १०५ कि.मी दीर्घमस्ति । २७ सागरतीरप्रदेशाः प्रसिद्धाः सन्ति । उत्तरगोवा दक्षिणगोवा इति राज्ये भागद्वयं कृतम् अस्ति । उत्तरगोवाप्रदेशे अरावेलं फाल्स्, दत्तमन्दिरं, मेयं लेक्, वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गं च दर्शनीयानि सन्ति । दक्षिणगोवाप्रदेशे मिरामर्, दोनापौला, मार्मगोवा, वास्कोकोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च सन्ति । प्राचीनगोवाप्रदेशे भोमजीसस् बेसिलिकास्थले सन्त फ्रान्सिस् जेवियर महोदयस्य शरीरं रजतकरण्डके स्थापितवन्तः सन्ति । दशवर्षेषु एकवारं डिसेम्बरमासस्य तृतीयदिनाङ्कतः त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटयन्ति । सन्त केजेटान् चर्च, सेन्ट अगस्टेन् चर्च्, सन्तमोनिका चर्च इत्यादीनि अतीव सुन्दराणि सन्ति । गोवाराज्ये प्रवासोद्यमः अतीवोत्तमः अस्ति । अत्र एकदिनप्रवासव्यवस्था अस्ति । सागरतीराणां दर्शनं, देवालयानां दर्शनं, चर्चदर्शनं, स्म्पूर्णदर्शनम् इत्यादिरूपेण पृथक् व्यवस्था अस्ति । पालोळम् इत्यत्र श्वेतवालोकानां प्रदेशे नारिकेलवाटिकानां वीक्षणं सुन्दरम् अस्ति । मार्गोवातः ३७ कि.मी दूरे कोङ्ककणधूमशकटमार्गसमीपे अतीव सुन्दरं सागरतीरमस्ति । सागरतीराणाम् कोल्वा, अञ्जना, कल्लनगुड्ड इत्यादि नामानि सन्ति ।

अन्तर्विषयाः

गोवाप्रदेशस्य सागरतीराणि [सम्पादयतु]

अगोड इत्येतत् प्रसिद्धं डनहिलसागरतीरस्थम् । अत्रत्यम् उपाहारवसतिगृहस्थानम् उत्तमम् अस्ति । ब्लूलगून् प्यारडैस् रेसार्ट अपि उत्तमं स्थलमस्ति । अग्रे जलविहारसमुद्रस्नानादिनिमित्तं अतीव सुन्दरम् सागरतीरम् अस्ति । बेनोलिम् तीरमपि जनप्रियम् अस्ति । एतत् डबोलिम् विमाननिस्थानतः ४५ कि.मी दूरे अस्ति । प्यासेलिङ्ग् वाटर् स्कूटरप्रयाणम् अत्र कर्तुं शक्यते । अग्रे बाग् क्याण्डोलिं सिनक्वेरिं तीरे पणजीसमीपे १४.कि.मी दूरे स्तः । एते दीर्घतीरे। अत्युत्तरभागे केरि सागरतीरम् अस्ति । मालो मिरामाट् स्थले अष्ट डैविङ्गसंस्थाः कार्याणि कुर्वन्ति । गोवासागरतीरेषु सूर्योदयादस्तपर्यन्तं जनाः विहारं कुर्वन्तः आनन्दमनुभवन्ति । जले विहारं कुर्वन्ति । शान्तम् सुन्दरं सागरतीरं अतीवानन्ददायकं भवति इत्यत्र संशयः नास्ति ।

मार्गः [सम्पादयतु]

वायुमार्गः [सम्पादयतु]

गोवाराज्ये विमाननिस्थानं पणजीनगरस्य डबोलीम्देशे अस्ति । विमाननिस्थानकस्य नाम डबोलीं विमाननिस्थानकम् ।

धूमशकटमार्गः [सम्पादयतु]

धूमशकटयानार्थं कोङ्कणधूमशकटमार्गः अस्ति ।

वाहनमार्गः [सम्पादयतु]

राज्ये कदम्बसम्पर्कवाहनव्यवस्था अस्ति । कर्णाटक-महाराष्ट्र-आन्ध्रप्रदेश-तमिळ्नाडु इत्यादिराज्यानां प्रमुखनगरेभ्यः वाहनसम्पर्कः अस्ति । विशेषतः गोवाराज्ये डिसेम्बरमासस्य अन्तिमे सप्ताहे विशेषोत्सवः भवति । बहवः जनाः अस्मिन् काले आगच्छन्ति।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]

  1. Goa. Commissioner Linguistic Minorities, 42nd Report, July 2003 to June 2004. National Commissioner Linguistic Minorities. दिनांकः 17 July 2007. “Konkani is the official language of the state. There actually is no second official language. However, as per notification, Marathi will be used for the purpose of reply by the Government whenever communications are received in that language.”
  2. UNI. "Marathi vs Konkani debate continues in Goa", rediff.com, Rediff.com India Limited, 30 May 2007. Retrieved on 17 July 2007. 
  3. Government of Goa. About Goa. goa.gov.in. Goa Government. “At present, Marathi and Konkani are two major languages of Goa.”
"http://sa.wikipedia.org/w/index.php?title=गोवाराज्यम्&oldid=237896" इत्यस्माद् उद्धृतम्