गोवाराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गोवा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गोवाराज्यम्
—  गोपालकानां प्रदेशः  —
भारते गोवाराज्यम्
गोवाराज्यस्य मानचित्रम्
Coordinates (पणजी): 15°27′47″N 73°49′05″E / 15.463°N 73.818°E / 15.463; 73.818
राष्ट्रम्  भारतम्
स्थापना ३० मे १९८७
राजधानी पणजी
बृहत्तमं नगरम् वास्को-द-गामा
राज्यम् 2
विस्तीर्णता
 • संहतिः  Square km ( Square mile)
क्षेत्रस्तरः अष्टाविंशतितमः
Population (२०११)
 • संहतिः
 • Rank पञ्चविंशतितमः
भारतीयसामान्यकालमानम् (UTC+०५:३०)
ISO 3166 code IN-GA
HDI rank तृतीयः (२००५)
साक्षरतापरिमाणम् ८७% (तृतीयः)
अधिकृतभाषा कोङ्कणी
जालस्थानम् www.goa.gov.in
^* कोङ्कणीभाषा राजभाषा अस्ति । परन्तु मराठीभाषा अपि व्यावहारिकभाषात्वेन, राजभाषात्वेन च उपयोगं कुर्वन्ति जनाः । [१][२][३]

गोवाराज्यं (हिन्दी: गोवा, आङ्ग्ल: Goaआङ्ग्लः) भारते स्थितं किञ्चन लघुराज्यम् अस्ति । गोवाराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि महाराष्ट्रराज्यं, दक्षिणदिशि कर्णाटकराज्यं, पूर्वदिशि पश्चिमघाटः, पश्चिमदिशि अरबीसमुद्रश्चास्ति । पणजी, वास्को द गामा, मडगांव चास्य राज्यस्य प्रमुखनगराणि सन्ति । पणजी-नगरं राज्यस्य राजधानी अस्ति । वास्को द गामा राज्यस्यास्य बृहत्तमं नगरमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं बहुभ्यः वीक्षणीयेभ्यः समुद्रतटेभ्यः सुप्रसिद्धमस्ति । गोवाराज्यस्य विस्तीर्णं ३७०२ च.कि.मी अस्ति । पणजी इति नगरमस्य राजधानी अस्ति । वास्को, फोण्डा , मडगांव, म्हापसा च राज्यस्यास्य मुख्यनगराणि सन्ति । माण्डवीनदीतीरे पणजी इत्येतत् नगरमस्ति । गोवाराज्ये सागरतीरं १०५ कि.मी दीर्घमस्ति । २७ सागरतीरप्रदेशाः सुप्रसिद्धाः सन्ति । उत्तरगोवा, दक्षिणगोवा इति द्विधा इदं राज्यं विभाजितम् अस्ति ।

पौराणिकी गोवापुरी[सम्पादयतु]

गोवाराज्यस्य प्रप्रथमोल्लेखः महाभारतस्य भीष्मपर्वणि उपलभ्यते । भीष्मपर्वणि गोमन्त इति नामोल्लेखः अस्ति, यस्यार्थः भवति गवां प्रदेशः इति । स्कन्दपुराणस्य सह्याद्रिखण्डे उल्लिखितमस्ति यत्, परशुरामेण सह्याद्रिपर्वतसमीपस्थं समुद्रजलं प्रतिप्रेषिते सति अस्य प्रदेशस्य रचना जाता इति । पुराणकथास्ति यत्, परशुरामः सप्तर्षिभ्यः यज्ञयोग्यम् उचितं स्थानम् अन्वेषयन् भारतस्य पश्चिमभागे सह्याद्रिपर्वतं प्राप्तवान् । पश्चिमसमुद्रतटस्थं सह्याद्रिपर्वतं सम्प्राप्य सः समुद्रमग्नं पवित्रस्थलं दृष्टवान् । परन्तु समुद्रजलत्वात् यज्ञक्रिया नार्हति इति चिन्तयन् सह्याद्रिपर्वतशिखरात् सप्तशरैः समुद्रजलमेव प्रतिप्रेषितवान् सः । अतः सः प्रदेशः परशुरामक्षेत्रम् इति प्रसिद्धः जातः । (संशोधकाः गजानन शास्त्री, डो. जरसोन, डो. कुन्हा च कथयन्ति यत्, परशुरामः उत्तरभारतात् ब्राह्मणान् आनीयात्र तेषां निवासव्यवस्थां सज्जीकृतवान् आसीत् । एवं तत् स्थानं ब्राह्मणानां मुख्यस्थलम् अभूत् इति ।) ततः सप्तर्षयः तस्मिन् स्थले रुद्रयागं कृतवन्तः । रुद्रयागेन प्रसन्नः शिवः सप्तर्षिभ्यः आशीर्वादं दत्वा सप्तकोटेश्वररूपेण तत्रैव निवसतुम् आरभत । पुराणे कुत्रचित् उल्लिखितमस्ति यत्, शिव-पार्वत्योः विवादः यदा जातः, तदा किञ्चित् समयपर्यन्तं गोमन्तप्रदेश एव शिवस्य निवासस्थानम् आसीत् इति । हरिवंशपुराणानुसारं श्रीकृष्णः जरासन्धवधं यस्मिन् गोमाञ्चलपर्वते कृतवान्, सः पर्वतः गोवाप्रदेश एवास्ति । गोवापुरी पवित्रतमप्रदेशेषु अन्यतमः अस्ति इति नारदपुराणस्य उत्तरार्धस्य चतुस्सप्ततितमे (७४) अध्याये उल्लिखितमस्ति । तस्मिन्नेवाध्याये गोवाप्रदेशस्य स्थाननिर्धारणं, माहात्म्यं, रचनाकथां च वसुनामकः कश्चन गुरुः मोहिनीनामिकां शिष्याम् उद्दिश्य वर्णयति । (एनम् अध्यायं निश्चयेन पठन्तु ।) ब्रह्माण्डपुराणेऽपि गोवापुर्याः उल्लेखः अस्ति । तद्यथा -

गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् ।
सार्धयोजनविस्तारं तीरे पश्चिमवारिधेः ॥ ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५६ २,५६.७ ॥

स्कन्दपुराणेऽपि एवम् उल्लिखितम् अस्ति -

गोकर्णादुत्तरे भागे सप्तयोजनविस्तृतम् ।
तत्र गोवापुरी नाम नगरी पापनाशिनी ।।

इतिहासः[सम्पादयतु]

इतिहासानुसारं क्रिस्ताब्दे चतुर्थे शतके शतवाहनवंशीयाः, तदनन्तरं क्रमेण चालुक्यवंशीयाः, कोङ्कणशिलहरवंशीयाः, गोवाकदम्बवंशीयाः (९८०-१५५५), कोङ्कणभोजवंशीयाः च अत्र प्रशासनं कृतवन्तः । अग्रे यादवान् पराजित्य मोघलवंशीयाः अधिकारं प्राप्तवन्तः । अनन्तरं विजयनगरराजानः, बहमनीवंशीयाः च अत्र प्रशासनाधिकारं प्राप्तवन्तः आसन् । चतुर्दशे शतके बिजापुरस्य आदिलशाहीवंशीयानाम् अधीनम् आसीत् एतत् राज्यम् । १५१० तमे वर्षे पुर्तुगालदेशीयानां शासनम् आरब्धम् । १९६१ तमे वर्षे 'डिसेम्बर्'-मासस्य १९ दिनाङ्क-तः भारतसर्वकाराधीनम् अभवत् राज्यमिदम् । पुर्तुगालदेशीयाः अत्र ४५० वर्षाणि यावत् प्रशासनम् कृतवन्तः आसन् इत्यतः राज्येऽस्मिन् तत्प्रभावः अधिकः दृश्यते ।

वीक्षणीयस्थलानि[सम्पादयतु]

गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां, पश्चिमदेशीयानां च संस्कृतिसङ्गमः अस्ति इति कश्चन विशेषः । सुन्दरसागरतटानां, प्रकृतिसौन्दर्यभरितघट्टप्रदेशानां च दर्शनम् अत्र भवति । हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, रमणीयाः देवालयाः, नैकानि प्रार्थनामन्दिराणि, उपाहारवसतिगृहाणि च गोवाराज्यस्य प्रमुखाकर्षणानि सन्ति ।

उत्तरगोवामण्डले अरावेलं जलपातः, दत्तमन्दिरं, 'मेयं लेक्', वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गः च दर्शनीयानि स्थलानि सन्ति ।

दक्षिणगोवामण्डले मिरामर, दोनापौला, मार्मगोवा, वास्को कोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च दर्शनीयानि स्थलानि सन्ति ।

प्राचीनगोवाप्रदेशे 'भोमजीसस्'-'बेसिलिका'स्थले 'सेन्ट् फ्रान्सिस् जेवियर'-इत्यस्य शरीरं रजतकरण्डके स्थापितमस्ति । तत् स्थानं दशवर्षेषु एकवारं 'डिसेम्बर'-मासस्य तृतीयदिनाङ्कात् त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटितः भवति । 'सेन्ट् केजेटान् चर्च, सेन्ट अगस्टेन् चर्च, सेन्ट् मोनिका चर्च' इत्यादीनि अत्यन्तं सुन्दराणि सन्ति । गोवाराज्यस्य प्रवासोद्यमः अतीवोत्तमः अस्ति । सागरतटानां दर्शनं, देवालयानां दर्शनं, 'चर्च'दर्शनं, सम्पूर्णदर्शनम् इत्यादीनां दर्शनम् एकस्मिन् दिने एव कर्तुं शक्नुवन्ति प्रवासिनः । 'पालोळम्' इत्यत्र नारिकेलवाटिकानां सुन्दरं वीक्षणीयं स्थलम् अस्ति । मार्गोवा-तः सप्तत्रिंशत् कि.मी दूरे कोङ्कणधूमशकटमार्गसमीपे अतीव सुन्दरः सागरतटः अस्ति । राज्येऽस्मिन् विद्यमानानां सागरतटानां कोल्वा, अञ्जना, कल्लनगुड्ड इत्यादीनि नामानि प्रसिद्धानि सन्ति ।

गोवाप्रदेशस्य सागरतटाः[सम्पादयतु]

'अगोड' इति 'डनहिल्'सागरतटस्थम् उपाहारगृह-वसतिस्थानम् उत्तमं, प्रसिद्धं च अस्ति । 'ब्लूलगून् प्यारडैस् रेसार्ट' अपि उत्तमं स्थलमस्ति । अग्रे जलविहारसमुद्रस्नानादिनिमित्तं अतीव सुन्दरः सागरतटः अस्ति । 'बेनोलिम' तटोऽपि जनप्रियः अस्ति । एतत् डबोलिम विमानस्थानकात् ४५ कि.मी दूरे अस्ति । 'प्यासेलिङ्ग् वाटर् स्कूटर'प्रयाणम् अत्र कर्तुं शक्यते । अग्रे 'बाग् क्याण्डोलिं सिनक्वेरिं' इति द्वौ तटौ पणजी-नगरात् १४ कि.मी दूरे स्तः । एतौ दीर्घतटौ । अत्युत्तरभागे 'केरि' सागरतटः अस्ति । 'मालो मिरामाट्' इत्यत्र अष्ट 'डैविङ्ग'संस्थाः सन्ति । गोवासागरतटेषु सूर्योदयादस्तपर्यन्तं जनाः विहारं कुर्वन्तः आनन्दमनुभवन्ति । जले विहारं कुर्वन्ति । शान्तं, सुन्दरं सागरतीरं अतीवानन्ददायकं भवति इत्यत्र संशयः एव नास्ति ।

विभागः[सम्पादयतु]

गोवाराज्ये २ मण्डले स्तः ।

मार्गाः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

गोवाराज्ये विमानस्थानं पणजी-नगरस्य 'डबोलीम' प्रदेशे अस्ति । विमानस्थानकस्य नाम डबोलीम विमानस्थानकम् इति ।

धूमशकटमार्गः[सम्पादयतु]

धूमशकटयानार्थं कोङ्कणधूमशकटमार्गः अस्ति ।

वाहनमार्गः[सम्पादयतु]

राज्ये कदम्बसम्पर्कवाहनव्यवस्था अस्ति । कर्णाटक-महाराष्ट्र-आन्ध्रप्रदेश-तमिळ्नाडु इत्यादिराज्यानां प्रमुखनगरेभ्यः वाहनसम्पर्कः अस्ति ।

गोवाराज्ये 'डिसेम्बर'-मासस्य अन्तिमे सप्ताहे कश्चन विशेषोत्सवः भवति । तद्द्रष्टुं बहवः जनाः गोवाराज्यं गच्छन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Goa". Commissioner Linguistic Minorities, 42nd Report, July 2003 to June 2004. National Commissioner Linguistic Minorities. Retrieved 17 July 2007. "Konkani is the official language of the state. There actually is no second official language. However, as per notification, Marathi will be used for the purpose of reply by the Government whenever communications are received in that language." 
  2. UNI. "Marathi vs Konkani debate continues in Goa", rediff.com, Rediff.com India Limited, 30 May 2007. Retrieved on 17 July 2007. 
  3. Government of Goa. "About Goa". goa.gov.in. Goa Government. "At present, Marathi and Konkani are two major languages of Goa." 
"http://sa.wikipedia.org/w/index.php?title=गोवाराज्यम्&oldid=267209" इत्यस्माद् पुनः प्राप्तिः