गौतमबुद्धः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गौतम बुद्धः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गौतम बुद्धः
SeatedBuddha.jpg
गांधारशैल्या सृष्टा वज्रमुद्रायुक्ता बुद्धप्रतिमा। अद्य सः प्रतिमा टोक्यो नगरस्य राष्ट्रीय संग्रहालयन्तर्गत संरक्षितो वर्तते
जन्म ५६३ ई० पू०
लुम्बिनी, नेपाल
मरणम् ४८३ ई० पू०
कुशीनगर, भारतम्
वृत्तिः राजकुमारः, धर्मप्रवर्तकः
ख्यातः बौद्धधर्मस्य प्रवर्तकः
स्वनगरम् कपिलवस्तु,नेपाल
पूर्वपुरुषः कस्सपा बुद्ध
उत्तराधिकारी मैत्रेयः


गौतमबुद्धःBuddha with transparent background.png

बौद्धधर्मः

बौद्धधर्मःDharma Wheel.svg
बुद्धस्य विग्रहः

निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।

सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् ।

ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।

एतेषां पालनेनैव सुखं शान्तिश्च भवितुम् अर्हति । महात्मनो बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते, अपि तु चीनजापानलंकादिषु देशेषु लोकप्रियता्म् अलभत ।

भारतीय धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।

सिद्धार्यो महान् सम्राट् व परिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येण वनं गतः । तत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तत्कालीनमात्रं साम्राज्यं त्यक्त्वा आर्तजनानां हृदयसिंहासने शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।

देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।

गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।

"

"http://sa.wikipedia.org/w/index.php?title=गौतमबुद्धः&oldid=279213" इत्यस्माद् पुनः प्राप्तिः